| YouTube Channel

कदि (kadi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कन्द्
मूलधातुः:
कदि
धात्वर्थः:
आह्वाने रोदने
गणः:
भ्वादिः
कर्मकत्वं:
आह्वाने सकर्मकः, रोदने अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कन्दति
धातुः:
कन्द्
मूलधातुः:
कदि
धात्वर्थः:
वैक्लव्ये (भयादिना अभिभवः), वैकल्य इत्येके (वैकल्यं न्यूनत्वम्)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कन्दते
अनुबन्धादिविशेषः:
घटादिः
धातुप्रदीपः
Sanskrit
कदिँ कदि
मानकरूपान्तरम् - क्रदिँ
क्रदि
मानकरूपान्तरम् - क्लदिँ
क्लदि आह्वाने, रोदने
- कन्दति चकन्द कन्दः। बहुलवचनादरन्-कन्दरः कन्दरा कन्दलः गौरादित्वात् कन्दली क्रन्दति चक्रन्दः आक्रन्दः क्लन्दति चक्लन्द (26) ।। 68-70 ।।
कदिँ कदि
मानकरूपान्तरम् - क्रदिँ
क्रदि
मानकरूपान्तरम् - क्रदँ
क्रद
मानकरूपान्तरम् - क्लदँ
क्लद वैक्लव्ये
- कन्दते अकान्दि अकन्दि कन्दा कन्दिशीकः कान्दिशीकः क्रन्दते अक्रान्दि अक्रन्दि क्रन्दा एतावर्थान्तरे परस्मैपदिनावुक्तौ तयोश्चापि घटादित्वम् क्रदते क्रदयति क्रदा क्लदते क्लदयति क्लदा ।। 775-778 ।।
क्षीरतरङ्गिणी
Sanskrit
कदिँ कदि
मानकरूपान्तरम् - क्रदिँ
क्रदि
मानकरूपान्तरम् - क्लदिँ
क्लदि आह्वाने, रोदने
कन्दति कन्दो मूलम् कन्दुः पाकस्थानम् कन्दुकम् कन्दरा क्रन्दति आक्रन्दः ल्युः (द्र031134) संक्रन्दनः कदि-क्रदि-क्लदि एते त्रयोऽपि वैक्लव्ये (धा01523) इति घटाद्यात्मनेपदिनः 67-69
कदिँ कदि
मानकरूपान्तरम् - क्रदिँ
क्रदि
मानकरूपान्तरम् - क्लदिँ
क्लदि वैक्लव्ये
- विक्लवः कातरः वैकल्य इति चन्द्रः (1520) क्रन्दन्ते, क्रन्दा कद, क्रद, क्लद, इति नन्दी क्रदा कदि क्रदि क्लदि आह्वाने रोदने (158) इति परस्मैपदिनः क्रन्दति 751-753
धातुवृत्तिः
Sanskrit
कदिँ कदि
मानकरूपान्तरम् - क्रदिँ
क्रदि
मानकरूपान्तरम् - क्लदिँ
क्लदि (अर्थः) आह्वाने, रोदने
आह्वने सकर्मकः ( कन्दति चकन्द कन्दितेत्यादि चिक्रन्दिषति चाकन्दाते चाकन्दीति चाकन्ति कन्दयति पुत्रन्देवदत्तेन ) "गतिबुद्ध'' इत्यत्र शब्दकर्मेति साधनकर्मणो ग्रहणात् प्रयोज्यस्य कर्मत्वं, शाकटायनमते त्वस्यैव सर्वमेतद्गदतौ प्रतिपादितं तत एवावगन्तव्यम् क्रन्दतीत्यादि पूर्ववत् ( संक्रन्दयतीति संक्रन्दनः ) नन्द्यादित्वाद् ल्युः कर्मण्यधिकरणे वा घञ् ( आक्रन्दं धावति आक्रन्दिकः ) "आक्रन्दाट्ठञ्च'' इति ठञ् ठकौ अनयोः स्वरे विशेषः ( कन्दरः ) बाहुलकादरः यद्वा कन्दं वैल्कव्यं राति भीरूणामिति ( कन्दरः कन्दलः ) बाहुलकाद् लप्रत्ययः यद्वा पूर्ववद्रातेः कः "पिलकादीनां संज्ञाछन्दसोः'' इति लत्वम् अथ वा लाते रन्तर्भावितण्यर्थात्कः ( कन्दली ) गौरादित्वाद् ङीष् एते घटादयोऽपि आद्यावेवेत्यपरे72
