| YouTube Channel

कनिष्ठः (kaniSThaH)

 
Wordnet
Sanskrit
Synonyms:
अनुजः, जघन्यजः, कनिष्ठः, यवीयान्, अवरजः, कनीयान्, यविष्ठः, जघन्यः
noun
कनिष्ठभ्राता।
"भास्करः मम अनुजः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
कनिष्ठः, त्रि, (अतिशयेन युवा अल्पो वा इष्टन् ।कनादेशश्च ।) अतियुवा अल्पः पश्चाज्जातः ।तत्पर्य्यायः जघन्यजः यवीयान् अवरजः ४अनुजः इत्यमरः ४३
कनीयान् ६कन्यसः यविष्ठः इति तट्टीकासारसुन्दरी
(यथा, मनुः ११३ ।“ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ।येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्”
शिवः यथा, महाभारते १३ १७ १३१ “पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः”
)