| YouTube Channel

कट्फलः (kaTphalaH)

 
Apte
English
कट्फलः [kaṭphalḥ],
N.
of a tree, commonly called कायफळ.
Apte 1890
English
कट्फलः N. of a tree, commonly called कायफळ.
Wordnet
Sanskrit
Synonyms:
कुम्भी, पाटलावृक्षः, वारिपर्णी, कट्फलः, रोमशः, पर्पटद्रुमः
noun
वृक्षविशेषः- अस्य गुणाः कटुत्वं, कषायत्वम्, उष्णत्वं, ग्राहित्वं, वातकफ़हरत्वम्
"कुम्भी राजनिर्घण्टे वर्णिता अस्ति"
Synonyms:
कुम्भी, पाटलावृक्षः, वारिपर्णी, कट्फलः, रोमशः, पर्पटद्रुमः
noun
वृक्षविशेषः- अस्य गुणाः कटुत्वं, कषायत्वम्, उष्णत्वं, ग्राहित्वं, वातकफ़हरत्वम्
"कुम्भी राजनिर्घण्टे वर्णिता अस्ति"
शब्दकल्पद्रुमः
Sanskrit
कट्फलः,
पुं,
(कटति कटुतया अन्यरसमावृणो-तीति कट् + क्विप् कट् फलं यस्य सः ।) स्वनामख्यातफलवृक्षविशेषः कायफल इति भाषा ।तत्पर्य्यायः श्रीपर्णिका कुमुदिका कुम्भी ४कैटर्य्यः इत्यमरः ४०
सोमवल्कः ६६ सोमवृक्षः रोहिणी इति रत्नमाला
कृष्णगर्भः प्रचेतसी १० भद्रावती ११ महा-कुम्भी १२ रामसेनकः १३ कुमुदा १४ उग्रगन्धः१५ भद्रा १६ रञ्जनकः १७ लघुकाश्मर्य्यः १८ श्री-पर्णी १९ काफलः २० परुषः २१ कुमुदी २२ ।इति शब्दरत्नावली
अपि ।“कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि ।श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति
कट्फलस्तुवरस्तिक्तः कटुर्व्वातकफज्वरान् ।हन्ति श्वासप्रमेहार्शःकासकण्ठामयारुचीः”
इति भावप्रकाशः
अस्य गुणाः कटुत्वम् ।उष्णत्वम् कासश्वासज्वरोग्रदाहनाशित्वम् रुचि-कारित्वम् मुखरोगशमप्रदत्वञ्च इति राजनि-र्घण्टः
कफरोगनाशित्वम् इति राजवल्लभः
(“कट्फलः कफरोगघ्नः कासश्वासज्वरापहः”
इति वैद्यकद्रव्यगुणः
)