| YouTube Channel

कपाटसन्धिक (kapATasandhika)

 
वाचस्पत्यम्
Sanskrit
कपाटसन्धिक
पु०
सुश्रुतोक्ते कर्णबन्धरूपकर्णरोगभेदे तत्रहि “एवं विबर्द्धितः कर्णच्छिद्यते तु द्विधा नृणाम् ।दोषतो वाभिघाताद्वा सन्धानं तस्य मे शृणु तत्र स-मासेन पञ्चदश कर्णबन्धनाकृतयः” इत्युद्दिश्य“नेमिसन्धानइत्युपक्रम्य “कपाटसन्धिकोऽर्द्धकपाटसन्धिकः” इत्यादिनाविभज्य “अभ्यन्तरदीर्धकपालिरितराल्पपालिः कपाटस-न्धिक” इति लक्षितः उत्पलभेद्यकशब्दे ११२२ पृ० विवृतिः