| YouTube Channel

कज्जलं (kajjalaM)

 
Apte 1890
English
कज्जलं [कुत्सितं जलमस्मात्प्रभवति, कोः कदादेशः] 1 Lamp-black or soot, considered as a collyrium and applied to the eyelashes or eyelids medicinally, or sometimes as an ornament
यथा यथा चेयं चपला दीप्यते तथा तथा दीवशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति K. 105
अद्यापि तां विधृतकज्जललोलनेत्रां Ch. P. 15
°कालिमा Amaru. 88.
2 Sulphuret of lead or antimony (used as a collyrium.)
3 Ink.
ली 1 Sulphuret of mercury, Æthiop's mineral.
2 Ink.
Comp.
ध्वजः a lamp.
रोचकः
कं the wooden stand on which a lamp is placed.
शब्दकल्पद्रुमः
Sanskrit
कज्जलं,
क्ली,
(कु कुत्सितं जलं यस्मात् शुभ्रमपिजलं संयोगात् स्ववर्णत्वं नयतीति यावत् यद्वाकुत्सितं ऊर्द्ध्वगं चक्षुषोर्जलं दूरीभूतं भवत्यस्मात् ।कोः कदादेशः ।) अञ्जनम् इति हेमचन्द्रः
काजल इति भाषा तत्पर्य्यायः लोचकः ।इति त्रिकाण्डशेषः
(“ततः साकारयद्भूरि चेटीभिः कुण्डकस्थितम् ।कस्तूरिकादिसंयुक्तं कज्जलं तैलमिश्रितम्”
इति कथासरित्सागरे ४७
तथा, भाग-वते २७ ।“धिङ्मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम्”
)