कमु (kamu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaकमु - कान्तौ (भ्वा० आत्म० सक० से) - कामयते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಇಚ್ಛಿಸು /ಅಪೇಕ್ಷಿಸು
कमु - कान्तौ (भ्वा० आत्म० सक० से) - कामयते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರೀತಿಸು
प्रयोगाः - > "माधवानुचरः कलहंसो नाम विहारदासीं मन्दारिकां कामयते" । "अकम्पनस्ततो योद्धुं चकमे रावणाज्ञया" ।
उल्लेखाः - > मालती० १, भट्टि० १४-८२
धातुपाठः (Krishnacharya)
Sanskrit कम्
कमु
कान्तौ (इच्छा)
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
कामयते
अयं न मित्
धातुप्रदीपः
Sanskritकमुँ कमु कान्तौ
- कामयते । कामयाञ्चक्रे । चकमे । अचीकमत । अचकमत । कामयित्वा । कमित्वा । कान्तः । कामुकः । कामुकी । कामुका । कम्रः । कमनः । कामः ।। 443 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritकमुँ कमु कान्तौ
- (अर्थविवरणम्) कान्तिरभिलाषः
उत्पत्तिकारितोऽयम् कमेर्णिङ् (3130) कामयते आयादय आर्धधातुके वा (3131) इति चक्रमे, कामयाञ्चक्रे कमनम्, कामनम् कान्तिः कामना कमित्वा, कान्त्वा, कामयित्वा कान्तः, कामितः अचीकमत, कमेश्चङि उपसंख्यानात् (तु0 3148 वा0) अचकमत तुं काममनसोरपि (61144 काशिका) इति कर्तुकामः शीलिकामिभक्षाचरिभ्यो णः (321 वा0) मांसकामा स्त्री लषपतपद (32154) इत्युकञ्-दास्याः कामुकः, न लोकाव्यय (2399) इति निषेधे प्राप्ते कमेर्भाायाम् (2369 वा0) इति षष्ठी नोदात्तोपदेशस्य (7334) इति निषेधे प्राप्ते अवमिकमिचमीनाम् (7334 वा0) इति वृद्धिः-कामी नमिकम्पि (32167) इति रः-कम्रः युजपीष्यते (द्र0 32150भा0) कमनः कमिमनिजनि (उ0 173) इति कन्तुः कमेरठः (उ0 1102) कमठः कलस्त्रपश्च (उ0 1106) इति कमलम् वृतॄवदि (उ0 362) इति सः-कंसः उणादौ कम्बलः, कोमल, कमला, कामलाअर्तिकमिभ्रमि (उ0 3132) इत्यरः-कमरः कमेरुश्चोपधायाः (तु0 उ0 3138) कुमारः अतः कृकमिकंस (8446) इति सत्वम् पयस्कामः न भाभूपूकमिगमि (8434) इति कृत्यचो न णत्वम् प्रकमनम्, प्रकामनम् 430
धातुवृत्तिः
Sanskritकमुँ कमु (अर्थः) कान्तौ
"कर्मेणिङ्'' इति स्वार्थे णिङ्, अयमार्द्धधातुके विकल्पनोत्पद्यते अत्राप्युत्पत्तिविकल्पस्य प्रयोजनं गुणिवद् द्रष्टव्यम् कामयतेर्ङित्त्वाङ्, ( कामयाञ्चक्र कामयिता कामयिष्ते कामयाताम् अकामयत कामयेत आशिषि कामयिषीष्ट अचीकमत ) णिप्रहणेष्वयमपि गृह्मत इति "णिश्री'' इति कर्तरि चङ् "णेरनिटि'' इति णिलोपे "णौ च'' ति हस्H (चिकामयिषते कामयति ) णिङन्तण्णै "णेरनिटि'' इति लोपः ( कामयित्वा कामना ) "ण्यासश्रन्थः'' इति युच् ( मांसकामः मांसकामा ) "शीलिकामिभिक्षिचरिभ्यो णः'' इति अणौऽपवादो णः अणि हि सति स्त्रियां