| YouTube Channel

कण्वः (kaNvaH)

 
Wordnet
Sanskrit
Synonyms:
बधिरः, बधिरा, एडः, एडा, एडोकः, एडोका, कण्वः, कण्वा, कल्लः, कल्ला
noun
यः कर्णहीनः अस्ति।
"एषा बधिराणां पाठशाला वर्तते।"
शब्दकल्पद्रुमः
Sanskrit
कण्वः,
पुं,
(कण् + क्वन् ।) मुनिविशेषः इतिमेदिनी
तु पुरुवंशजाताप्रतिरथनामक्षत्त्रिय-पुत्त्रः यथा, --“सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ।तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः”
इति श्रीभागवते २०
(अपर ऋषिभेदः ।अनेनैव मुनिशार्दूलेन यजुर्व्वेदीयकाण्वशाखा प्र-णीता यथा, यजुर्व्वेदे १७ ७४ ।“यामस्य कण्वोऽदुहत् प्रपीनांसहस्रधारां पयसा महीं गाम्”
तथा, भागवते १२ ७४ ।“यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः ।जगृहुर्वाजसन्न्यस्ताः काण्वमाध्यन्दिनादयः”
अयन्तु कश्यपवंशोद्भवः शकुन्तलायाः प्रतिपालकपिता यथा, महाभारते शाकुन्तले ७० ३० ।“महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्”
एतस्य सविस्तरन्तु तत्रैव ७१ अध्याये द्रष्टव्यम् ।अयमेव गोत्रप्रवर्त्तकः ऋग्वेदे ४४--५०सूक्तेषु ऋषिगोत्रप्रवर्त्तक कण्ववृत्तान्तमवध्येयम्
कण्व इत्यस्यार्थः कण्वः सुखमयः तत्त्वविद्याप्र-भावात् नत्वयं संसारजन्यसुखमयः नहि तत्त्व-ज्ञानिनां क्वचित् संसारासक्तिः अविद्याधर्म्मा-भावादिति नीलकण्ठः विद्या क्रियाकुशलःमेधावी इति ऋग्वेदभाष्यकृद्दयानन्दः
स्वनामाख्याततीर्थविशेषः यथा, महाभारते ।३ ८२ ४४ ।“कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम् ।धर्म्मारण्यं हि तत्पुण्यमाद्यञ्च भरतर्षभ !”
)