| YouTube Channel

कपिवक्त्रः (kapivaktraH)

 
शब्दकल्पद्रुमः
Sanskrit
कपिवक्त्रः, (कपेर्वानरस्य वक्त्रमिव वक्त्रं यस्य भागि-नेयपर्ब्बतमुनिशापप्रभावात् मातुलस्य देवषेस्तथा-त्वम् ।) नारदः इति त्रिकाण्डशेषः
(यथा हिनारदस्य कपिवक्त्रत्वं जातम् तदुच्यते ।पुरा किल मातुलभागिनेयौ द्वावृषिसत्तमौनारदपर्ब्बतौ मानुषेषु सम्प्रीत्या विहर्त्तुकामौदेवलोकादिहागतवन्तौ आगत्य सृञ्जयंराजानमभ्येत्य तद्राज्ये ऊषतुः आसीच्चकिलानयोः समयः शुभमशुभं वा हृदि जातंसङ्कल्पं परस्परेण कथनीयमिति अथ कदाचित्राजा तावभ्युपेत्य स्वसुतां तदाराधनाय नियो-जितवान् अथ गच्छति काले नारदस्तु कन्दर्प-बाणवशगः राजदुहितरि मनो निदधे धर्म्म-विदपि नारदः व्रीडमानः तीव्रमिदं मनोभावंभागिनेयाय शशंस भागिनेयः पर्ब्बतस्तु इङ्गि-तादिभिर्मातुलं कामार्त्तं वीक्ष्य समयभङ्गादति-क्रुद्धः “इयं नृपसुता तव भार्य्या भविष्यति त्वमपिवानरमूर्त्तिधरोऽत्र विचरिष्यति” इति तं शप्त-वान् एतच्छापात् खलु नारदो वानरमुखआसीत् इति पौराणिकी कथा अत्र अनुसन्धेया
विस्तृतिस्तु महाभारते शान्तिपर्ब्बणि ३० अध्यायेद्रष्टव्या
)