| YouTube Channel

कपर्द्दकः (kaparddakaH)

 
शब्दकल्पद्रुमः
Sanskrit
कपर्द्दकः,
पुं,
(कपर्द्द + कन् ।) शिवस्य जटाजूटःवराटकः इति मेदिनी कडि इति भाषा
(“यद्यहमिमं शक्तुशरावं विक्रीय दश कपर्द्दकान्प्राप्नोमि”
इति हितोपदेशः
) शेषस्य पर्य्यायः ।वराटः कपर्द्दः वराटिका चराचरः ५चरः वर्ज्यः बालक्रीडकः अस्य गुणाः ।कटुत्वम् तिक्तत्वम् उष्णत्वम् कर्णशूलव्रणगुल्म-शूलनेत्रदोषनाशित्वञ्च
तस्य भेदाः सुवर्णवर्णासिंही धूम्रवर्णा व्याघ्री पीतपृष्ठासितोदरामृगी श्वेतवर्णा हंसी नातिदीर्घिका विदन्ता५ इति राजनिर्घण्टः
(वराटकशब्देऽस्यगुणादयो व्याख्येयाः
)