कपिवक्त्र (kapivaktra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
Sanskritकपिवक्त्रः, (कपेर्वानरस्य वक्त्रमिव वक्त्रं यस्य भागि-नेयपर्ब्बतमुनिशापप्रभावात् मातुलस्य देवषेस्तथा-त्वम् ।) नारदः । इति त्रिकाण्डशेषः ॥
(यथा हिनारदस्य कपिवक्त्रत्वं जातम् तदुच्यते ।पुरा किल मातुलभागिनेयौ द्वावृषिसत्तमौनारदपर्ब्बतौ मानुषेषु सम्प्रीत्या विहर्त्तुकामौदेवलोकादिहागतवन्तौ । आगत्य च सृञ्जयंराजानमभ्येत्य तद्राज्ये ऊषतुः । आसीच्चकिलानयोः समयः शुभमशुभं वा हृदि जातंसङ्कल्पं परस्परेण कथनीयमिति । अथ कदाचित्राजा तावभ्युपेत्य स्वसुतां तदाराधनाय नियो-जितवान् । अथ गच्छति काले नारदस्तु कन्दर्प-बाणवशगः राजदुहितरि मनो निदधे । धर्म्म-विदपि नारदः व्रीडमानः तीव्रमिदं मनोभावंभागिनेयाय न शशंस । भागिनेयः पर्ब्बतस्तु इङ्गि-तादिभिर्मातुलं कामार्त्तं वीक्ष्य समयभङ्गादति-क्रुद्धः “इयं नृपसुता तव भार्य्या भविष्यति त्वमपिवानरमूर्त्तिधरोऽत्र विचरिष्यति” इति तं शप्त-वान् । एतच्छापात् खलु नारदो वानरमुखआसीत् इति पौराणिकी कथा अत्र अनुसन्धेया ॥
विस्तृतिस्तु महाभारते शान्तिपर्ब्बणि ३० अध्यायेद्रष्टव्या ॥
)
वाचस्पत्यम्
Sanskritकपिवक्त्र कपेर्वक्त्रमेव वक्त्रमस्य । नारदे त्रिका० ।पर्वतषिशापाच्चास्य तथात्वम् यथाह भा० शा० ३० अ० ।“नारदः पर्व्वतश्चैव द्वावृषी लोकसत्तमौ । मातुलो भागि-नेयश्च देवलोकादिहागतौ । विहर्त्तुकामौ सम्प्रीत्या मानुषेषुपुस विभो! । हविःपवित्रभोज्येन देवभोज्येन चैव हि ।नारदो मातुलश्चैव भागिनेयश्च पर्व्वतः । तावुभौ तप-सोपेताववनीतलचारिणौ । भुञ्जानौ मानुषान् भोगान् यथा-वत्पर्य्यधावताम् । प्रीतिमन्तौ मुदा युक्तौ समयञ्चैव च-क्रतुः । यो मवेद्धृदि सङ्कल्पः शुभो वा यदि वाऽशुभः ।अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् । तौतथेति प्रतिज्ञाय महर्षी लोकपूजितौ । सृञ्जयं श्वैत्य-मभ्येत्य राजानमिदमूचतुः । आवां भवति वत्स्यावः क-ञ्चित्कालं हिताय ते । यथावत् पृथिवीपाल! आवयोःप्रगुणीभव । तथैव कृत्वा राजा तौ सत्कृत्योपचचार ह ।ततः कदाचित्तौ राजा महात्मानौ तपोधनौ । अब्रवीत्प-रमप्रीतः सुतेयं वरवर्णिनी । एकैव मम कन्या या सा वांपरिचरिष्यति । दर्शनीयाऽनवद्याङ्गी शीलवृत्तसमाहिता ।सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा । परमं सौम्य-मित्युक्त ताभ्यां राजा शशास ताम् । कन्ये! विप्रावुप-चर देववत्पितृवच्च ह । सा तु कन्या तथेत्युक्त्वा पितरं धर्म्म-चारिणी । तथा निदेशं राज्ञस्तौ सत्कृत्योपचचार ह ।तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च । नारदं हृच्छयस्तूणंसहसैवाभ्यपद्यत । ववृधेहि ततस्तस्य हृदि कामो महात्म-नः । यथा शुक्लस्य पक्षस्य प्रवृत्तौ चद्रमाः शनैः । न च त-म्भागिनेयाय पर्व्वताय महात्मने । शशंस हृदयन्तीव्रं व्रीड-मानः स धर्मवित् । तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबो-ध तम् । कामार्त्तन्नारदं क्रुद्धः शशापैनन्ततो भृशम् ।