| YouTube Channel

कम्पनं (kampanaM)

 
शब्दकल्पद्रुमः
Sanskrit
कम्पनं, त्रि, (कपि चलनशब्दार्थादिति युच् ।) कम्प-युक्तः काँपुने इति भाषा तत्पर्य्यायः चल-नम् कम्प्रम् चलम् लोलम् चलाचलम् ६चञ्चलम् तरलम् पारिप्लवम् परिप्लवम्१० इत्यमरः ७४
चपलम् ११चटुलम् १२ इति तट्टीका
(यथा महाभारते १३ १४ ७२ ।“हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः”
यथा सिद्धान्तकौमुद्याम्
“कम्पा कम्पनाशाखा” पां १५३
कपि + भावे + ल्युट् ।)कम्पे क्ली इति मेदिनी