| YouTube Channel

करग्रहारम्भ (karagrahArambha)

 
शब्दकल्पद्रुमः
Sanskrit
करग्रहारम्भः,
पुं,
(करग्रहस्य करादानस्य आरम्भःप्रजाभ्यः ।) राज्ञां प्रजाभ्यो नववर्षीयकरस्य प्रथमा-दानम् तद्दिनं पुण्याह इति ख्यातम् तस्याप-भाषा पुण्या तस्य शुभदिननिरूपणम् यथा, --“तीक्षोग्रवह्नीतरभेषु लग्नेशीर्षोदये भानुदिने शुभाहे ।कुर्य्यादनुक्तानि समीहितानिकरग्रहारम्भमपि प्रजाभ्यः”
इति ज्योतिषम्
अस्यार्थः अश्लेषार्द्राज्येष्ठा-मूलापूर्व्वफल्गुनीपूर्व्वाषाढापूर्व्वभाद्रपदमघाभरणी-कृतिकाभिन्ननक्षत्रेषु मिथुनसिंहकन्यातुलावृ-श्चिककुम्भमीनलग्नेषु रविसोमबुधवृहस्पति-शुक्रवारेषु करग्रहारम्भः कर्त्तव्यः
वाचस्पत्यम्
Sanskrit
करग्रहारम्भ
पु०
करग्रहस्य प्रजाभ्यः करादानस्यारम्भः ।(पुण्या) वार्षिककरग्रहणारम्भे करग्रहारम्भदिकनक्षत्रा-दिकं प्रसङ्गादुच्यते “तीक्ष्णोग्रवह्नीतरभेषु लग्ने शीर्षोदयेभानुदिने शुभाहे कुर्यादनुक्तानि समीहितान कर-ग्रहारम्भमपि प्रजाभ्यः” ज्यो० तुत्र तीक्ष्णगणाः ६, ९१८, १९ आर्द्रादयः, उग्रगणाः पूव्वात्रयमघाःवह्निःकृत्तिका तदितरेषु नक्षत्रेषु शीर्षोदयाः मिथुन-सिंहकन्यातुलावृश्चिककुम्भमीना तादृशे लग्ने