| YouTube Channel

कपिलधारा (kapiladhArA)

 
शब्दसागरः
English
कपिलधारा
f.
(-रा)
1. The Ganges.
2. A holy place, a place of pil-
grimage.
Yates
English
कपिल-धारा (रा) 1.
f.
The Ganges
a holy place of pilgrimage.
Wilson
English
कपिलधारा
f.
(-रा)
1 The Ganges.
2 A holy place, a place of pilgrimage.
Monier Williams Cologne
English
कपिल—धारा
f.
N.
of the Gaṅgā,
L.
N.
of a Tīrtha,
L.
Apte Hindi
Hindi
कपिलधारा
स्त्री*
कपिल - धारा -
गंगा की उपाधि
Shabdartha Kaustubha
Kannada
कपिलधारा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗಂಗಾನದಿ
L R Vaidya
English
kapila-DArA {% f. %} an epithet of the Ganges.
वाचस्पत्यम्
Sanskrit
कपिलधारा स्त्री कपिलेव शुद्धा धारा यस्याः संज्ञात्वात् “ङापो-रिति” पा० ह्रस्वः गङ्गायां हेमच० कपिलानां तदीय-दग्धानां धारा संज्ञायां “ङ्यापोरिति” पा० ह्रस्वः कपि-लादीनां दुग्धधारायां तत्कृते काश्या उत्तरसौ मास्थेतीर्थभेदे उपचारात् तयोरभेदात् तदाविर्भावादि का-शी० ६२ अ० “एतस्मिन्नन्तरे प्राप्ता गोलोकात् पञ्च धेनवः ।सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा पञ्चमी कपिलाचापि सर्व्वाघौघविघट्टिनी वात्सल्यदृष्ट्या गर्भस्य तासामू-धांसि सुस्नुवुः ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः ।धारासारैरविच्छिन्नस्तावद्यावध्रदोऽभयत् पयःपयो-धिरिव द्वितीयः प्रैक्षि पार्श्वदैः देवेशसमधिष्ठानात्तत्-तीर्थमभवत् परम् कपिलाहृद इत्याख्यां चक्रे तस्य महे-श्वरः ततो देवाज्ञया सर्व्वे स्नातास्तत्र दिवौकसः आ-विरासुस्ततस्तीर्थादथ दिव्यपितामहाः तान् दृष्ट्वा ते सुराःसर्व्वे तर्पयाञ्चक्रिरे मुदा अग्निष्वात्ता बर्हिषद आज्यपाःसोमपास्तथा इत्याद्यादिव्यपितरस्तृप्ताः शम्भुं व्यजिज्ञ-पन् देवदेव! जगन्नाथ! भक्तानामभयप्रद अस्मिंस्तीर्थेत्वदभ्यासाज्जाता नस्तृप्तिरक्षया तस्माच्छम्भो! वरंदेहि प्रसन्नेनान्तरात्मना इति दिव्यपितॄणां श्रुत्वा वाक्यंवृषध्वजः शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् सर्वः, सर्तपितॄणां वै परं तृप्तिकरं परम् श्रीदेवदेवौवाच शृणुविष्णो! महावाहो! शृणु त्वं पितामह! एतस्मिन्कापिले तीर्थे कापिलेयपयोभृते ये पिण्डान् निर्वपिष्यन्तिश्रद्धया श्राद्धदा नराः तेषां पितॄणां सन्तृप्तिर्भविष्यति ममाज्ञया अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम् ।कूहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम् संवर्त्तकाले-संप्राप्ते जलराशिजलान्यपि क्षीयन्ते क्षयं श्राद्धं यातिसोमकूहूकृतम् अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते ।तीर्थेकापिलधारेऽस्मिन् मयया पुव्करेण किम् गदाधृक्भगशन् यत्र यत्र त्वं चपितामह! वृपध्वजोऽस्म्यहंयत्रफल्मुस्तत्र संशयः दिव्यान्तरीक्षभौमानि यानि तीर्थानिसर्व्वतः तान्यत्र निवसिष्यन्ति दर्शे सोमदिनान्विते ।