| YouTube Channel

कपोतलुब्धकीय (kapotalubdhakIya)

 
Shabdartha Kaustubha
Kannada
कपोतलुब्धकीय
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗೃಹಸ್ಥನು ಪ್ರಾಣವನ್ನಾದರೂ ಒಪ್ಪಿಸಿ ಅತಿಥಿಸತ್ಕಾರ ಮಾಡಬೇಕೆಂದು ತಿಳಿಸುವ ಮಹಾಭಾರತದ ಒಂದು ಕಥೆ
निष्पत्तिः - > "छः" (४-२-६)
व्युत्पत्तिः - > कपोतं लुब्धकं चाधिकृत्य कृतो ग्रन्थः
वाचस्पत्यम्
Sanskrit
कपोतलुब्धकीय
न०
कपोतं लुब्धकञ्चाधिकृत्य कृतो ग्रन्थः“द्वन्द्वाच्छः” पा० भारतान्तर्गते गृहस्थस्य प्राणदाने-नाप्यातिथ्यावश्यकर्त्तव्यतासूचके आख्यायिकाभेदे तत्कथाभा० शा० १४६ अ० ।“स पत्न्या वचनं श्रुत्वा धर्म्मं युक्तिसमन्वितम् हर्षेणमहता युक्तो बाक्यव्याकुललोचनः तं वै शाकुनिकंदृष्ट्वा विधिदृष्टेन कर्मणा पक्षी पूजयामास यत्नात्तंपक्षिजीविनम् उवाच स्वागतं तेऽद्य ब्रूहि किं कर-वाणि ते सन्तापश्च कर्त्तव्यः स्वगृहे वर्त्तते भवान् ।तद्व्रतीतु भवान् क्षिप्रं किं करोमि किमिच्छसि प्रणयेन ब्रवीमि खां त्वं हि नः शरणागतः अरावप्युचि-तं कार्य्यमातिथ्यं गृहमागते छेत्तुमप्यागते छायांनोपसंहरते द्रुमः शरणागतस्य कर्त्तव्यमातिथ्यं हिप्रयत्नतः पञ्चयज्ञप्रवृत्तेन गृहस्येन विशेषतः पञ्च-यज्ञांस्तु यो मीहान्न करोति गृहाश्रये तस्य नायंन परो लोको भवति धर्म्मतः तद्ब्रूहि मां सुवि-श्रब्धो थत्त्वं वाचा यदिष्यसि तत् करिष्याम्यहं सर्वंमा त्वं शोके मनः कृथाः तस्य तद्वचनं श्रुत्वा शकुने-र्लुब्धकोऽब्रवीत् बाधते खलु मे शीतं सन्त्राणं हिविधीयताम् एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य्य भूतले ।यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ गत्वाऽ-ङ्गारककर्मान्तं गृहीत्वाऽग्निमथागमत् ततः शुष्केषुपर्णेषु पावकं सोऽप्यदीपयत् संदीप्तं महत् कृत्वातमाह शरणागतम् प्रतापय सुविश्रब्धः स्वगात्राण्यकुतोभयः तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।अग्निप्रत्यागतप्राणस्ततःप्राह विहङ्गमम् हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः तथेमं शकुनिं दृष्ट्वा विधि-दृष्टेन कर्म्मणा दत्तमाहारमिच्छामि त्वया क्षुद्बाधतेहि माम् तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः ।न मेऽस्ति विभवो येन नाशयेयं क्षुधान्तव ।उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः सञ्चयो नास्तिचास्माकं मुनीनामिव भोजने इत्युक्त्वा तं तदा तत्रविवर्णवदनोऽभवत् कथं नु खलु कर्त्तव्यमिति चिन्ता-परस्तदा वभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः ।मूहूर्त्ताल्लब्धसंज्ञस्तु पक्षी पक्षिघातिनम् उबाचतर्पयिष्ये त्वां मुहूर्त्तं प्रतिपालय इत्युक्त्वा शुष्कपर्णैस्तुसमुज्ज्वाल्य हुताशनम् हर्षेण महताऽऽविष्टः पक्षीवाक्यमब्रवीत् ऋषीणां देवतानाञ्च पितॄणाञ्च महा-त्मनाम् श्रुतः पूर्व्वं मया धर्म्मो महानतिथिपूजने ।कुरुष्वानुग्रहं सौम्य! सत्यमेतब्रद्वीमि ते निश्चिता खलुमे बुद्धिरतिथिप्रतिपूजने ततः कृतप्रतिज्ञो वै पक्षीप्रहसन्निव तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ।अग्निमध्ये प्रविष्टन्तु लुब्धो दृष्ट्वा तु पक्षिणम् चिन्तया-मास मनसा किमिदं वै कृतं मया अहो मम नृशंसस्यगर्हितस्य स्वकर्मणा अधर्म्मः सुमहान् धोरो भवि-ष्यति संशयः एवं बहुविधं सूरि विललाप सलुव्धकः गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्”