| YouTube Channel

कच्छुः (kacchuH)

 
Apte
English
कच्छुः [kacchuḥ] कच्छू [kacchū], कच्छू
f.
Itch, scab.
Comp.
-घ्नी the plant (पटोल
Mar.
कडू पडवळ)
another plant (हपुषाभेद).
Apte 1890
English
कच्छुः
कच्छू f. Itch, scab.
Comp.
घ्नी the plant (पटोल)
another plant (हपुषाभेद).
Apte Hindi
Hindi
कच्छुः
स्त्री*
- "कष्-ऊ, आदेशः, ह्रस्वश्च"
"खुजली, खाज"
Wordnet
Sanskrit
Synonyms:
पामा, पाम, विचर्चिका, कच्छू, कच्छुः
noun
चर्मरोगविशेषः।
"पाम्नि अधिकं कण्डूयते।"
Synonyms:
कण्डुः, कण्डूः, खर्ज्जूः, कच्छूः, कच्छुः, सुकाण्डुः, सृकण्डुः, खसः, पाम
noun
रोगविशेषः यस्मिन् शरीरः कण्डूयते।
"सः कण्डुना त्रस्तः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
कच्छुः,
स्त्री,
(कर्षति देहं कष हिंसायां + “कषच्छ-श्चेति” ८६ उणां छान्तादेशश्च ।) पृषोदरा-दित्वात् वा ह्रस्वः रोगविशेषः तस्य लक्षणम् ।“सूक्ष्मा बह्व्यः पिडकाः स्राववत्यःपामेत्युक्ता कण्डूमत्यः सदाहाः ।सैव स्फोटैस्तीव्रदाहैरुपेताज्ञेया पाण्योः कच्छुरुग्रास्फिचोश्च”
इति निदानम्
तच्चिकित्सा यथा ।“अर्कपत्ररसे पक्वं हरिद्राकल्कसंयुतम् ।नाशयेत् सार्षपं तैलं पामाकच्छुविचर्च्चिकाम्”
इति अर्कतैलम्
“मनःशिलालं कासीसं गन्धाश्मा सिन्धुजन्म ।स्वर्णक्षीरी शिलाभेदी शुण्ठी कुष्ठञ्च मागधी
लाङ्गलीरवींरश्च दद्रुघ्नः कृमिहानलः ।दन्ती निम्बदलञ्चैभिः पृथक् कर्षमितैर्भिषक्
कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितम् ।अर्कसीहुण्डदुग्धेन पृथक् पलमितेन
गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत् ।अभ्यङ्गेन हरेदेतत् कच्छुदुःसाध्यतामपि
पामानञ्च तथा कण्डूं त्वग्व्याधिवधिरामयान् ।कच्छुराक्षसनामेदं तैलं हारीतभाषितम्”
कच्छुराक्षसनाम तैलम्
इति भावप्रकाशः
(“अवल्गुजं कासमर्दं चक्रमर्दं निशायुतम् ।माणिमन्थेन तुल्यांशं मस्तुकाञ्जिकपेषितम् ।कच्छुं कण्डूं जयन्त्युग्रां सिद्धत्रयप्रयोगराट्
कोमलं सिंहास्यदलं सनिशं सुरभिजलेन पिष्टम् ।दिवसत्रयेण नियतं क्षपयति कच्छुं विलेपनतः ।हरिद्राकल्कसंयुक्तं गोमूत्रस्य पलद्वयम् ।पिबेन्नरः कामचारी कच्छुपामाविनाशनम्
शोथपाण्ड्वामयहरी गुल्ममेहकफापहा ।कच्छुपामाहरी चैव पथ्या गोमूत्रसाधिता
*
स्वरसेऽपि दूर्व्वायाः पचेत्तैलं चतुर्गुणम् ।कच्छुर्विचर्चिका-पामा अभ्यङ्गादेव नाशयेत्”
इति दूर्व्वाद्यं तैलम्
*
“सोमराजी हरिद्रे द्वे सर्षपारग्वधं गदम् ।करञ्जवीजैडगजं गर्भं दत्त्वा विपाचयेत्
तैलं सर्षपसम्भूतं नाडीदुष्टव्रणापहम् ।अनेनाशु प्रणश्यन्ति कुष्ठान्यष्टादशैव तु
नीलिकापि पुरोव्यङ्गगम्भीरं वातशोणितम् ।कण्डूकच्छप्रशमनं कच्छुपामा विनाशनम्”
इति सोमराजीतैलम्
*
इति चक्रपाणिकृतसंग्रहः
)