| YouTube Channel

कणगुग्गुलु (kaNaguggulu)

 
Monier Williams Cologne
English
कण—गुग्गुलु
m.
a species of bdellium,
L.
शब्दकल्पद्रुमः
Sanskrit
कणगुग्गुलुः,
पुं,
(कणश्चासौ गुग्गुलुश्चेति ।) गुग्गुलु-प्रभेदः तत्पर्य्यायः गन्धराजः स्वर्णकर्णः ३सुवर्णः कनकः वंशपीतः सुरभिः ७पलङ्कषः
अस्य गुणाः कटुत्वम् उष्णत्वम् ।सुगन्धित्वम् वातशूलगुल्मोदराध्मानकफनाशि-त्वम् रसायनत्वञ्च इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
कणगुग्गुलु
पु०
कण--निमीलने अच् कर्म्मधा० महिषाख्य-गुग्गुलौ राजनि० प्रसङ्गात् गुग्गुलुभेदगुणादिकं भावप्र०दर्शितमुच्यते “महिषाख्यो महानीलः कुमुदः पद्म इत्यपि ।हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः भृङ्गाञ्जनसवर्णस्तु महिषाख्य इति स्मृतः महानीलस्तु विज्ञेयःस्वनामसमलक्षणः कुमुदः कुमुदाभः स्यात् पद्मो मा-णिक्यसन्निभः हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्गमीरितम् महिषाख्यो महानीलो गजेन्द्राणां हितावुभौ हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ ।विशेषेण मनुष्याणां कनकः परिकीर्त्तितः कदाचिन्म-हिषाख्यश्च ख्यातः कैश्चिन्नृणामपि गुग्गुलुर्विशदस्तिक्तोवीर्य्योष्णः पित्तलः सरः कषायः कटुकः पाके कटूरूक्षो लघुः परः भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्योरसायनः दीपनः पिच्छिलो बल्यः कफवातव्रणापहः ।मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान्! पिडकाग्रन्थिशोफार्शोगण्डमालाः कृमीन् जयेत्! माधुर्य्याच्छ-मयेद्वातं कषायत्वाच्च पित्तहा तिक्तत्वात् कफजित्तेनगुग्गुलुः सर्वदोषहा! नवो वृंहणो वृष्यः पुराणस्त्वति-लेखनः स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः ।नूतनो गुग्भुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः शुष्कोदुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः पुराणः तु विज्ञेयोगुग्गुलुर्वीर्य्य वर्ज्जितः अम्लं तीक्ष्णामजीर्णञ्च व्यवायंश्रममातपम् मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः”