| YouTube Channel

कन्याकुब्जः (kanyAkubjaH)

 
Apte Hindi
Hindi
कन्याकुब्जः
स्त्री*
कन्या - कुब्जः -
एक देश का नाम
शब्दकल्पद्रुमः
Sanskrit
कन्याकुब्जः,
पुं,
(कन्याः कुब्जाः यत्र देशे सः वायुनाहि अस्मिन् देशे कन्याः कुब्जीकृता अतोऽस्यतथात्वम् ।) कान्यकुब्जदेशः इति हेमचन्द्रः
(यथा, महाभारते वनपर्ब्बणि
“कन्याकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः”
वायुनाहि अस्मिन् देशे पुरा कन्याः कुब्जीकृताः ।तद्विवरणमुच्यते पुरा किल कुशनाभो राजषि-र्घृताच्यां कन्याशतं जनयामास रूपयौवनसम्पन्ना-स्तास्तु कदाचित् उद्यानभूमिमागम्य परयानन्द-सन्तत्या चिक्रीडुः अथ सर्व्वगो वायुश्चारुसर्व्वा-ङ्गीस्ता अवलोक्य कामशरपीडितोऽब्रवीत् अहंवः कामये, भवत्यो मे भार्य्या भवन्तु अय ताअङ्गनास्तस्य तद्वचनं श्रुत्वा उच्चैर्विहस्य तमब्रुवन्भो वायो ! त्वं भूतानां अन्तश्चरसि तत्कथम-स्माकं मनोभावं वेत्सि वयं किल कुशनाभ-सुताः कथं पितरं कामतः समतिक्रम्य खयं वर-मभिलषामः पिता हि अस्मान् यस्मै दास्यतिस नो भर्त्ता भविष्यतीति अतः क्षन्तव्याः खलुभवन्नियोगं कर्त्तुमशक्ता वयम् वायुस्तु तासामे-तद्वचनमाकर्ण्य कोपसमन्वितः स्वतेजसा तासांशरीरेषु प्रविश्य मध्ये बभञ्ज ततः प्रभृतिदेशोऽयं कन्याकुब्ज इत्येव ख्यातः
अस्य विस्तृ-तिस्तु रामायणे आदिकाण्डे ३५ अध्याये द्रष्टव्या
अयन्तु काशीनदीतटे स्थितः अधुना कुश-स्थल इत्याख्यया प्रसिद्धः इति कनिहामेनो-क्तम्
अस्य समीपे जाह्नवीप्रवहमाना वर्त्तते ।इति महाभारते अनुशासनपर्ब्ब
)