ङीप्स्यात् णिडभावे ( चकमे कमिता कमिष्यते कमिषीष् अचकमत ) [ "कमेरुपसंख्यानम् ] इति कर्तकरि चङ् ( अकमिष्यत चिकमिषते चङ्कम्यते ) अत्र यङ्लुङ् नेति गुपू रक्षण इत्यत्र स्थापिनं तत एवावगन्तव्यम् ( कामयति ) "न कम्यमिच माम्'' इति मित्त्वनिषेधाद् वृद्धिः "चिण्णमुलोः'' इकति दीर्घविकल्पो मिद्विषय इत्यस्यामित्त्वात् चिण्णमुल्परेपि णौ नित्या वृद्धिः ( कामङ्कामिति ) तथा चिण्वदिठ्यपि मित्त्वाभावात् ( अकामिष्यत ) इत्याद्येव भवति न तु कमिष्यत इत्यादि अचिण्वत्पक्षे तु गुणाययोः ( कामयिष्यत ) इत्यादि अस्योदित्त्वमणिङ्पङ्क्षे क्त्वायामिड्विकल्पार्थं, तेन (कामित्वा, कात्वेति ) निष्ठायां तु "यस्य विभाषा'' इति निषेधात् ( कान्त इति कामुकः) "लषपत''इयाइभ उकञ् (कामङ्कामम् ) "नादात्तोपदेशस्य'' इति चिणि ञिति णिति कृति वृद्धिनिषेधोऽस्य न भवति तत्राचमिकमिवमीनामिति पर्युदासात् ( कामुकी ) "अजानपद'' इत्यादिना रः ( कमन ) इति वासरूपेणानुदात्तेल्लक्षणे युचि ( कन्तुः) कामःअर्जिदृशीत्यादिनोप्रत्यस्तुगागमश्च (कन्तुकम्) "कुमारीक्रीडनकानि च'' इति कुमारीक्रीडनकादस्मात् कन् ( कंसः ) "वॄतॄवदिनिकमिकषिभ्यः सः'' इति सः (कंसाय हितं, कंसीयम्) "तस्मै हितम्'' इति विषये "प्राक् क्रीताच्छः'' इति छः तस्य विकारः (कांस्यम्) "कंसीयपरशव्ययोर्यञञौ लुक्च'' इति यथासंख्यादस्माद्विकारे यञि प्रातिपदिकादित्याधिकात्ततः परस्य छस्य यतश्च लुक्, यञञोस्तु विधानसामर्थ्यान्न भवति कंसेन क्रीतं (कंसिकम्) ( सूत्रम्) "कंसाट्टिठन् (इति सूत्रम्) इति टिठन् आर्हीयेष्वर्थेषु टित्त्वात् स्त्रियां ( कंसिकी ) घिण्णदय उदात्ता अनुदात्तेतः439
कृदन्तरूपमाला
Sanskrit1 {@“कमु कान्तौ”@} 2 कान्तिः = इच्छा।
3 कामकः 4 कामकः मिका, कामकः-मिका, 5 चिकामयिषकः-षिका, चिकमिषकः-षिका, 6 चङ्कामकः-मिका
चङ्कमकः-मिका
कामयिता-त्री, कमिता-त्री, कामयिता-त्री, चिकामयिषिता-त्री, चिकमिषिता-त्री, चङ्कामयिता-त्री
चङ्कमिता-त्री
-- 7 कामयन्-न्ती, कामयिष्यन्-न्ती-ती
-- 8 कामयमानः, कामयमानः, चिकामयिषमाणः चिकमिषमाणः चङ्काम्यमानः
चङ्कम्यमानः
कामयिष्यमाणः, कामयिष्यमाणः, चिकामयिषिष्यमाणः, चिकमिषिष्यमाणः, चङ्कामयिष्यमाणः
चङ्कमिष्यमाणः
9 कान्-कामौ-कामः
-- -- -- 10 कामितम्-तः-तवान्, 11 कान्तम्-न्तः-न्तवान्, कामितम्-तः, चिकामयिषितः, चिकमिषितः, चङ्कामितः चङ्कमितः तवान्
12 कामः-कमः, 13 प्रकामी, 14 मांसकामः-मांसकामा, 15 हन्तुकामः 16, 17 हरिकामा, 18 कम्रः 19, 20 कमनः, 21 कामुक 22 ः-कामुकी-कामुका, कामः, चिकामयिषुः, चिकमिषुः, चङ्कामः-चङ्कमः
कामयितव्यम्, कमितव्यम्, कामयितव्यम्, चिकामयिषितव्यम्, चिकमिषितव्यम्, चङ्कामयितव्यम्
चङ्कमितव्यम्
