कण्डरीक (kaNDarIka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Mahabharata
EnglishKaṇḍarīka, a brahman. § 717b (Nārāyaṇīya): XII, 343, 13264 (ºo 'tha rāja ca Brahmadattaḥ pratāpavān|jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ | sapta jātishu mukhyatvād yogānāṃ sampadaṃ gataḥ, cf. Harivaṃśa, v. 1256 foll.).
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकण्डरीक सप्तजातिस्मरमध्ये विप्रभेदे तेषां पूर्वजन्मवृत्ता-न्तसहिता कथा हरिवंशे दर्शिता यथा “मगालवस्यचरितं कण्डरीकस्य चैवहि” इत्युपक्रम्य ।“वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च । खसृमःपितृवर्त्ती च नामभिः कर्म्मभिस्तथा । कौशिकस्य सुतास्तातशिष्या गर्गस्यभारत! । पितर्य्युपरते सर्व्वेव्रतवन्तस्तदाऽ-भवन् । नियोगात्ते गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।समानवत्सां कपिलां सर्व्वे न्यायागतां तदा । तेषां पथिक्षुधार्त्तानां बाल्यान्मोहाच्च भारत । क्रूरा बुद्धिः सम-भवत्तां गां वै हिंसितुं तदा । तान् कविः खसृमश्चैवावोचतां नेति वै तदा । न चाशक्यन्त ताभ्यां ते तदावारयितुं द्विजाः । पितृवर्त्ती तु यस्तेषां नित्यं श्रद्धा-न्वितो द्विजः । स सर्व्वानब्रवीद्भ्रातॄन् कोपाद्धर्म्मे समा-हितः । यद्यवश्यं प्रहन्तव्यं पितॄनद्दिश्य साध्विमाम् ।प्रकुर्व्वीमहि गां सम्यक् संर्व्व एव समाहिताः । एवमेषा-ऽपि गौर्द्वर्मं प्राप्स्यते नात्र संशयः । पितॄनम्यर्च्य धर्मेणनाधर्मो नो भविष्यति । तथेत्युक्त्वा तु ते सर्वे प्रोक्षयित्वाच गान्ततः । पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत! ।उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् । शार्द्दूलेन हताधेनुर्वत्सोऽयं प्रतिगृह्यताम् । आर्ज्जवात् स तु वत्सं तंप्रतिजग्राह वै द्विजः । मिथ्योपचर्य्य ते तन्तु गुरुमन्यायतोद्विजाः । कालेन समयुज्यन्त सर्व एवायुषः क्षये । ते वै क्रूर-तया हिस्रा अनार्य्यत्वात्गुरौ तथा । उग्रा हिंसाविहाराश्चसप्ताजायन्त सोदराः । लुब्धकस्यात्मजास्तात । बलवन्तो म-नीषिणः । पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गान्तदा ।स्मृतिप्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत् । जाता व्याधादशार्णेषु सप्त धर्मविचक्षणाः । स्वधर्मनिरताः सर्वे लोभा-नृतविबर्ज्जिताः । तावन्मात्रं प्रकुर्व्वन्ति यावता प्राण-धारणम् । शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत् ।नामधेयानि चाप्येषामिमान्यासन् विशाम्पते! । निर्वैरोनिर्वृतिः क्षान्तो निर्मन्युः कृतिरेव च । वैघसो मातृवर्त्तीच व्याधाः परमधार्मिकाः । तैरेवमुषितैस्तात हिंसाधर्म-परैः सदा । माता च पूजिता वृद्धा पिता च परितो-षितः । यदा माता पिता चैव संयुक्तौ कालधर्मणा ।तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् । शुभेन वर्म-णा तेन जाता जातिस्मरा मृगाः । त्रासानुत्पाद्य संवि-ग्ना रम्ये कालञ्जरे गिरौ । उन्मुखो नित्यवित्रस्तः स्त-ब्धकर्णो विलोचनः । पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः । तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।