| YouTube Channel

कपिञ्जलन्याय (kapiJjalanyAya)

 
Monier Williams Cologne
English
कपिञ्जल-न्याय
m.
the rule of the Kapiñjalas (with whom even ‘three’ is a large number),
Sāy.
on
RV.
iii, 56, 5.
वाचस्पत्यम्
Sanskrit
कपिञ्जलन्याय
पु०
बहुत्वस्य त्रित्वपर्य्यवसायिताख्यापकेन्यायभेदे न्यायो यथा “सवन्ताय कपिञ्जलाना-लभेतेति” श्रुत्या कपिञ्जलगतं बहुत्वं बोधितं तच्च विव-क्षितं विधेयसंख्यात्वात् कपिञ्जलस्यान्यतोऽप्राप्तत्वात् वि-धेयत्वं बहुत्वं त्रित्वमारभ्य परार्द्धपर्य्यन्तपय्यवसन्नमि-त्यनव्यवसायेनाप्रवृत्त्या वेदाप्रामाण्यापत्तिरिति प्राप्तेराह“प्रथसोपस्थितेस्तन्त्रत्वात्” जै० सू० त्रित्वोत्पत्त्यनन्तरंत्रित्वसहितैकत्वबुद्ध्या चतुष्ट्वं जन्यते तत्र त्रित्वस्य प्रथमो-पस्थितत्वात् वेदबोध्यवहुत्वस्य तत्रैव पर्य्यवसान्नानध्यवसोयःसंख्यायाम् एकत्वस्येव बहुत्वसंख्यायायां त्रित्वस्यैव प्रथमो-पस्थितत्वात्तत्रैव वेदतात्पर्य्यात् अपेक्षबुद्धिसहकृत्रैक-त्वत्रयेण त्रित्वम् एवं तथाविधैकत्व चतुष्केण चतुष्ट्वं ञ्चन्यतेइति मते तु कारणीभूतापेक्षाबुद्धिलाघवेन प्रथमोषस्थित-त्रित्वस्यैव वेदबोध्यता नातोऽप्रवृत्तिः अतएव वैया० भू०संख्यायाम् एकत्वसंख्याया एव ग्रहणे कपिञ्जलालम्भ-वाक्ये त्रित्वग्रहणं दृष्टान्तीकृतं यथा “अभेदैकत्वसंख्या-या वृत्तौ भानमिति स्थितिः कपिञ्जलालम्भवाक्ये त्रित्वंन्यायाद्यथोच्यते” “बहुत्वगणनायां त्रित्वस्यैव प्रथभो-पस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमोपस्थित-त्वमस्तीति भावः”