कदिँ कदि
मानकरूपान्तरम् - क्रदिँ
क्रदि
मानकरूपान्तरम् - क्लदिँ
क्लदि (अर्थः) वैक्लव्ये
अत्र क्षीरस्वाम्येवं पठित्वाह वल्लव्य इति चन्द्रः कद क्रद क्लदेति नन्दी अनिदितमाह मैत्रेयस्तु कदिक्रदी द्वाविदितौ पिइत्वा क्रदल्कदेति द्वावनिदितावाह तत्रेदितोरन्त्यः सरेफ आद्यो नीरेफः, अनिदितोस्त्वाद्यः सरेफः, अपरो लकारवान् वर्द्धमानोपि मैत्रेयवल्लकारवन्तमिदितं चापठत् प्रथिक्रन्दिक्लन्दिस्यन्दीनां घटादौ पाठः चिण्ण्मुलोर्वृद्ध्यर्थ इति अत्र कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषु गतानां पुनरिहापि पाठो केवलमित्त्वार्थः किं त्वात्मनेपदिषु पाठसामर्थ्यात्तदर्थमपि ( कन्दते चकन्दे कन्दिता चिकन्दिषते चाकन्द्यते चाकन्ति कन्दयति अचकन्दत् अकान्दि, अकन्दि क_दंकन्दम् कान्दंकान्दमित्यादि) क्षजिवत् मित्त्वसामर्थ्यादनुपधायामपि दीर्घविकल्पः एवं ( क्रन्दते क्लन्दत इत्यादि ) अनिदित्पाठे ( कदयति अकादीत्यादि एवं क्रदते क्लदत इत्यादि कन्दनं कन्दलः ) बाहुलकादलः (कदली) गौरादित्वान्ङीष् 762
कृदन्तरूपमाला
Sanskrit
1 {@“कदि आह्वाने रोदने च”@} 2 आह्वाने सकर्मकः, अन्यत्राकर्मकः।
‘आह्वाने रोदने क्रन्देः कन्देः क्रन्दति कन्दति।
वैक्लव्ये तु तयोर्घात्वोः क्रन्दते कन्दते मितोः।।’ 3 इति देवः।
4 कन्दकः-न्दिका, कन्दकः-न्दिकाः, चिकन्दिषकः-षिका, चाकन्दकः-न्दिका
कन्दिता-त्री, कन्दयिता-त्री, चिकन्दिषिता-त्री, चाकन्दिता-त्री
कन्दन्-न्ती, कन्दयन्-न्ती, चिकन्दिषन्-न्ती
-- कन्दिष्यन्-न्ती-ती, कन्दयिष्यन्-न्ती-ती, चिकन्दिषिष्यन्-न्ती-ती
कन्दयमानः, कन्दयिष्यमाणः, चाकन्द्यमानः, चाकन्दिष्यमाणः
कन्-कन्दौ-कन्दः
-- -- -- कन्दितम्-तः, 5 कन्दितः-तं, चिकन्दिषितः, चाकन्दितः-तवान्
कन्दः, कन्दः, आकन्दी, 6 चिकन्दिषुः, चिकन्दयिषुः, चाकन्दः
कन्दितव्यम्, कन्दयितव्यम्, चिकन्दिषितव्यम्, चाकन्दितव्यम्
कन्दनीयम्, कन्दनीयम्, चिकन्दिषणीयम्, चाकन्दनीयम्
कन्द्यम्, कन्द्यम्, चिकन्दिष्यम्, चाकन्द्यम्
ईषत्कन्दः, -दुष्कन्दः-सुकन्दः
-- -- कन्द्यमानः, कन्द्यमानः, चिकन्दिष्यमाणः, चाकन्द्यमानः
7 कन्दः, कन्दः, चिकन्दिषः, चाकन्दः
कन्दितुम्, कन्दयितुम्, चिकन्दिषितुम्, चाकन्दितुम्
कन्दा, कन्दना, चिकन्दिषा, चिकन्दयिषा, चाकन्दा
कन्दनम्, कन्दनम्, चिकन्दिषणम्, चाकन्दनम्
कन्दित्वा, कन्दयित्वा, चिकन्दिषित्वा, चाकन्दित्वा
सङ्कन्द्य, संकन्द्य, सञ्चिकन्दिष्य, सञ्चाकन्द्य
कन्दम् कन्दित्वा कन्दम् कन्दयित्वा चिकन्दिषम् चिकन्दिषित्वा चाकन्दम् चाकन्दित्वा २।
प्रासङ्गिक्यः
01
=>
(१६३)
02
=>
(१-भ्वादिः-७०। सक। सेट्। पर।)
03
=>
(श्लो-१०५)
04
=>
