| YouTube Channel

कठिनं (kaThinaM)

 
शब्दकल्पद्रुमः
Sanskrit
कठिनं, त्रि, (कठ् + इनन् उणादिमते तु इनच् ।“बहुलमन्यत्रापि” उणां ।)कठरम् तत्पर्य्यायः कक्खटम् क्रूरम् ३कठोरम् निष्ठुरम् दृढम् जठरम् मू-र्त्तिमत् मूर्त्तम् इत्यमरः ७६
खक्खटम् १० कठोलम् ११ जरठम् १२ इतितट्टीका
कर्करम् १३ कठरम् १४ इति जटा-धरः
काठरम् १५ कमठायितम् १६ इतिशब्दरत्नावली
स्तब्धम् इति मेदिनी
(“उन्मूलयंश्च कठिनान् नृपान् वायुरिव द्रुमान्” ।कथासरित्सागरे १९ ८९
तथा कुमारे ।“न विदीर्य्ये कठिनाः खलु स्त्रियः”
अपि “भक्ष्यांश्चातिकठिनान् दन्तरोगी विव-र्जयेत्” सुश्रुते
)
कठिनं,
क्ली,
स्त्री,
(कठ् + “बहुलमत्रापि” ।उणां ४९ इति इनच् ।) स्थाली इति मे-दिनीशब्दरत्नावल्यौ