| YouTube Channel

कत्तृणं (kattRNaM)

 
शब्दकल्पद्रुमः
Sanskrit
कत्तृणं,
क्ली,
(कद् कुत्सितं तृणं इति अत्र कद् स्वार्थेकोः कदादेशः “तृण जातौ” १०३ ।)सुगन्धितृणविशेषः रामकर्पूर इति ख्यातम् ।तत्पर्य्यायः पौरम् सौगन्धिकम् ध्याम देव-जग्धकम् रौहिषम् इत्यमरः १६६
सुगन्धम् तृणशीतम् सुशीतलम् इतिरत्नमाला
रोहिषतृणम् १० कात्तृणम् ११भूति १२ भूतिकम् २३ श्यामकम् १४ ध्यामकम्१५ पूति १६ मुद्गलम् १७ देवदग्धकम् १८ ।अस्य गुणाः कटुत्वम् तिक्तत्वम् कफशस्त्र-शल्यादिदोषबालग्रहविनाशित्वञ्च इति राज-निर्घण्टः
(तुबरत्वम् हृत्कण्ठव्याधिपित्तास्र-शूलकासज्वरनाशित्वञ्च इति भावप्रकाशः
)पृश्निः इति मेदिनी
चाकुलिया इति भाषा