| YouTube Channel

कठि (kaThi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कण्ठ्
मूलधातुः:
कठि
धात्वर्थः:
शोके (आध्यानम्)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कण्ठते
अनुबन्धादिविशेषः:
शोक इह आध्यानम्
धातुः:
कण्ठ्
मूलधातुः:
कठि
धात्वर्थः:
शोके
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
कण्ठयति-ते, कण्ठति-ते
अनुबन्धादिविशेषः:
आधृषीयः, शोक इह आध्यानम्
धातुप्रदीपः
Sanskrit
कठिँ कठि शोके
- कण्ठयति कण्ठति अचकण्ठत् अकण्ठीत् अन्यत्र कण्ठते 291
क्षीरतरङ्गिणी
Sanskrit
कठिँ कठि शोके
- उत्कण्ठयति, उत्कंठति भ्वादौ (1167) उत्कंठते 290
धातुवृत्तिः
Sanskrit
कठिँ कठि (अर्थः) शोके
( कण्ठयति कण्ठति कण्ठिता ) कण्ठतइति शपि कठतीति तु कृछ्रजीवने कठिः प्रायेणोत्पूर्व उत्कण्ठायाम् 305
कृदन्तरूपमाला
Sanskrit
1 {@“कठि शोके”@} 2 ‘--अथ कण्ठते।
शोके यो कण्ठयेत् कण्ठेत्, कठेत् स्यात् कृच्छ्रजीवने।।’ 3 इति देवः।
प्रायेणायमुत्पूर्वक एव प्रयुज्यते।
शोकः = सोत्कण्ठस्मरणम्।
उत्कण्ठामात्रे त्वकर्मकः।
उत्कण्ठकः-ण्ठिका, कण्ठकः-ण्ठिका, उच्चिकण्ठिषकः-षिका, चाकण्ठकः-ण्ठिका
कण्ठिता-त्री, कण्ठयिता-त्री, चिकण्ठिषिता-त्री, चाकण्ठिता-त्री
-- कण्ठयन्-न्ती, कण्ठयिष्यन्-न्ती-ती
4 उत्कण्ठमानः, कण्ठयमानः, चिकण्ठिषमाणः, चाकण्ठ्यमानः
कण्ठिष्यमाणः, कण्ठयिष्यमाणः, चिकण्ठिषिष्यमाणः, चाकण्ठिष्यमाणः
कन्-कण्ठौ-कण्ठः
-- -- -- 5 कण्ठितम्-तः, कण्ठितम्-तः, चिकण्ठिषितः, चाकण्ठितः-तवान्
6 कण्ठः, 7 उत्कण्ठी, कण्ठः, चिकण्ठिषुः, चिकण्ठयिषुः, चाकण्ठः
कण्ठितव्यम्, कण्ठयितव्यम्, चिकण्ठिषितव्यम्, चाकण्ठितव्यम्
कण्ठनीयम्, कण्ठनीयम्, चिकण्ठिषणीयम्, चाकण्ठनीयम्
कण्ठ्यम्, कण्ठ्यम्, चिकण्ठिष्यम्, चाकण्ठ्यम्
ईषत्कण्ठः, दुष्कण्ठः, सुकण्ठः
-- कण्ठ्यमानः, कण्ठ्यमानः, चिकण्ठिष्यमाणः, चाकण्ठ्यमानः
कण्ठः, कण्ठः, चिकण्ठिषः, चाकण्ठः
कण्ठितुम्, कण्ठयितुम्, चिकण्ठिषितुम्, चाकण्ठितुम्
उत्कण्ठा, कण्ठना, चिकण्ठिषा, चिकण्ठयिषा, चाकण्ठा
कण्ठनम्, कण्ठनम्, चिकण्ठिषणम्, चाकण्ठनम्
कण्ठित्वा, कण्ठयित्वा, चिकण्ठिषित्वा, चाकण्ठित्वा
उत्कण्ठ्य, प्रकण्ठ्य, उच्चिकण्ठिष्य, उच्चाकण्ठ्य
कण्ठम् २, कण्ठित्वा २, कण्ठम् २, कण्ठयित्वा २, चिकण्ठिषम् २, चिकण्ठिषित्वा २, चाकण्ठम्
चाकण्ठित्वा २।
प्रासङ्गिक्यः
01
=>
(१४९)
02
=>
(१-भ्वादिः-२६४। अक। सेट्। आत्म।)
03
=>
(श्लो-७९)
04
=>
[[B। ‘अशिश्रवन्नात्ययिकं तमेत्य दूता यदार्थं प्रयियासयन्तः। आंहिष्ट जाताञ्जिहिषस्तदाऽसावुत्कण्ठमानो भरतो गुरूणाम्।।’ भ। का। ३-२५।]]
05
=>
[[C। ‘अनन् कुमार्गेषु शुभाध्वनैव वन् प्रमन् भृशोत्कण्ठितगोपिके हरौ।’ धा। का। १-३५।]]
06
=>
[पृष्ठम्०१४८+ २७]
07
=>
[[१। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः।]]
1 {@“कठि शोके”@} 2 ‘--अथ कण्ठते।
शोके स्यात् कण्ठयेत् कण्ठेत्, कठे स्यात् कृच्छ्रजीवने।।’ 3 इति देवः।
प्रायेणोत्पूर्वः उत्कण्ठार्थकः।
अिदित्त्वात् णिज्विकल्पः।
णिजभावपक्षे उत्कण्ठकः-चिकण्ठिषकः, चाकण्ठकः-इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककण्ठतिवत् 4 ज्ञेयानि।
णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 5 इति शास्त्रात् शतरि उत्कण्ठन्- 6 न्ती, उत्कण्ठिष्यन्-न्ती-ती, इति रूपमिति विशेषः।
ण्यन्तात् सनि तु-- चिकण्ठयिषकः-षिका, चिकण्ठयिषिता-त्री, चिकण्ठयिषन्-न्ती, चिकण्ठयिषिष्यन्-न्ती-ती, चिकण्ठयिषमाणः, चिकण्ठयिषिष्यमाणः, चिकण्ठयिषितः-तवान्, चिकण्ठयिषुः, चिकण्ठयिषितव्यम्, चिकण्ठयिष- णीयम्, चिकण्ठयिष्यम्, चिकण्ठयिष्यमाणः, ईषच्चिकण्ठयिषः, 7 दुश्चिकण्ठयिषः-सुचिकण्ठयिषः, चिकण्ठयिषः, चिकण्ठयिषितुम्, चिकण्ठ- यिषा, चिकण्ठयिषणम्, चिकण्ठयिषित्वा, सञ्चिकण्ठयिष्य, चिकण्ठयिषम् २-- चिकण्ठयिषित्वा २, इत्यादीनि रूपाणि--इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५०)
02
=>
(१०-चुरादिः-१८४८। अक। सेट्। उभ।)
03
=>
(श्लो। ७९)
04
=>
(१४९)
05
=>
(१-३-७८)
06
=>
[[आ। ‘स्त्रियश्चोत्कण्ठन्त्यो ददृशुरजितं मृष्टतनवः नृपस्त्वेतन्नामर्षत रिपुजनाधर्षितबलः।।’ धा। का। ३-५२।]]
07
=>
[पृष्ठम्०१४९+ २६]