| YouTube Channel

कमलं (kamalaM)

 
शब्दकल्पद्रुमः
Sanskrit
कमलं,
क्ली,
(कमेः णिङ् भावे वृषादित्वात् कलच् ।कम् जलं अलति अलंकरोति वा अल् + अच् ।अन्तणिजन्तो वा ।) जलजपुष्पविशेषः तत्पर्य्यायः ।पद्मम् पाथोजम् नलम् नलिनम् अम्भो-जभ् अम्बुजन्म अम्बुजम् श्रीः अम्बुरु-हम् १० अम्बुपद्मम् ११ सुजलम् १२ अम्भोरु-हम् १३ सारसम् १४ पङ्कजम् १५ सरसीरुहम्१६ कुटपम् १७ पाथोरुहम् १८ पुष्करम् १९वार्ज्जम् २० तामरसम् २१ कुशेशयम् २२ कञ्जम्२३ कजम् २४ अरविन्दम् २५ शतपत्रम् २६विसकुसुमम् २७ सहस्रपत्रम् २८ महोत्पलम् २९वारिरुहम् ३० सरसिजम् ३१ सलिलजम् ३२पङ्केरुहम् ३३ राजीवम् ३४ (यथा रघुः ३६ ।“अगच्छदंशेन गुणाभिलाषिणीनवावतार कमलादिवोत्पलम्”
)अस्य गुणाः शीतलत्वम् स्वादुत्वम् रक्तपित्त-भ्रमार्त्तिनाशित्वम् सुगन्धित्वम् भ्रान्तिसन्ताप-शान्तिपरमतृप्तिकारित्वञ्च इति राजनिर्घण्टः
(तथाच भावप्रकाशः ।“कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् ।तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम्
विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् ।रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम्
धवलं कमलं शीतं मधुरं कफपित्तजित् ।तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम्”
)जलम् ताम्रम् क्लोम औषधम् इति मे-दिनी
सारसपक्षी इत्यमरः १० ४०