| YouTube Channel

कटुवर्ग (kaTuvarga)

 
Shabdartha Kaustubha
Kannada
कटुवर्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಟು ರಸವುಳ್ಳ ವಸ್ತುಗಳ ಸಮುದಾಯ /ಕಟುವಸ್ತುಗಳ ಪಂಗಡ
वाचस्पत्यम्
Sanskrit
कटुवर्ग
पु०
कटूनां वर्गः समुदायः सुश्रुतोक्ते कटुरसानांद्रव्यीणां वर्गे वर्गो यथा “पिप्पल्यादिः सुरसादिःशिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिवकुष्ठदेवदारुहरेणु-कावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकोंशुकनासापीलुप्रभृ-तीनि सालसारादिश्च प्रायशः कटुकोवर्गः” तत्र पिप्प-ल्यादिः सुरसादिः सालसारादिश्च तत्रैवोक्तो यथा१ पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्-पलीहरेणुकैलाजमोदेन्द्रयवपाठा जीरकसर्षपमहानिम्बफल-हिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणीचेति” पिप्पल्यादिः “२ सुरसाश्वेतसुरसाफणिज्झकार्जक-भूस्तृणसुगन्धकसुमुखकालमाल कासमर्द्दक्षवकखरपुष्पाविड-ङ्गकट्फलसुरसीनिर्गुण्डीकूलाहलोन्दुरुकर्णिकाफञ्जीप्राची-नामलकाकमाच्यो विषमुष्टिकश्चेति” सुरसादि “३ साल-साराजकर्णखदिरकदरकालस्कन्धक्रमुभूर्जमेषशृङ्गीतिनिश-चन्दनकुचन्दनशिंशपाशिरीषासनधवार्जनतालशाकनक्तमाल-पूतीकाश्वकर्णागुरूणि कालीयकञ्चेति” सालसारादि