| YouTube Channel

कन्दुकेश्वर (kandukezvara)

 
वाचस्पत्यम्
Sanskrit
कन्दुकेश्वर
न०
काशीस्थे ज्येष्टस्थानस्थे शिवलिङ्गभेदे कन्दुकखेलनप्रकारः तदाविर्भावकथा काशी० ६५ अ० दर्शिता“स्वैरं विहरतस्तस्य ज्येष्ठस्थाने महेशितुः कौतुकेनैवविक्रीड शिवा कन्दुकलीलया उदञ्चन्न्यञ्चदङ्गानां लाघवंपरितन्वती निश्वासामोदमिलितभ्रमराकुलितेक्षणा ।भ्रश्यद्ध्वम्मिल्लसम्माल्यसुपुटीकृतभूमिका स्विद्यत्कपोलपत्रालीस्रवदम्बुकणोज्वला स्फुटच्चेलांशुकपथनिर्यदङ्गप्रभाविता उल्लसत्कन्दुकास्फालातिशोणितकराम्बुजा ।कन्दुकानुगसंदृष्टिनर्त्तितभ्रूलताञ्चला मृडानी किलखेलन्ती ददृशेजगदम्बिका अन्तरीक्षचराभ्यां दितिजाभ्यांमनीहरा कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना विद-लोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतोविधेः तृणीकृतत्रिज-गतीपुरुषाभ्यां स्वदोर्बलात् देवीं परिजिहीर्षू तौ विष-मेषुप्रपीडितौ दिवोऽवतेरतुः क्षिप्रं मायां स्वीकृत्य-शाम्बरीम् धृत्वा पारिषदीं मूर्त्तिभायातावम्बिकान्ति-कम् तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसौ सर्व्वज्ञेनपरिज्ञातौ चाञ्चल्याल्लोचनोद्भबात् कटाक्षिताथ देवेनदुर्गा दुर्गविघातिनी विज्ञातनेत्रसंज्ञान्तु सर्वज्ञार्द्धशरी-रिणी तेनैव कन्दुकेनाथ युगपन्निजघान तौ महाबलौमहादेव्या कन्दकेन समाहतौ परिभ्रम्यपरिभ्रम्य तौ दु-ष्टौ विनिषेततुः वृन्तादिव फले पक्वेतालादनिललोलिते ।दम्भोलिना परिहते शृङ्गेइव महागिरेः तौ निपात्यमहादैत्यावकार्य्य करणोद्यतौ ततः परिणतिं यातो-लिङ्गरूपेण कन्दुकः कन्दुकेश्वरसंज्ञंच तल्लिङ्गमभबत्तदा ।ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम् कन्दुकेशसमुत्-प्रत्तिं यः श्रोष्यति मुदान्वितः पूजयिष्यति योभक्त-स्तस्य दुःखभवं कुतः कन्दुकेश्वरभक्तानां मानवानांनिरेनसाम् योगक्षेमं सदा कुर्य्याद्भवानी भयनाशिनी ।मृडानी तस्य लिङ्गस्य पूजां कुर्य्यात् सदैव हि तत्रैवदेव्याः सान्निध्यं पार्व्वत्या भक्तसिद्धिदम् सर्व्वोपसर्गसंघातविघातकरणं परम् कन्दुकेशं महालिङ्गंकाश्यां यैर्न समर्च्चितम् कथं तेषां भवानीशौ स्यातांसर्वेप्सितप्रदौ द्रष्टव्यं प्रयत्नेन तल्लिङ्गं कन्दुकेश्व-रम् कन्दुकेश्वरनामाऽपि श्रुत्वा वृजिनसन्ततिः क्षिप्रंक्षयमवाप्नोति तमः प्राप्योष्णगुं यथा” कन्दुकेशमप्यत्र