| YouTube Channel

कटुपाक (kaTupAka)

 
Spoken Sanskrit
English
कटुपाक kaTupAka
adj.
producing acrid humors in digestion
Monier Williams Cologne
English
कटु—पाक
mfn.
producing acrid humors in digestion,
Suśr.
Shabdartha Kaustubha
Kannada
कटुपाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾರವಾಗುವಂತೆ ಇಳಿಸುವ ಪಾಕ
वाचस्पत्यम्
Sanskrit
कटुपाक
त्रि०
कटुः पाकोऽस्य यस्य पाककाले कटुत्वं१ तादृशद्रव्ये “कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छि-लः” “क्षौमं तैलं बलवहम् कटुपाकमचाक्षुषम्” सुश्रु० ।इत्यादिनानास्थाने दर्शितम् कर्म० कटुरसरूपेण पाके ।तथा पाकश्च भावप्र० दर्शितः “जाठरेणाग्निना योगाद्यदुदेतिरसान्तरम् रसानां परिणामान्ते विपाक इति स्मृतः ।मिष्टः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः (पटुरत्र लवणरसः) “कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः”वाग्भटः “त्रिधा रसानां पाकः स्यात् स्वाद्वम्लकटुकात्मकः”तत्फलमुक्तं भावप्र० “श्लेष्मकृण्म धुरः पाको वातपित्तहरोमतः अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहम् कटुःकरोति पवनं कफं वातन्तु नाशयेत् विशेष एष रसतोविपाकानां निदर्शितः” तथा षण्णामपि रसानां पाकेत्रैविध्यमेव मधुराम्लकटुभेदात् सुश्रुते तु पाकत्रैविध्यंनिराकृत्य द्विधैव पाकः समर्थितः यथा“तस्माद्वीर्य्यं प्रधानमिति नेत्याहुरन्ये विपाकःप्रधानमिति कस्मात्? सम्यङ्मिथ्याविपाकादिह सर्व्वद्रव्या-ण्यभ्यवहृतानि सम्यक् मिथ्या विपक्वानि गुणं दोषं वाजनयन्ति तत्राहुरन्ये प्रतिरसं पाक इति केचि-त्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु सम्यक्भूतगुणादागमाच्चाम्ली विपाको नास्ति पित्तं हि विदग्धमम्लतामुपेत्यग्नेर्मन्दत्वात् यद्येवं लवणोऽप्यन्यः पाकोभविष्यति श्लेष्मा हि विदग्धो लवणतामुपैति मघुरो म-धुरस्याम्लोऽम्लस्यैवं सर्व्वेषामिति केचिदाहुदृष्टान्तं चो-पददिशन्ति यथा तावत् क्षीरं स्थालीगतमभिपच्यमानंमघुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्ण्णाः स्वभाव-मुत्तरकालेऽपि परित्यजन्ति तद्वदिति केचिद्वदन्त्यबल-वन्तोबलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्त-एष आगमे हि द्विविध एव पाकी मधुरः कटुकश्चतयीर्म्मधुराख्यी गुरुः कटुकाख्यो लघुरिति तत्र पृथि-व्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुतालघुता पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्दि-विघ एव पाक इति भवन्ति चात्र द्रव्येषु पच्यमानेषुनेष्वम्बुपृथिवीगुणाः निर्व्वर्त्तन्तेऽधिकास्तत्र पाको म-धुर उच्यते तेजोऽनिलाकाशगुणाः पच्यमानेषु येषुतु निर्व्वर्त्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते” ।कटुपाकोऽस्त्यस्य इनि कटुपाकिन् कटुपाकयुक्ते
त्रि०
स्त्रियां ङीप् “औद्दालकं रुचिकरम्” इत्युपक्रम्य“पित्तकृत् कटुपाकि च” सुश्रुतः कटुविपाकादयोऽप्यत्र