| YouTube Channel

कम्बुग्रीवादि (kambugrIvAdi)

 
वाचस्पत्यम्
Sanskrit
कम्बुग्रीवादि
पु०
कम्बुग्रीवा आदि र्यस्य घटत्वजातिव्यञ्जकेआकृतिभेदे कम्बुग्रीवापृथुवुध्नोदरप्रभृतयोहिघटत्वजाति-व्यञ्जकाः कम्बुग्रीवादेश्च गुरुत्वात् नावच्छेदकत्वं तेन क-म्बुग्रीवादिमान्नास्तीत्यादौ कन्बुग्रीवादेर्नाभाल्ग्रप्रतियो-गितावच्छेदकत्वम् किन्तु “सम्भवति लघौ गुरौ तदभावा-दिति” न्यायात् समनियतं अनतिरिक्तवृत्ति घटत्वमेव-तत्रावच्छेदकम् इतरत्र गुरुधर्म्मस्यावच्छेदकत्वानङ्की-कारेऽपि शक्यताया अवच्छेदकत्वं स्वीक्रियतएवातः कम्बु-ग्रीवादिमानिति पदस्य कम्बुग्रीवादिमत्त्वमेव शक्यताव-च्छेदकं नघटत्वमिति भेदः इत्याकरे स्थितम्