| YouTube Channel

कम्रः (kamraH)

 
शब्दकल्पद्रुमः
Sanskrit
कम्रः, त्रि, (कामयतीति कम् + नमिकम्पीति रः ।३ १६७ ।) कामुकः मैथुनेच्छाविशिष्टः ।इत्यमरः २४
(स्त्री, गङ्गा यथा काशीखण्डे २९ ४४ ।“कमनीयजला कम्रा कपर्द्दिसुकपर्द्दगा”
जह्नुं प्रतीपं शान्तनुं कामितवती कम्रा कामुका
इति तट्टीका
काम्यतेऽसौ इति ।)कमनीयम् यथा, --“लोलां दृष्टिमितस्ततो वितनुते सभ्रूलताविभ्रमा-माभुग्नेन विवर्त्तिता बलिमता मध्येन कम्रस्तनी” ।इति शाकुन्तले अङ्के
कृदन्तरूपमाला
Sanskrit
1 {@“कमु कान्तौ”@} 2 कान्तिः = इच्छा।
3 कामकः 4 कामकः मिका, कामकः-मिका, 5 चिकामयिषकः-षिका, चिकमिषकः-षिका, 6 चङ्कामकः-मिका
चङ्कमकः-मिका
कामयिता-त्री, कमिता-त्री, कामयिता-त्री, चिकामयिषिता-त्री, चिकमिषिता-त्री, चङ्कामयिता-त्री
चङ्कमिता-त्री
-- 7 कामयन्-न्ती, कामयिष्यन्-न्ती-ती
-- 8 कामयमानः, कामयमानः, चिकामयिषमाणः चिकमिषमाणः चङ्काम्यमानः
चङ्कम्यमानः
कामयिष्यमाणः, कामयिष्यमाणः, चिकामयिषिष्यमाणः, चिकमिषिष्यमाणः, चङ्कामयिष्यमाणः
चङ्कमिष्यमाणः
9 कान्-कामौ-कामः
-- -- -- 10 कामितम्-तः-तवान्, 11 कान्तम्-न्तः-न्तवान्, कामितम्-तः, चिकामयिषितः, चिकमिषितः, चङ्कामितः चङ्कमितः तवान्
12 कामः-कमः, 13 प्रकामी, 14 मांसकामः-मांसकामा, 15 हन्तुकामः 16, 17 हरिकामा, 18 कम्रः 19, 20 कमनः, 21 कामुक 22 ः-कामुकी-कामुका, कामः, चिकामयिषुः, चिकमिषुः, चङ्कामः-चङ्कमः
कामयितव्यम्, कमितव्यम्, कामयितव्यम्, चिकामयिषितव्यम्, चिकमिषितव्यम्, चङ्कामयितव्यम्
चङ्कमितव्यम्
23 प्रकामनीयम्, प्रकमनीयम्, कामनीयम्, चिकामयिषणीयम्, चिकमिषणीयम्, चङ्कामनीयम्
चङ्कमनीयम्
24 काम्यम्- 25 कम्यम्, काम्यम्, चिकामयिष्यम्, चिकमिष्यम्, चङ्काम्यम्-चङ्कम्यम्
ईषत्कामः-दुष्कामः-सुकामः, ईषत्कमः-दुष्कमः-सुकमः
-- 26 काम्यमानः, काम्यमानः, काम्यमानः, चिकामयिष्यमाणः, चिकमिष्यमाणः, चङ्काम्यमानः-चङ्कम्यमानः
27 कामः-कामः, कामः, चिकामयिषः, चिकमिषः, चङ्कामः-चङ्कमः
कामयितुम्-कमितुम्, कामयितुम्, चिकामयिषितुम्, चिकमिषितुम्, चङ्कामयितुम्
चङ्कमितुम्
कामना- 28 कान्तिः, कामना, चिकामयिषा-चिकमिषा, 29 चङ्कामा-चङ्कमा
कामनम्, कमनम्, कामनम्, चिकामयिषणम्-चिकमिषणम्, चङ्कामनम्-चङ्कमनम्
कामयित्वा, 30 कमित्वा, कान्त्वा, कामयित्वा, चिकामयिषित्वा चिकमिषित्वा चङ्कामयित्वा-चङ्कमित्वा
प्रकाम्य-प्रकम्य, प्रकाम्य, प्रचिकामयिष्य-प्रचिकमिष्य, प्रचङ्काम्य-प्रचङ्कम्य
31 कामम् कामयित्वा कामम् कमित्वा कान्त्वा कामम् कामयित्वा चिकामयिषम् २, चिकामयिषित्वा २, चिकमिषम् २, चिकमिषित्वा २, चङ्कामम् -चङ्कमम्
चङ्कामयित्वा -चङ्कमित्वा
32 कमठः, 33 कन्तुः, 34 कमलम्, 35 कंसः।
36
प्रासङ्गिक्यः
01
=>
(१६८)
02
=>
(१-भ्वादिः-४४३। सक। सेट्। आत्म।)
03
=>
[[१। ‘कमेर्णिङ्’ (३-१-३०) इति स्वार्थे णिङ्। अमन्तत्वेन मित्त्वं तु न, ‘न कम्य- मिचमाम्’ (ग। सू। भ्वादौ) इति निषेधात्। अतः, ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः। एवं घञ्यपि।]]
04
=>
[[२। ‘आयादय आर्धधातुके वा’ (३-१-३१) इति णिङो वैकल्पिकत्वात् णिङभावपक्षे, ण्वुलि वृद्धौ रूपम्। ‘नोदात्तोपदेशस्य--’ (७-३-४) इति निषेधस्तु
\n\n ‘अनाचमि- कमिवमीनाम्’ (वा। ७-३-३४) इति निषेधात्।]]
05
=>
[[३। णिङ्पक्षे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
06
=>
[[४। यङन्तात् ण्वुलि ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासे नुक्।]]
07
=>
[[५। णिजन्तात् ‘णिचश्च’ (१-३-७४) इत्युभयपदी, तु णिङन्तात्।]]
