| YouTube Channel

कपाटं (kapATaM)

 
शब्दकल्पद्रुमः
Sanskrit
कपाटं, त्रि, (कं वायुं मस्तकं वा पाटयंतीति पट-गतौ + णिच् + कर्म्मणि उपपदे अण् ।) स्वनाम-ख्यातद्वाराच्छादककाष्ठफलकविशेषः तत्पर्य्यायः ।अररम् इत्यमरः १७
कवाटः कपाटी४ कवाटी अररी अररिः इति तट्टीका
द्वारकण्टकम् असारम् इति शब्दरत्नावली
(यथा महाभारते जतुगृहवासे १४८ १७ ।“चक्रे वेश्मनस्तस्य मध्ये नातिमहाविलम् ।कपाटयुक्तमज्ञातं समं भूम्याश्च भारत” !
कं शिरः इत्युपलक्षणेन मनुष्यादीनां ग्रहणमितिबोध्यम् कं वातं वा पाटयति वारयति गृह-द्वारदेशं आवृणोतीत्यर्थः मनुव्यवातादीनां गतिंरुणद्धि वा + पट् + णिच् + अण् यथा, “द्वाराणि समुपावृण्वन् कपाटान्यवघट्टयन्” ।इति रामायणम्