कृत्वा समयमव्यग्रो भवान्वै सहितो मया । यो भवे-द्धृदि सङ्कल्पः शुमो वा यदि वाऽशुभः । अन्योन्यस्य लआख्येय इति तद्वै मृषा कृतम् । भवता वचनं ब्रह्मं-स्तस्मादेष शपाम्यहम् । न हि कामं प्रवर्त्तन्तं भवाना-चष्ट मे पुरा । सुकुमार्य्यां कुमार्य्यां ते तस्मादेष शपा-म्यहम् । ब्रह्मचारी गुरुर्य्यस्मात्तपखी ब्राह्मणश्च सन् ।अकार्षीत्समयभ्रं शमावाभ्यां यः कृतो मिथः । शप्स्येतस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे । सुकुमारी च तेर्भार्य्या भविष्यति न संशयः । वानरञ्चैब ते रूपं विवा-हात्प्रभृति प्रभो! । संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विना-ननम् । स तद्वाक्यन्तु विज्ञाय नारदः पर्व्वतं तथा ।अशपत्तमपि क्रोधाद्भागिनेयंस मातुलः । तपसाब्रह्मचर्य्येणसत्येन च दमेन च । युक्तोऽपि नित्यधर्म्मश्च न वै स्वर्गम-वाप्स्यसि । तौ तु शत्या भृशं क्रुद्धो परस्परममर्षणौ ।प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ । पर्व्वतः पृ-थिवीं कृत्स्नां विचचार महामतिः । पूज्यमानो यथा-न्यायं तेजसा स्वेन भारत! । अथ तामलभत्कन्यां नार-दः सृञ्जयात्मजाम् । धर्म्मेण विप्रप्रवरः सुकुमारोमनि-न्दिताम् । सा तु कन्या यथाशापं नारदं तं ददर्श ह ।पाणिग्रहणमन्त्राणां नियोगादेव नारदम् । सुकुमारीच देवर्षिं वानरप्रतिमाननम् । नैवावमन्यत तदा प्रीति-मत्येव चाभवत् । उपतस्थे च भर्त्तारं न चान्यं मनसाऽ-प्यगात् । देवं मुनिं वा यज्ञं वा पतित्वे पतिवत्सला ।ततः कदाचिद्भगवान्पर्व्वतोऽनुचचार ह । वनं विरहितंकिञ्चित्तत्रापश्यत्स नारदम् । ततोऽभिवाद्य प्रोवाचनारदं पर्वतस्तदा । भवान् प्रसादं कुरुतात् स्वर्गादेशायमे प्रभो! । तमुवाच ततो दृष्ट्वा पर्बतं नारदस्तथा । कृ-ताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् । त्वयाऽहं प्र-थमं शप्तो वानरस्त्वं भविष्यसि । इत्युक्तेन मया पश्चा-च्छप्तस्त्वमपि मत्व्सरात् । अद्यप्रभृति वै वासं स्वर्गे नावा-स्यसीति ह । तव नैतद्धि सदृशं पुत्रख्याने हि मे भवान् ।निवर्त्तयेतां तौ शापावन्योन्येन तदा मुनी । श्रीसमृद्धंतदा दृष्ट्वा नारदं देवरूपिणम् । सुकुमारी प्रदुद्राव पर-पत्यगिशङ्कया । तां पर्व्यतस्ततो दृष्ट्वा प्रद्रपन्तीमनिन्दि-ताम् । अव्रवीत्तव भर्त्तैष नात्र कार्य्या विचारणा ।ऋषिः घरमधर्म्मात्मा नारदो भगवत्प्रभुः । तवैवाभेद्यहृ-दयो मा तेऽसूदत्र संशयः । साऽनुमीता बहुविधं पर्व्व-तेन महात्मना । शापदोषञ्च तं मर्त्तुः श्रुत्वा प्रकृति-मागता । पर्व्वतोऽथ ययौ स्वर्गम् नारदोऽध्यगमद्गृहान्” ।कपिनुखकीशास्यादयोऽप्यत्र । ६ त० वानरमुखे ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
