| YouTube Channel

कच्छपः (kacchapaH)

 
Apte Hindi
Hindi
कच्छपः
पुं*
- -
कछुवा
कच्छपः
पुं*
- -
मल्लयुद्ध में एक स्थिति
कच्छपः
पुं*
- -
कुबेर की नौ निधियों में से एक
Wordnet
Sanskrit
Synonyms:
कूर्मः, कच्छपः, कमठः, कामठः, गूढाङ्गः, पञ्चागगुप्तः, पञ्चगुप्तः, कठिनपृष्ठम्, चतुर्गतिः, क्रोडपादः, उद्भटः, स्मरणापत्यतर्पकः
noun
जन्तुविशेषः सः जन्तुः किञ्चिद् दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयति।
"अधुना कच्छपस्य सङ्ख्या न्यूना जाता।"
Synonyms:
कच्छः, नन्दी, नन्दिवृक्षः, कच्छपः, कुठेरकः, तुणिः, तुन्नकः, समासवान्, कान्तलकः, कुबेरः, कुबेरकः, महाकच्छः, तुन्नकः, कुणिः
noun
वृक्षविशेषः अस्य गुणाः तिक्तं पाके कटुग्राही वातलं कफपित्तजित्
"तत्र बहवः कच्छाः सन्ति"
वैजयन्तीकोषः
Sanskrit
Word: कच्छपः
Root: कच्छप
Gender: पुं
Number: all
अर्थः कुबेरस्य विशेषनिधिः
Meaning(s):
One of the nine treasures of Kubéra
Shloka(s):
1|2|60|2 भेदाः पद्मो महापद्मः शङ्खो मकरकच्छपौ॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|60|2 कच्छपः (कच्छप) (पुं) One of the nine treasures of Kubéra कुबेरस्य विशेषनिधिः
Related word(s):
isa_k कुबेरस्य नव विशेषनिधयः
परा_अपरासंबन्धः निधिः
अन्यसंबन्धाः कुबेरः
उपाधि धनम्
शब्दकल्पद्रुमः
Sanskrit
कच्छपः,
पुं,
(कच्छं आत्मनो मुखसम्पुटं पाति हिकिञ्चिद्दृष्ट्वा शरीरे एव मुखसम्पुटं प्रवेशयतिसम्पुटे हि कच्छशब्दः प्रसिद्धः यद्वा कच्छे अनूप-देशे पाति आत्मानं रक्षतीति कच्छ + पा +कर्त्तरि डः ।) स्वनामख्यातजलजन्तुः काछिम् इतिभाषा तत्पर्य्यायः कूर्म्मः कमठः इत्यमरः
१० २१ गूढाङ्गः धरणीधरः कच्छेष्टः ६पल्वलावासः कठिनपृष्ठकः पञ्चसुप्तः ९क्रोडाङ्गः १० इति शब्दरत्नावली
पञ्चनखः ११गुह्यः १२ पीवरः १३ जलगुल्मः १४ इतिजटाधरः अस्य मांसगुणाः ।वातहरत्वम् शुक्रवृद्धिकारित्वम् चक्षुर्हित-त्वम् बलवर्द्धनत्वम् मेधास्मृतिकारित्वम् ।पथ्यत्वम् शोथदोषनाशित्वञ्च तस्य चर्म्म पित्त-नाशकम् पादः कफहारकः अण्डं स्वादु वाजी-करञ्च
(अवतारविशेषः यथाभागवते १० ।“सुरासुरेन्द्रैर्भुजवीर्य्यवेपितंपरिभ्रमन्तं गिरिमङ्गपृष्ठतः ।बिभ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः”
)नन्दीवृक्षः इति राजनिर्घण्टः कुवेरस्य निधि-विशेषः मल्लस्य बन्धविशेषः इति मेदिनी
मदिरायन्त्रविशेषः इति शब्दचन्द्रिका
(ऋषि-विशेषः तु विश्वामित्रपुत्त्रः
यथा हरिवंशे२७ ४७--५०
“विश्वामित्रस्य पुत्त्रास्तु देवराजादयः स्मृताः ।विख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु
देवश्रवाः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ।शालावत्यां हिरण्याक्षो जज्ञे रेणौ तु रेणुमान्
साङ्कतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।मधुच्छन्दादयश्चैव देवलश्च तथाष्टकः
कच्छपः पूरितश्चैव विश्वामित्रस्य वै सुताः ।तेषां ख्यातानि गोत्राणिकौशिकानां महात्मनां”
नागविशेषः यथा महाभारते १२३ ६८ ।“कर्क्कोटकोऽथ सर्पश्च वासुकिश्च मुजङ्गमः ।कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः”
)