| YouTube Channel

कफवर्द्धनः (kaphavarddhanaH)

 
शब्दकल्पद्रुमः
Sanskrit
कफवर्द्धनः,
पुं,
(कफं कफजनितं विकारं वर्द्धयतीति ।कफ + वृध् + णिच् + ल्युः ।) पिण्डीतगरवृक्षः ।इति त्रिकाण्डशेषः
श्लेष्मवृद्धिकारके त्रि इतिवैद्यकं
(दिवास्वप्नाव्यायामालसमधुराम्ललवण-शीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवनैष-धेत्कटमाषमहामाष-गोधूमतिलपिष्टविकृतिदधि-दुग्धकृशरापायसेक्षुविकारानुपौदकमांसवसाविस-मृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-शनप्रभृतिभिः श्लेष्माप्रकोपमापद्यते
“सशीतैः शीतकाले वसन्ते विशेषतः ।पूर्व्वाह्ने प्रदोषे भुक्तमात्रे प्रकुप्यति”
इति सुश्रुतः
)