| YouTube Channel

कटुः (kaTuH)

 
Apte Hindi
Hindi
कटुः
पुं*
- कट्-उ
"तीखापन, तिक्तता, कड़ुवापन"
Wordnet
Sanskrit
Synonyms:
कटुः
noun
क्षुपनामविशेषः
"कटुः इति नामकानां नैकेषां क्षुपाणाम् उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
कटुः,
पुं,
(कटति तीक्ष्णतया रसनां मुखं वा आवृणो-ति यद्वा कटति वर्षति चक्षुर्मुखनासादिभ्यो जलंस्रावयतीति कट् + उन् “कटिवटिभ्यां च” ।उणां ।) सविशेषः इत्यमरः झालइति भाषा
अस्य गुणाः कण्ठजदोषशोथमन्दाग्नि-श्वित्ररोगनाशित्वम् अस्य बहुसेवने क्षयदातृ-त्वम् वीर्य्यबलापहत्वञ्च इति राजनिर्घण्टः
अपि आरोग्यपित्ताग्निवायुकारित्वम् कृमिकण्डुविषरोगस्तनदुग्धमेदःस्थौल्यनाशित्वम् लघु-त्वम् अतिशयभक्षणे श्रमस्थैर्य्यतालुशोषातिदा-हकारित्वञ्च इति राजवल्लभः
(तथा चोक्तम् ।भावप्रकाशे ।“कटूरूक्षः स्तन्यमेदःश्लेष्मकण्डूविषापहः ।वातपित्तकृदाग्नेयः शोषी पाचनरोचकृत्”
अस्य लक्षणं यथाह वाभटः
“उद्वेजयति जिह्वाग्रं कुर्व्वंश्चिमिचिमां कटुः ।स्रावयत्यक्षिना सास्यं कपोलौ दहतीव च”
गुणकर्म्माणि यथा, तत्रैव ।“कटुर्गलामयोदर्द्दकुष्ठालसकशोफजित् ।व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः
दीपनः पाचनो रुच्यः शोषणोऽन्नस्य कर्षणः ।छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः
कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम् ।मूर्च्छामाकुञ्चनं कम्पं कटीपृष्ठादिषु व्यथाम्”
*
कटुको रसो वक्त्रं शोधयति अग्निं दीपयति, भुक्तंशोधयति, घ्राणमास्रावयति, चक्षुर्विरेचयति, स्फुटोकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्द्धा-भिष्यन्द-स्नेह-श्वेद-क्लेदमलानुपहन्ति, रोचयत्य-शनं, कण्डूर्विनाशयति, व्रणानवसादयति, क्रिमीन्हिनन्ति, मांसं विलिखति, शोणितसङ्घातं भि-नत्ति, बन्धाच्छिनत्ति, मार्गान् विवृणोति, श्लेष्माणंशमयति, लघुरुष्णो रूक्षश्च
एवंगुणोऽप्येक-एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पौंस्त्व-मुपहन्ति, रसवीर्य्यप्रभावान्मोहयति, ग्लापयति, सादयति, कर्षयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति शरीरतापमुपजन-यति, बलं क्षिणोति, तृष्णां जनयति, वाष्वग्निबाहु-ल्याद् भ्रम-मद-दवथु-कम्प-तोद-भेदैश्चरण-भुज-पार्श्व-पृष्ठप्रभृतिषु मारुतजान् विकारानुपजन-यति
इति चरकः
) चम्पकवृक्षः इति शब्द-चन्द्रिका
चीनकर्पूरः पटोलः कट्वीलता इतिराजनिर्घण्टः
कटुः,
स्त्री,
(कट्यते कटुत्वेनास्वाद्यते इति कट् +उ ।) कटुकी इत्यमरः
प्रियङ्गुवृक्षः रा-जिका इति विश्वमेदिन्यौ
कटुः, त्रि, (कटति परलक्ष्मीदर्शनेन कृपणतां गच्छ-तीति कट् + उः ।) मत्सरः तीक्ष्णः इत्यमरः ।३ ३५
(यथा, महाभारते पौष्यपर्ब्बणि३ ५५ “क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकै-श्चक्षुष्युपहतोऽन्धो बभूव” ।) कटुरसयुक्तः (यथा, भागवते २६ ४२ ।“कषायो मधुरस्तिक्तः कठ्वम्ल इति नैकधा ।भौतिकानां विकारेण रस एको विभिद्यते”
)सुगन्धिः इति मेदिनी
(यथा, रघुः ४८ ।“सप्तच्छदक्षीरकटुप्रवाह-मसह्यमाघ्राय मदं तदीयम्”
)अप्रियः इति त्रिकाण्डशेषः
(यथा, रघुः ८५“इति समगुणयोगप्रीतयस्त त्र पौराःश्रवणकटु नृपाणामेकवाक्यं विवब्रुः”
)दुर्गन्धः इत्यमरटीकायां स्वामी