आसन् वनेचरा दान्ता निर्द्वन्द्वा निष्परिग्रहाः । ते सर्वेशुभकर्माणः सधर्माणो वनेचराः । योगधर्ममनुध्यान्तोविहरन्ति स्म तत्र ह । मरुं साध्य जहुः प्राणान् लघ्वा-हारास्तपस्विनः । तेषां मरुं साधयतां पदस्थानानि भा-रत! । तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप! । कर्मणातेन ते तात! शुभेनाशुभवर्ज्जिताः । शुभाच्छुभतरां योनिंचक्रवाकत्वमागताः । शुभे देशे शरद्वीपे सप्तासन् वै जलौ-कसः । त्यक्त्वा सहचरीधर्मं मुनयो धर्मचारिणः । सुमनाःशुचिवाक् शुद्धः पाञ्चकश्छिद्रदर्शनः । सुनेत्रश्च स्वत-न्त्रश्च शकुना नामतः स्मृताः । पञ्चमः पाञ्चिकस्तत्र सप्त-जातिष्वजायत । षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्रमः । तेषान्तु तपसा तेन सप्तजातिकृतेन वै । योगस्यचाभिनिर्वृत्या प्रतिभानाच्च शोभनात् । पूर्व्वजातिषु यद्-ह्म श्रुतं गुरुकुलेषुवै । तथैवावस्थिता बुद्धिः संसारेष्वपिर्त्तताम् । ते ब्रह्मचारिणः सर्वेविहङ्गाः ब्रह्मवादिनः ।गोगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह । ते योगधर्म-निरताः सप्त मानसचारिणः । पद्मगर्भोऽरविन्दाक्षः क्षी-रगर्भः सुलोचनः । उरुविन्दुः सुविन्दुश्च हेमगर्भस्तु स-प्तमः । वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन् । तत्रते शकुना राजंश्चत्वारो योगधर्मिणः । योगभ्रष्टास्त्रय-श्चैव देहन्यासकृतोऽभवन् । काम्पिल्ये नगरे ते तु ब्रह्मदत्त-पुरोगमाः । जाताः सप्त महात्मानः सर्वे विगतकलमषाःज्ञानध्यानतपःपूता वेदवदाङ्गपारगाः । स्मृतिमन्तोऽत्र च-त्वारस्त्रयस्तु परिमोहिताः । स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्म-दत्तो महायशाः । यथा ह्यासीत् पक्षिभावे सङ्कल्पःपूर्व्वचिन्तितः । छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः ।जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ । सस्वायौ ब्र-ह्मदत्तस्य पूर्व्वजातिसहोषितौ । पाञ्चालः पाञ्चिकस्तत्रकण्डरीकस्तथाऽपरः । पाञ्चालो बह्वृचश्चासीदाचार्य्यत्वंचकार ह । द्विवेदः कण्डरीकस्तु च्छन्दोगोऽध्वर्य्युरेव च ।सर्व्वसत्त्वरुतज्ञस्तु राजासीदणुहात्मजः । पाञ्चालक-ण्डरीकाभ्यां तस्य सख्यमभूत्तदा । ते ग्राम्यधर्म्मनिरताःकामस्य वशवर्त्तिनः । पूर्व्वजातिकृतेनासन् धर्मकामार्थ-कोविदाः” प्रसङ्गागतमन्यदुपवर्ण्ण्य तेषु चतुर्ण्णां वक्ष्य-माणश्लोकश्रावणाय ब्राह्मणनियोजनमुक्त्वा मुक्तिमुप-वर्ण्ण्य अवशिष्टानां मुक्तिदर्शनायोक्तं यथा । “अथराजा शिरःस्नातो लब्धा नारायणाद्वरम् । प्रवि-वेश पुरं प्रोतो रथमारुह्य काञ्चनम् । तस्य रश्मीन्प्रत्यगृह्णात् कण्डरीको द्विजर्षभः । चामरव्यजनञ्चापिबाभ्रव्यः समवाक्षिपत् । इदमन्तरमित्येवं ततः स ब्रा-ह्मणस्तदा । श्रावयामास राजानं श्लोकं तं सचिवौच तौ । [सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे । तेऽभिजाताःकुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दूरमध्यानंथूयं तेभ्योऽवसीदथ] । तच्छुत्वा मोहमगमद्ध्रह्मदत्तोनराधिपः । सचिवश्चास्य पाञ्चाल्यः कण्डरीकस्तथैवच । स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ । दृष्ट्वाबभूवुरस्वस्थाः पौराश्च सुहृदस्तथा । मुहूर्त्तमेव राजास सह ताभ्यां रथे स्थितः । प्रतिलभ्य ततः संज्ञांप्रत्यागच्छदरिन्दम! । ततस्ते तत् सरः स्मृत्वा योगन्त-सुपलभ्य च । ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ।अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् । जगामब्रह्मदत्तोऽथ सदारो वनमेव ह । कण्डरीकोऽपि ध-र्म्मात्मा साङ्ख्ययोगमनुत्तमम् । प्राप्य योगगति सिद्धोविशुद्धः स्वेन कर्म्मोणा” हरिवं २१, २२, २३, २४ अ० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
