| YouTube Channel

कपालाधिकरण (kapAlAdhikaraNa)

 
वाचस्पत्यम्
Sanskrit
कपालाधिकरण
न०
जैमिनिसूत्रोक्ते अधिकरणभेदे तच्चा-धिकरणं ४, १, पादे यथ“अर्थाभिधानकर्म भविष्यता संयोगस्य तन्निमित्वाद-र्थो हि विधीयते” र्ज० सू० दर्शपूर्णमासयोः श्रूय-ते “कपालेषु पुरोडाशं श्रपयति” इति तथा “पुरो-डाशकपालेन तुषानुपवपति” इति तत्र संदेहःकिम्? उभयं कपालानि प्रमोजयति? पुरोडाश-श्रपणं तुषोपवापश्च उत श्रपणं प्रयोजकं तुषोप-वापः? इति किंप्राप्तम्? विनिगमनायां हेतोः अभा-वात् उभयम् इति प्राप्तोउच्यते अर्थाभिघानम् प्रयो-जनसम्बद्धमभिधानं यस्य यथा पुरोडाशकपालम् इतिपुरोडाशार्थकपालं पुरोडाशकपालम् कथम् एतदवगम्वते? पुरोडाशं तावत् तस्मिन् काले नास्ति येनवर्त्तमानः सम्बन्धः कपालेत स्यात् तेनैव हेतुना न-भूतः सएव, कपालस्य पुरोडाशेन भविष्यता समन्धःभविष्यता सम्बन्धश्च तन्निमित्तस्य भवति तस्मात् पुरो-डाशेन प्रयुक्तं यत् कपालं तेन तुषा उपवप्तव्याः इतिकपालं स्यात् चेत् न, तेन तुषा उपवप्तव्याभवन्तितस्मत् तुषोपवापः कपालानाम् प्रयोजकः प्रयोजकंतु श्रषणम्” एवञ्च सति चरौ पुरोडाशाभावे यदा तुषा-नुपवप्तुम् कपालमुपादीयते तत्पुरोडाशम्” भा०