| YouTube Channel

कत्तृणम् (kattRNam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तृणु अदने”@} 2 तर्णकः-र्णिका, तर्णकः-र्णिकः, तितर्णिषकः-षिका, 3 तरीतृणकः-णिका
4 तर्णिता-त्री, तर्णयिता-त्री, तितर्णिषिता-त्री, तरीतृणिता-त्री
5 तर्णुवन्-तृण्वन्-ती, 6 तर्णयन्-न्ती, तितर्णिषन्-न्ती
-- तर्णिष्यन्-न्ती-ती, तर्णयिष्यन्-न्ती-ती, तितर्णिषिष्यन्-न्ती-ती
-- तर्णुवानः, -- तितर्णिषमाणः, तरीतृण्यमानः
तर्णिष्यमाणः, तितर्णिषिष्यमाणः, तरीतृणिष्यमाणः
-- 7 तृण्-तृणौ-तृणः, 8 तृत्-तृतौ-तृतः
-- -- 9 तृतम्-तः-तवान्, तर्णितः, तितर्णिषितः, तरीतृणितः-तवान्
तृणः, 10 तर्णकः, 11 तर्णः, तितृर्णिषुः, तरीतृणः
तर्णितव्यम्, तर्णयितव्यम्, तितर्णिषितव्यम्, तरीतृणितव्यम्
तर्णनीयम्, तर्णनीयम्, तितर्णिषणीयम्, तरीतृणनीयम्
12 तृण्यम्, तर्ण्यम्, तितर्णिष्यम्, तरीतृण्यम्
ईषत्तर्णः-दुस्तर्णः-सुतर्णः
-- -- -- तृण्यमानः, तर्ण्यमानः, तितर्णिष्यमाणः, तरीतृण्यमानः
13 तृणम्, 14 कत्तृणम्, तर्णः, तितर्णिषः, तरीतृणः
15 तर्णितुम्, तर्णयितुम्, तितर्णिषितुम्, तरीतृणितुम्
16 तृतिः, 17 तृण्टिः, तर्णना, तितर्णिषा, तरीतृणा
तर्णनम्, तर्णनम्, तितर्णिषणम्, तरीतृणनम्
18 तृर्णित्वा-तृत्वा, तर्णयित्वा, तितर्णिषित्वा, तरीतृणित्वा
19 प्रतृत्य-प्रतृण्य, प्रतर्ण्य, प्रतितर्णिष्य, प्रतरीतृण्य
तर्णम् २, तर्णित्वा २-तृत्वा २, तर्णम् २, तर्णयित्वा २, तितर्णिषम् २, तितर्णिषित्वा २, तारीतृणम्
तरीतृणित्वा २।
प्रासङ्गिक्यः
01
=>
(७६६)
02
=>
(८-तनादिः-१४६८। सक। सेट्। उभ।)
03
=>
[[५। ‘रीगृदुपधस्य च’ (७-४-९०) इति यङन्तेऽभ्यासस्य रीगागमः। अनुनासिकान्त- त्वादत्राभ्यासस्य नुगागमो शङ्क्यः
\n\n परत्वात् रीगागमेन तस्य बाधात्।]]
04
=>
[पृष्ठम्०६८१+ २६]
05
=>
[[१। ‘तनादिकृञ्भ्य उः’ (३-१-७९) इति उः विकरणप्रत्ययः। गुणः। ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङ्। स्त्रियां उगित्त्वेन ङीप्। आत्रेयादयस्तु ‘संज्ञापूर्वको विधिरनित्यः’ (परिभाषा ९४) इत्याश्रित्य गुणाभावं मत्वा, तृण्वन्- ती इति रूपमाहुः।]]
06
=>
[[२। ण्यन्तात्, ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति परस्मैपदमेव। तेन शानच् भवति।]]
07
=>
[[३। विचि रूपमेवम्। तेन अनुनासिकलोपो भवति।]]
08
=>
[[४। क्विपि तु, ‘गमः क्वौ’ (६-४-४०) इत्यत्र ‘गमादीनामिति वक्तव्यम्’ (वा। ६-४-४०) इति वार्तिकात्, अनुनासिकलोपे, तुकि रूपमेवं भवति। गमादयः = गमप्रकाराः इति सर्वैः व्याख्यातत्वात् दोषः।]]
09
=>
[[५। ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति’ (६-४-३७) इत्यनुनासिकलोपे रूपम्।]]
10
=>
[[६। ‘आशिषि च’ (३-१-१५०) इति वुन्।]]
11
=>
[[आ। ‘गावः पिबन्तु गणशः कलशाम्बुराशिं किं तेन तर्णकगणाश्चिरमादधानाः।।’ देवनायकपञ्चाशत् -- ५।]]
12
=>
[[७। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति क्यप्।]]
13
=>
[[८। ‘घञर्थे कविधानम्’ (वा। ३-३-५८) इति कप्रत्ययः। कित्त्वान्न गुणः।]]
14
=>
[[९। ‘तृणे जातौ’ (६-३-१०३) इति तत्पुरुषे कद्भावः।]]
15
=>
[पृष्ठम्०६८२+ २४]
16
=>
[[१। क्तिनि, ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इत्यनुनासिकलोपे रूपम्।]]
17
=>
[[२। क्तिचि तु, ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति सूत्रेण दीर्घस्य, अनुनासि- कलोपस्य निषेधः। ‘ष्टुना ष्ुः’ (८-४-४१) इति तकारस्य ष्टुत्वेन टकारः। ‘ऋवर्णान्नस्य णत्वं वाच्यम्’ (वा। ८-४-१) इति वचनादत्र धातौ तृणु इत्यत्र णत्वं भवति, नकारान्तत्वमेवास्यौपदेशिकम्--इति केचित्। तेषां पक्षे तु, तृन्तिः इति रूपं भवति।]]
18
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणे तर्णित्वा इति रूपम्। इडभावपक्षे, अनुनासिकलोपे गुणाभावः।]]
19
=>
[[४। ‘वा ल्यपि’ (६-४-३८) इति अनुनासिकलोपविकल्पः। लोपपक्षे तुकि प्रतृत्य इति रूपम्।]]