23 प्रकामनीयम्, प्रकमनीयम्, कामनीयम्, चिकामयिषणीयम्, चिकमिषणीयम्, चङ्कामनीयम्
चङ्कमनीयम्
24 काम्यम्- 25 कम्यम्, काम्यम्, चिकामयिष्यम्, चिकमिष्यम्, चङ्काम्यम्-चङ्कम्यम्
ईषत्कामः-दुष्कामः-सुकामः, ईषत्कमः-दुष्कमः-सुकमः
-- 26 काम्यमानः, काम्यमानः, काम्यमानः, चिकामयिष्यमाणः, चिकमिष्यमाणः, चङ्काम्यमानः-चङ्कम्यमानः
27 कामः-कामः, कामः, चिकामयिषः, चिकमिषः, चङ्कामः-चङ्कमः
कामयितुम्-कमितुम्, कामयितुम्, चिकामयिषितुम्, चिकमिषितुम्, चङ्कामयितुम्
चङ्कमितुम्
कामना- 28 कान्तिः, कामना, चिकामयिषा-चिकमिषा, 29 चङ्कामा-चङ्कमा
कामनम्, कमनम्, कामनम्, चिकामयिषणम्-चिकमिषणम्, चङ्कामनम्-चङ्कमनम्
कामयित्वा, 30 कमित्वा, कान्त्वा, कामयित्वा, चिकामयिषित्वा चिकमिषित्वा चङ्कामयित्वा-चङ्कमित्वा
प्रकाम्य-प्रकम्य, प्रकाम्य, प्रचिकामयिष्य-प्रचिकमिष्य, प्रचङ्काम्य-प्रचङ्कम्य
31 कामम् २ कामयित्वा २ कामम् २ कमित्वा २ कान्त्वा २ कामम् २ कामयित्वा २ चिकामयिषम् २, चिकामयिषित्वा २, चिकमिषम् २, चिकमिषित्वा २, चङ्कामम् २ -चङ्कमम् २
चङ्कामयित्वा २ -चङ्कमित्वा २
32 कमठः, 33 कन्तुः, 34 कमलम्, 35 कंसः।
36
01 (१६८)
02 (१-भ्वादिः-४४३। सक। सेट्। आत्म।)
03 [[१। ‘कमेर्णिङ्’ (३-१-३०) इति स्वार्थे णिङ्। अमन्तत्वेन मित्त्वं तु न, ‘न कम्य- मिचमाम्’ (ग। सू। भ्वादौ) इति निषेधात्। अतः, ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः। एवं घञ्यपि।]]
04 [[२। ‘आयादय आर्धधातुके वा’ (३-१-३१) इति णिङो वैकल्पिकत्वात् णिङभावपक्षे, ण्वुलि वृद्धौ रूपम्। ‘नोदात्तोपदेशस्य--’ (७-३-४) इति निषेधस्तु न
\n\n ‘अनाचमि- कमिवमीनाम्’ (वा। ७-३-३४) इति निषेधात्।]]
05 [[३। णिङ्पक्षे रूपम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
06 [[४। यङन्तात् ण्वुलि ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इति अभ्यासे नुक्।]]
07 [[५। णिजन्तात् ‘णिचश्च’ (१-३-७४) इत्युभयपदी, न तु णिङन्तात्।]]
08 [[६। शानचः शित्त्वेन आर्धधातुकत्वाभावात् नित्यं णिङ्। णिङो ङित्त्वात् ‘अनुदात्तङित आत्मनेपदम्’ (१-३-१२) इति आत्मनेपदमेव।]]
09 [[७। णिङन्तात् शुद्धाच्च धातोः क्विपि ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति नत्वम्।]]
10 [[८। णिङ्पक्षे ‘णेरनिटि’ (६-४-५१) इति निष्ठायां णिङो लोपः। सूत्रे ‘णेः’ इत्यनेन णिङोऽपि ग्रहणम्।]]
11 [[९। णिङभावपक्षे, धातोरुदित्त्वात् क्त्वायाम् इड्विकल्पः। तेन ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्णिषेधे, ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे च रूपम्।]]
12 [पृष्ठम्०१६४+ २६]
13 [[१। ताच्छील्ये णिनिः।]]
14 [[२। ‘शीलिकामिभक्ष्याचरिभ्यो णः’ (वा। ३-२-१) इति अणपवादः णः। तेन स्त्रियां टाप्।]]