08
=>
[[६। शानचः शित्त्वेन आर्धधातुकत्वाभावात् नित्यं णिङ्। णिङो ङित्त्वात् ‘अनुदात्तङित आत्मनेपदम्’ (१-३-१२) इति आत्मनेपदमेव।]]
09
=>
[[७। णिङन्तात् शुद्धाच्च धातोः क्विपि ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति नत्वम्।]]
10
=>
[[८। णिङ्पक्षे ‘णेरनिटि’ (६-४-५१) इति निष्ठायां णिङो लोपः। सूत्रे ‘णेः’ इत्यनेन णिङोऽपि ग्रहणम्।]]
11
=>
[[९। णिङभावपक्षे, धातोरुदित्त्वात् क्त्वायाम् इड्विकल्पः। तेन ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णिषेधे, ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे रूपम्।]]
12
=>
[पृष्ठम्०१६४+ २६]
13
=>
[[१। ताच्छील्ये णिनिः।]]
14
=>
[[२। ‘शीलिकामिभक्ष्याचरिभ्यो णः’ (वा। ३-२-१) इति अणपवादः णः। तेन स्त्रियां टाप्।]]
15
=>
[[३। ‘तुं काममनसोरपि।’ (वा। ६-३-१०९) इति तुमुनो मकारस्य लोपः।]]
16
=>
[[आ। ‘इन्द्राबृहस्पत्युपकॢप्तमन्त्रा उत्साहिनोऽग्नीवरुणौ तथाऽन्ये। सुरा भवन्तं बत हन्तुकामाः प्रबोधयांचक्रुरधोक्षजं तम्।।’ वा। वि। २। ३३।]]
17
=>
[[B। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदुपग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी।।’ इति प्र। सर्वस्वे।]]
18
=>
[[४। ‘नमिकम्पिस्म्यजसकमहिंसदीपो रः’ (३-२-१६७) इति ताच्छीलिको रः प्रत्ययः।]]
19
=>
[[C। ‘कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः। इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन् नृपम्।।’ भ। का। ७-२४।]]
20
=>
[[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः। ‘ताच्छीलिकेषु ‘वाऽसरूपः--’ (३-१-९४) इति विधिर्नास्तीति प्रायिकम्
\n\n तेन कम्रा कमना युवतिः, इति सिद्धम्--’ इति सि। कौमुदी।]]
21
=>
[[६। ‘लषपतपदस्थाभूकमगम--’ (३-२-१५४) इत्यादिना तच्छीलादिषु उकञ्। स्त्रियां, ‘जानपद--’ (४-१-४२) इति विहितः ङीष् ‘कामुकी मैथुनेच्छा चेत्, कामुकाऽन्या, (वा। ४-१-४२) इति वार्तिकेन अर्थविशेषे नियमितः।]]
22
=>
[[ड्। ‘प्रघिण्य भूषाः परिघुण्य मालिकाः प्रघृण्य घोणापुटघूर्णिचन्दनम्। पणाय्यरूपाः पनिताकृतीन् ययुर्भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १-५७।]]
23
=>
[[७। ‘न भाभूपूकमिगमि--’ (८-४-३४) इति ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति णत्वनिषेधः।]]
24
=>
[[८। णिङन्तात्--णिजन्ताच्च ‘अचो यत्’ (३-१-९७) इति यत्।]]
25
=>
[[९। शुद्धाद्धातोः ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
26
=>
[पृष्ठम्०१६५+ २०]
27
=>
[[आ। ‘यायास्त्वमिति कामो मे गन्तुमुत्सहसे च। इच्छुः कामयितुं त्वं माम् इत्यसौ जगदे तया।।’ भ। का। ५-५९।]]
28
=>
[[B। ‘सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्। कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता।।’ भ। का। ५-६५।]]
29
=>
[[१। ‘यस्य हलः’ (६-४-४९) इति यलोपे, अतो लोपे रूपमेवम्।]]
30
=>
[[२। णिङभावपक्षे धातोरुदित्त्वात् ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घे रूपम्।]]
31
=>
[[३। ‘न कम्यमि--’ (ग। सू। भ्वादौ) इति मित्त्वनिषेधात् णिङन्तात् णिजन्ताच्च दीर्घविकल्पः।]]
32
=>
[[४। ‘कमेरठः’ (द। उ। ५। ५।) इत्यठः प्रत्ययः। कमठः = कूर्मः, भिक्षाभाजनं वा।]]
33
=>
[[५। औणादिके (द। उ। १-११२) कुप्रत्यये तुगागमः। कन्तुः = कामी।]]
34
=>
[[६। औणादिके (द। उ। ८-१०७) कलप्रत्यये रूपम्। कमलम् = पद्मम्।]]
35
=>
[[७। औणादिके (द। उ। ९-२१।) सप्रत्यये रूपम्।]]
36
=>
[पृष्ठम्०१६६+ २४]