कण्वसुता (kaNvasutA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकण्वसुता
कण्व: - सुता -
"शकुन्तला, कण्व की पुत्री"
Shabdartha Kaustubha
Kannadaकण्वसुता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಣ್ವ ಮಹರ್ಷಿಯ ಮಗಳು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकण्वसुता स्त्री कण्वस्य ऋषेः प्रातपालिता सुता । शक-न्तुलायाम् सा च विश्वामित्रात् मेनकायामुत्पन्नाजातमात्रा च तया परित्यक्ता शकुन्तैरक्षिता कण्वेनप्रतिपालिता दुष्मन्तेन गान्धर्व्वविधिना व्यूढा ।कण्वदुहित्रादयोप्यत्र । तज्जन्मकथा भा० आ० ७१ अ०“तप्यमानः किल पुरा विश्वामित्रो महातपाः । भृशं वैतापयामास शक्रं सुरगणेश्वरम् । तपसा दोप्तवीर्य्योऽयं स्थानान्मां च्यावयेदिति । भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् । गुणैरप्सरसां दिव्यैर्म्मोनके! त्वं विशिष्यसे, श्रेयो मे कुरु कल्याणि! यत्त्वां वक्ष्यामि तच्छूणुअसावादित्यसङ्काशो विश्वामित्रो महातपाः । तप्यमान-स्तपो घोरं मम कम्पयते ममः । मेनके! तव भारोऽयंविश्वामित्रः सुमध्यमे! । संशितात्मा सुदुर्धर्ष उग्रेवपसि वर्त्तते । स मां न च्यावयेत् स्थानात्तं वै गत्वाप्रलोभय । चर तस्य तपोविध्नं कुरु मे पियमुत्तमम् ।रूपयौवनमाधुर्चचेष्टितस्मिवभाषितैः । लोभयित्वा वरा-रीहे! तपसस्तं निवर्त्तय” तत्सहायतया वायुप्रेषणमुक्त्व“कण्व उवाच । एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम्प्रातिष्ठत तदा काले मेनका व्रायुना सह । अथापश्यद्वरारोहा तपसा दग्धकिल्विषम् । विश्वामित्रं तप्य-मानं मेनका भीरुराश्रमे । अभिवाद्य ततः सा तं प्रा-क्रीडदृषिसन्निधौ । अपोवाह च वासोऽस्या मारुतः शशि-सन्निभम् । साऽगच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती ।स्मयमानेव सव्रीडं मरुता वरवर्णिनी । पश्यतस्तस्य त-त्रर्षेरप्यग्निसमतेजसः । विश्वामित्रस्ततस्तान्तु विषमस्था-मनिन्दिताम् । मृद्धीं वाससि संभ्रान्तां मेनकां मुनि-सत्तमः । अनिर्द्देश्यवयोरूपामपश्यद्विवृतां तदा । तस्यारूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा । चकार भावसंसर्गांतया कामवशङ्गतः । न्यमन्त्रयत चाप्येनां सा चाप्यैच्छद-निन्दिता । तौ तत्र सुचिरं कालमुभौ व्याहरतां तदा ।रममाणौ यथाकामं यथैकदिवसं तथा । जनयामास समुनिर्म्मेनकायां शकुन्तलाम् । प्रस्थे हिमवतो रम्ये मा-लिनीमभितो नदीम् । जातमुत्सृज्य तं गर्भं मेनका मा-लिनीमनु । कृतकार्य्या ततस्तूर्णमगच्छच्छक्रसंसदम् ।तं वने विजने गर्भं सिंहव्याघ्रसमाकुले । दृष्ट्वा शयानंशकुनाः समन्तात् पर्य्यवारयन् । नेमां हिंस्युर्व्वने बालांक्रव्यादा मांसगृद्धिनः । पर्य्यरक्षन्त तां तत्र शकुन्तमेनकात्मजाम् । उपस्प्रष्टुं गतश्चाहमपश्यं शयिता-मिमाम् । निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ।आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् । शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते । क्रमेणैते त्रयोऽप्युक्ताःपितरो धर्म्मशासने । निर्ज्जने तु वने यस्मात् शकुन्तैपरिवारिता । शकुन्तलेति नामास्याः कृतञ्चापि ततोमया । एवं दुहितरं विद्धि मम विप्र! शकुन्तलाम् । श-कुन्तला च पितरं मत्यते मामनिन्दिता” । तस्याश्च दुष्म-न्तेन गान्धर्वबिधिना परिणयकया तत्रैवोक्ता ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