[[२। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[B। ‘मनोज्ञगण्डं तमनिन्दिताननं नन्दात्मजं शारदचन्द्रशीतलम्। पराक्रमत्रन्दनकन्दितासुरं संक्रन्दनक्लन्दितमीक्षितास्महे।।’ धा। का। १-१०।]]
06
=>
[[३। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः।]]
07
=>
[पृष्ठम्०१५८+ २७]
1 {@“कदि वैक्लव्ये”@} 2 3 घटादिः षित् च।
4 ‘कदि आह्वाने रोदने च’ 5 इति धातोरेव, अर्थविशेषे आत्म- नेपदार्थं मित्त्वार्थं चानुवादो घटादौ।।
कन्दकः-न्दिका, कन्दकः-न्दिका, चिकन्दिषकः-षिका, चाकन्दकः-न्दिका
कन्दिता-त्री, कन्दयिता-त्री, चिकन्दिषिता-त्री, चाकन्दिता-त्री
-- कन्दयन्-न्ती, कन्दयिष्यन्-न्ती-ती
-- कन्दमानः, कन्दयमानः, चिकन्दिषमाणः, चाकन्द्यमानः
कन्दिष्यमाणः, कन्दयिष्यमाणः, चिकन्दिषिष्यमाणः, चाकन्दिष्यमाणः
कन्-कन्दौ-कन्दः
-- -- -- कन्दितं-तः, 6 कन्दितः-तम्, चिकन्दिषितः, चाकन्दितः-तवान्
कन्दः, कन्दः, चिकन्दिषुः, चिकन्दयिषुः, चाकन्दः
7 कन्दितव्यम्, कन्दयितव्यम्, चिकन्दिषितव्यम्, चाकन्दितव्यम्
कन्दनीयम्, 8 कन्दनीयम्, चिकन्दिषणीयम्, चाकन्दनीयम्
कन्द्यम्, कन्द्यम्, चिकन्दिष्यम्, चाकन्द्यम्
ईषत्कन्दः-दुष्कन्दः-सुकन्दः
-- -- कन्द्यमानः, कन्द्यमानः, चिकन्दिष्यमाणः, चाकन्द्यमानः
कन्दः, कन्दः, चिकन्दिषः, चाकन्दः
कन्दितुम्, कन्दयितुम्, चिकन्दिषितुम्, चाकन्दितुम्
9 कन्दा, कन्दना, चिकन्दिषा, चिकन्दयिषा, चाकन्दा
कन्दनम्, कन्दनम्, चिकन्दिषणम्, चाकन्दनम्
कन्दित्वा, कन्दयित्वा, चिकन्दिषित्वा, चाकन्दित्वा
सङ्कन्द्य, सङ्कन्द्य, प्रचिकन्दिष्य, प्रचाकन्द्य
कन्दम् २, कन्दित्वा २, कन्दम् २, 10 कान्दम् २, कन्दयित्वा २, चिकन्दिषम् २, चिकन्दिषित्वा २, चाकन्दम्
चाकन्दित्वा २।
प्रासङ्गिक्यः
01
=>
(१६४)
02
=>
(१-भ्वादिः-७७२। अक। सेट्। आत्म।)
03
=>
[[आ। ‘घटादिषु त्विहापूर्वपठितास्सर्वदा मितः। बहिस्स्थस्येह पाठे तु मित्त्वमुक्तेऽर्थ एव हि’।। (धातुकाव्यव्याख्याने) इत्यनेन न्यायेन वैकल्ये एव मित्त्वप्रयुक्तं कार्यम्। आह्वानरोदनयोस्तु मित्त्वं न।]]
04
=>
[[श्लोकः - ‘आह्वाने रोदने क्रन्देः कन्देः क्रन्दति कन्दति। वैक्लव्ये तु तयोर्धात्वोः क्रन्दते कन्दते मितोः।। मित्त्वार्थपाठसामर्थ्यात् तयोर्दीर्घविकल्पनम्। भवेच्चिण्णमुलोस्तस्मादक्रान्द्यक्रन्दि सिध्यतः।।’ (श्लो-१०५-१०६।) इति देवः। श्लोकान्तः]]
05
=>
(१६३)
06
=>
[[१। ‘निष्ठायां सेटि’ (६-४-५२) इति णेर्लोपः।]]
07
=>
[पृष्ठम्०१५९+ २५]
08
=>
[[१। ‘णेरनिटि’ (६-४-५१) इति णेर्लोपः।]]
09
=>
[[२। घटादीनां षित्त्वात् ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इति अङ्। ‘गुरोश्च--’ (३-३-१०३) इति वा अः प्रत्ययः।]]
10
=>
[[३। अनुपधात्वेऽपि घटादिषु पाठसामर्थ्यात् ‘चिण्णमुलोः--’ (६-४-९३) इति दीर्घ- विकल्पः।]]