| YouTube Channel

कफघ्नी (kaphaghnI)

 
Monier Williams Cologne
English
कफ—घ्नी
f.
a particular plant,
L.
शब्दकल्पद्रुमः
Sanskrit
कफघ्नी,
स्त्री,
(कफं कफविकृतिं हन्तीति कफ +हन् + टक् + ङीप् ।) हपुषाभेदः इति राज-निर्घण्टः
(यथा, राजनिर्घण्टे शताह्वादिवर्ग-श्चतुर्थः ।“प्लीहशत्रुर्विषघ्नी कफघ्नी चापराजिता”
)
वाचस्पत्यम्
Sanskrit
कफघ्नी कफं तद्विकारं हन्ति टक् ङीप् हवुसाभेदे राजनि० ।२ कफहन्तृदृव्यभेदे
त्रि०
तानि द्रव्याणि सुश्रुते दर्शितानि यथा“आरग्वधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्व्वे-न्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशा-र्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति ।आरग्बधादिरित्येष गणः श्लेष्मविषापहः” ।“वरुणार्त्तगलशिग्रौमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकानक्त-मालमोरटाग्निमन्थसैरीयकद्वयविम्बीवसुकवसिरचित्रकशता-वरीविल्वाजशृङ्गीदर्भा वृहतीद्वयञ्चेति वरुणादिर्गणो-ह्येष कफभेदोनिवारणः” ।“सालसागाजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जभेषशृ-ङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जुनतालशा-कनक्तमालपूतीकाश्वकर्ण्णागुरूणि कालीयकञ्चेति सा-लसारादिरित्येष गणः कुष्ठविमाशनः मेहपाण्ड्वा-भयहरः कफमेहविशोषणः” “रोध्रसावररोध्रपलाश-कुटन्नटाशोकफञ्जीफट्फलैलवालुकसल्लकीजिङ्गिनीकादम्बमा-लाः कदली चेति एष रोघ्रादिरित्युक्तो मेदःक-फहरो गणः” “अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गी-रास्नेन्द्रपुष्पीक्षुद्रश्वेतागहाश्वेतावृश्चिकाल्यलवणास्तापस-गृक्षश्चेति अर्कादिको गणो ह्येष कफमेदोविषा-पहः” “सुरासाश्वेतसुरसाफणिज्झकार्य्यकगन्धकभूस्तृ-णसुमुखकालमालकासमर्हक्षवकखरपुषपाविडङ्कट्फलसुरसानिर्गुण्डीकुहालोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्योविषमुष्टिकश्चेति सुरसादिर्गणो ह्येष कफहृत्कृ-मिसूदनः” “पिप्पलीपिप्पलीमूलचव्यचित्रकशृ-ङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरक-सर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गा-नि कटुरोहिणी चेति पिप्पल्यादिः कफहरःप्रतिश्यायानिलारुचीः निहन्याद्दीपनो गुल्मशूलघ्न-श्चामपाचनः” “एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपु-ष्पप्रियङ्गुहरेणुकाव्याघ्ननखशुक्तिचण्डास्थाणेयकश्रीवेष्टकचो-चचोरकबालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशी-रभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति एलादिकोवातकफौ निहन्याद्विषमेव च” “वृहतीकण्टकारिकाकुटज-फलपाठा मधुकञ्चेति पाचनीयो वृहत्यादिर्गणः पि-त्तानिलापहः कफारोचकहृल्लासमूत्रकृच्छ्ररुजापहः” ।“पटोलचन्दनकुचन्द नमूर्व्वागुडूचीपाठाः कटुरोहिणी चे-ति पटोलादिर्गणः पित्तकफारोचकनाशनः” ।“ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकञ्चेतिऊषकादिः कफं हन्ति गणो मेदोविशोवणः “मुचा-स्ताहरिद्रादारुहरिद्राहरीतक्यामलकविभीतककुष्ठहैमवतीव-पाठाकटुरोहिणीशर्ङ्गष्टाऽतिविषाद्राविडोभल्लातकानि चि-त्रकश्चेति एष मुस्तादिको नाम्ना गणः श्लेष्मनिषू-दनः” “हरितक्यामलकविभीतकानि त्रिफला ।त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी” ।“पिप्पलीमरीचशृङ्गवेराणि त्रिकटुकम् “त्र्यूषणं कफ-मेदोघ्नं मेहकुष्ठत्वगामयान् निहन्याद्दीपनं शूलपिनसा-ग्न्यल्पतामपि” “आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति ।आमलक्यादिरित्येष गणः सर्वज्वरापहः चक्षुष्यो दी-पनो वृष्यः कफारोचकनाशनः” “लाक्षारेवतकुटजाऽ-श्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणाचेति कषायस्तिक्तमधुरः कृफपित्तार्त्तिनाशनः” ।“विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्य्यश्चेति महत् सतिक्तंकफवातघ्नं पाके लघ्वग्निदीपनम् मधुरानुरसञ्चैव पञ्च-मूलं महत् स्मृतम्” “कुशकाशनलदर्भकाण्डेक्षुका इतितृणणंज्ञकः मूत्रदोषबिकारञ्च रक्तपित्तं तथैव ।अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत् एषां वा-तहरावाद्यावन्त्यः पित्तविनाशनः पञ्चकौ म्लेष्म-शमनावितरौ परिकीत्तैतौ” इति विशेषव उक्तम् ।सामान्यतस्तु तत्रैवोक्तम् “अम्लंकपित्यं श्लेष्माणं शम-यति रूक्षवीर्य्यत्वात् मधुरं क्षौद्रञ्च” रसभेदस्य तद्धेतुतातत्रोक्ता “ये रसा श्लेष्मशमनाभवन्ति यदि तेषु वै ।स्नेहगौरवशैत्यानि बलासं बर्द्धयन्ति ते” (बलास कफम्)तत्पाकपरिपाटी तत्रैवोक्ता “श्लेष्मा विदग्धीलवणता-मुपैति” खतेजोनिलजैः श्लेष्मा शमं याति शरीरिणाम् ।“तत्र यैमे गुणा वीर्य्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदु-तीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ शीत-पिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्यम्बुगुणभूयिष्ठः स्नेहः ।तोयाकाशगुणभूयिष्ठं मृदुत्वं वायुगुणभूयिष्ठं रौक्ष्यम् ।क्षितिसभीरणगुणभूयिष्ठं वैशद्यम् गुरुलघुविकावक्त-गुणौ तत्रोष्णस्निग्धौ वातघौ शीतमृदुपिच्छिलाःपित्तघ्नाः तीक्ष्णरूक्षविशदाः श्लेष्मध्नाः गुरुपाको वात-पित्तघ्नः लघुपाकः श्लेष्मघ्नः तेषां मृदुशीतोष्णाःस्पर्शग्राह्याः पिच्छिलविशदौ चक्षुःस्पर्शाभ्याम् स्नि-ग्धरूक्षौ चाक्षुषौ शीतोष्णौ सुखदुःखोत्पादनेन गुरु-पाकं सृष्टविण्मूत्रतया कफोत्क्लेशेन लघुर्ब्बद्धविण्मूत्रतया मारुतकोपेन च” ।“तीक्ष्णोष्णं भूत्रलं हृद्यं कफघ्नं कटुपाकि च” सुश्रु० त-न्नाशकद्रव्यगुणभेदाः संक्षिप्यान्यत्रोक्ताः “गुरुशीत-मुदुस्निग्धमधुरस्थिरपिच्छिलाः श्लेष्मणः प्रशमं यान्तिविपरीतगुणैर्गुणाः” तन्निवारणोपाया अन्यत्रोक्तायथा“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन स्त्रीसेवाध्वनि-युद्धजागररतिक्रीडापदाघातनम् धूमात्युष्णशिरोविरेकव-मनस्वेदोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्मा-णमुग्रं जयेत्” ।कफहन्तृ कफहादयःश्लेष्महन्तृश्लेष्महादयोप्यत्र
त्रि०