| YouTube Channel

कदर्य्यः (kadaryyaH)

 
शब्दकल्पद्रुमः
Sanskrit
कदर्य्यः, त्रि, (कुसितोऽर्य्यः स्वामी
कुगतीति-समामः ।) क्षुद्रः कृपणः इत्यमरः ४८
“आत्मानं धर्म्मकृत्यञ्च पुत्त्रदारांश्च पीडयन् ।यो लोभात् मञ्चिनोत्यर्थान् कदर्य्य इति स्मृतः”
इति स्मृतिः
(तथा, छान्दोग्योपनिषदि ११ ।५ “तेभ्योऽप्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकारसहप्रातः सञ्जिहान उवाच नमेस्तेनो जनपदे नकदर्य्यो मद्यपो नानाहिताग्नि र्नाविद्वानिति”
)