| YouTube Channel

कटुका (kaTukA)

 
Apte
English
कटुका [kaṭukā],
f.
N.
of plant, Picrorrhiza Kurroa (Mar. कुटकी, बाळकडू).
Shabdartha Kaustubha
Kannada
कटुका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕಟುಕರೋಹಿಣಿ
निष्पत्तिः - > कटु - सञ्ज्ञायां "कन्" (५-३-७५)
L R Vaidya
English
kawuka {% (I) a. (f. का) %} 1. Sharp, pungent
2. impetuous, hot
3. displeasing, disagreeable.
शब्दकल्पद्रुमः
Sanskrit
कटुका,
स्त्री,
(कटु + संज्ञायां कन् स्त्रियां टाप् ।)क्षुद्रचञ्चवृक्षः वृक्षविशेषः कट्की इति माषा ।तत्पर्य्यायः जननी तिक्ता रोहिणी तिक्तरोहिणी चक्राङ्गी मत्स्यपित्ता वकुला ।शकुलादनी सादनी १० शतपर्ब्बा ११ द्विजाङ्गी१२ मलभेदिनी १३ अशोकरोहिणी १४ कृष्णा१५ कृष्णभेदी १६ महौषधी १७ कट्वी १८अञ्जनी १९ काण्डरुहा २० कटुः २१ कटुरो-हिणी २२ केदारकटुका २३ अरिष्टा २४ पा-मघ्नी २५ इति राजनिर्घण्टः
कटम्बरा २६कटुम्भरा २७ अशोका २८ इत्यमरः तट्टीकाच
(अस्य गुणाः ।“कटुका कटुका पाके तिक्ता रूक्षा हिमा लघुः ।भेदिनी दीपनी हृद्या कफपित्तज्वरापहा ।प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत्”
इति शब्दार्थचिन्तामणिधृतवैद्यकवचनम्
)अतिकटुत्वम् तिक्तत्वम् शीतत्वम् पित्तरक्त-दाहबलाशारोचकश्वासज्वरनाशित्वम् रुचिका-रित्वञ्च इति राजनिर्घण्टः सारकत्वम् रूक्ष-त्वम् कफनाशित्वञ्च इति राजवल्लभः
ताम्बूली ।इति शब्दचन्द्रिका
कुलिकवृक्षः इति रत्न-माला
वाचस्पत्यम्
Sanskrit
कटुका स्त्री कटु + संज्ञायां कन् (कट्की) कटुरोहिण्याम्, राजनि० ताम्बूल्यां, (पान) शब्दच० राजिकायां, (राइसरिसा) तिक्तालाबुके (तितलाउ) रत्नमा० ।५ कटुरसयुक्तस्त्रियाञ्च तत्र (कट्की) वृक्षस्य पर्य्याय-गुणादि भावप्र० उक्तं यथा “कट्वी तु कटुकातिक्ता कृष्णमेदा कटुम्भरा अशोका मत्स्यशकला च-क्राङ्गी शकुलादनी मत्स्यपित्ता काण्डरुहा रोहिणीकटुरोहिणी कड्गी तु कटुका पाके तिक्ता रूक्षा हिमालघुः भेदिनी दीपिनी हृद्या कफपित्तज्वरापहा ।प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत्”