| YouTube Channel

कञ्चटं (kaJcaTaM)

 
शब्दकल्पद्रुमः
Sanskrit
कञ्चटं,
क्ली,
(कञ्चते दीप्यते लतादामादिभिः शोभतेइति भावः कचि + अटच् ।) जलजशाकविशेषः ।काँचडादाम इति भाषा तत्पर्य्यायः जलभूः २लाङ्गली इति शब्दचन्द्रिका
शारदी ४तोयपिप्पली शकुलादनी इति रत्नमालाजलतण्डुलीयम् इति भावप्रकाशः
तस्य गुणाः ।श्लेष्मकारित्वम् धारकत्वम् हिमत्वम् पित्तरक्त-नाशित्वम् लघुत्वञ्च इति राजवल्लभः
अपि ।तिक्तत्वम् वायुहरत्वञ्च इति भावप्रकाशः