कुरुक्षेत्रे नैमिधे गङ्गासाभरसङ्गमे ग्रहणे श्राद्धतोयत्स्यात्तत्तीर्थे वार्षभध्वजे अस्य तीर्थस्य नामानि यानि दिव्यपितामहाः! तान्यहं कथयिष्यानि भवतां तृप्तिदान्यलम् ।मधुस्रवेति प्रघग्रमेषा पुष्करिणी मता घृतकुल्या त-तोज्ञेया ततोऽणी क्षीरनीरधिः वृषभध्वजतीर्थञ्च तीर्थंपैतामहं ततः ततो गदाधराख्यं पितृतीर्थंततः परम् सतः कापिलधारं वै सुधाखनिरियं पुनः ।ततः शिवगयाख्यं ज्ञेयं तीर्थमिदं शुभम् एतानि दशनामानि तीर्थस्यास्य पितामहा भवतां तृप्तिकारीणि वि-नापि श्राद्धतर्पणैः सूर्य्येन्दुसङ्गमे यत्र पितॄणां तृप्तिका-रकाः ब्राह्मणान् मोजयिष्यन्ति तेषां श्राद्धमनन्तकम् ।श्राद्धे पितॄणां संतृप्त्यै दास्यन्ति कपिलां शुभाम् येऽत्र, तेषां पितृगणोवसेत् क्षीरोदरोधसि वृषोत्सर्गः कृतोयैस्तु-तीर्थेऽस्मित् वृषभध्वजे अश्वमेधपुरोडाशैः पितरस्तैस्तुतर्पिताः गयातोऽष्टगुणं पुण्यं अस्मिंस्तीर्थे पितामहाः ।अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके येषांगर्भेऽभवत् स्रावोये दन्तजननान्मृताः तेषां तृप्तिर्भवेन्नूनंतीर्थे कापिलधारिके अवृत्तमोञ्जीदामानो ये वाऽदारपरिग्रहाः तेभ्योनिर्वपितं पिण्डमिह ह्यक्षयतां व्रजेत् ।अग्निदाहे मृताये वै नाग्निदाहश्च येषु वै ते सर्वेतृप्ति-मायान्ति तीर्थे कापिलधारिके और्द्ध्वदेहिकहीनाये षो-डशभ्राद्धवर्ज्जिताः ते तृप्तिमधिगच्छन्ति घृतकुल्यां निवापिताः अपुत्राश्च मृताये वै येषां नास्त्युदकप्रदः तेऽपि तृप्तिं परां यान्ति मधुस्रवसि तर्पिताः अपमृत्युमृता-ये वै चौरविद्युज्जलादिभिः तेषामिह कृतं श्राद्धं जायतेसुगतिप्रदम् आत्मघातेन निधनं येषामिह विकर्म्मिणाम् ।तेऽपि तृप्तिं लभन्तेऽत्र पिण्डैः शिवगयाकृतैः पितृगोत्रेमृता ये वै मातृपक्षे ये मृताः तेषामत्र कृतःपिण्डो-भवेदक्षयतृप्तिदः पत्नीवर्गे मृताये वै मित्रवर्गे येमृताः ते सर्व्वे तृप्तिमायान्ति तर्पिता वार्षभध्वजे ।ब्रह्मक्षेत्रविशां वंशे शूद्रबंशेऽन्त्यजेषु येषां नामगृहीत्वा यद्दीयते ते समुद्धृताः तिर्य्यग्योनिश्रिताये वैये पिशाचत्वमागताः तेऽप्यूर्द्धगतिमयान्ति तृप्ताःकापिलधारिके ये तु मानुषलोकेऽस्मिन् पितरोमर्त्य-योनयः ते दिव्ययोनयः स्युर्वै मधुस्रवसि तपिताः ।ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः ते ब्रह्मलोकेगच्छन्ति तृप्तास्तीर्थे वृषध्वजे कृते क्षीरमयं तीर्थं त्रे-तायां मधुमत् पुनः द्वापरे सर्पिषा पूर्ण्णं कलौ जलमयंभयेत् सीमावहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम् मध्ये-वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः काशीख्यितैर्यतोऽ-दर्शि ध्यजोमे वृषलाञ्जनः वृषध्वजेन नाम्नातः स्थास्य-न्त्यत्र पितामहाः पितामहेन सहितो गदाधरसमन्वितः ।रविणा पार्षदैः सार्द्धं तिष्टामोऽत्र पितामहाः”! ।कापिलधारिककापिलघारादयोऽप्यत्र