15 [[३। ‘तुं काममनसोरपि।’ (वा। ६-३-१०९) इति तुमुनो मकारस्य लोपः।]]
16 [[आ। ‘इन्द्राबृहस्पत्युपकॢप्तमन्त्रा उत्साहिनोऽग्नीवरुणौ तथाऽन्ये। सुरा भवन्तं बत हन्तुकामाः प्रबोधयांचक्रुरधोक्षजं तम्।।’ वा। वि। २। ३३।]]
17 [[B। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदुपग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी।।’ इति प्र। सर्वस्वे।]]
18 [[४। ‘नमिकम्पिस्म्यजसकमहिंसदीपो रः’ (३-२-१६७) इति ताच्छीलिको रः प्रत्ययः।]]
19 [[C। ‘कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः। इच्छुः प्रसादं प्रणमन् सुग्रीवः प्रावदन् नृपम्।।’ भ। का। ७-२४।]]
20 [[५। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच् ताच्छीलिकः। ‘ताच्छीलिकेषु ‘वाऽसरूपः--’ (३-१-९४) इति विधिर्नास्तीति प्रायिकम्
\n\n तेन कम्रा कमना युवतिः, इति सिद्धम्--’ इति सि। कौमुदी।]]
21 [[६। ‘लषपतपदस्थाभूकमगम--’ (३-२-१५४) इत्यादिना तच्छीलादिषु उकञ्। स्त्रियां, ‘जानपद--’ (४-१-४२) इति विहितः ङीष् ‘कामुकी मैथुनेच्छा चेत्, कामुकाऽन्या, ’ (वा। ४-१-४२) इति वार्तिकेन अर्थविशेषे नियमितः।]]
22 [[ड्। ‘प्रघिण्य भूषाः परिघुण्य मालिकाः प्रघृण्य घोणापुटघूर्णिचन्दनम्। पणाय्यरूपाः पनिताकृतीन् ययुर्भामिन्य एवाक्षमया स्वकामुकान्।।’ धा। का। १-५७।]]
23 [[७। ‘न भाभूपूकमिगमि--’ (८-४-३४) इति ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति च णत्वनिषेधः।]]
24 [[८। णिङन्तात्--णिजन्ताच्च ‘अचो यत्’ (३-१-९७) इति यत्।]]
25 [[९। शुद्धाद्धातोः ‘पोरदुपधात्’ (३-१-९८) इति यत्।]]
26 [पृष्ठम्०१६५+ २०]
27 [[आ। ‘यायास्त्वमिति कामो मे गन्तुमुत्सहसे न च। इच्छुः कामयितुं त्वं माम् इत्यसौ जगदे तया।।’ भ। का। ५-५९।]]
28 [[B। ‘सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्। कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचिस्मिता।।’ भ। का। ५-६५।]]
29 [[१। ‘यस्य हलः’ (६-४-४९) इति यलोपे, अतो लोपे च रूपमेवम्।]]
30 [[२। णिङभावपक्षे धातोरुदित्त्वात् ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घे रूपम्।]]
31 [[३। ‘न कम्यमि--’ (ग। सू। भ्वादौ) इति मित्त्वनिषेधात् णिङन्तात् णिजन्ताच्च न दीर्घविकल्पः।]]
32 [[४। ‘कमेरठः’ (द। उ। ५। ५।) इत्यठः प्रत्ययः। कमठः = कूर्मः, भिक्षाभाजनं वा।]]
33 [[५। औणादिके (द। उ। १-११२) कुप्रत्यये तुगागमः। कन्तुः = कामी।]]
34 [[६। औणादिके (द। उ। ८-१०७) कलप्रत्यये रूपम्। कमलम् = पद्मम्।]]
35 [[७। औणादिके (द। उ। ९-२१।) सप्रत्यये रूपम्।]]
36 [पृष्ठम्०१६६+ २४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
