| YouTube Channel

कच्चिदध्याय (kaccidadhyAya)

 
Shabdartha Kaustubha
Kannada
कच्चिदध्याय
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಹಾಭಾರತದ ಸಭಾಪರ್ವದ ೫ನೆಯ ಅಧ್ಯಾಯ
वाचस्पत्यम्
Sanskrit
कच्चिदध्याय
पु०
भारतान्तर्गते नारदेन कृतप्रश्नेन भङ्ग्या रा-जनीतिज्ञापके ग्रन्थभेदे भा० सभा० अ०“नारद उवाच कच्चिदर्थाश्च कल्पन्ते धर्म्मे रमतेमना सुखानि चानुभुथन्ते मनश्च विहन्यते कच्चि-दाचरितां पूर्व्वैर्नरदेव! पितामहैः वर्त्तसे वृत्तिमक्षुद्रांधर्म्मार्थसहितां त्रिषु कच्चिदर्थेन वा धर्म्मं धर्म्मेणार्थ-मथापि वा उभौ वा प्रीतिसारेण कामेन प्रबा-धसे कच्चिदर्थञ्च धर्म्मञ्च कामञ्च जयतां वर! विभज्यकाले कालज्ञ! समं वरद! सेवसे कच्चिद्राजगुणैः षड्डिःसप्तोपायांस्तथानघ! बलाबलेन सम्यक् त्वं चतुर्द्दशपरीक्षसे कच्चिदात्मानमन्वीक्ष्य पराँश्च जयतां वर! ।तथा सन्धाय कर्म्माणि अष्टौ भारत! सेवसे कच्चित् प्रकृ-तयः सप्त लुप्ता भरतर्षभ! आढ्यास्तथा व्यसनिनःस्वनुरक्ताश्च सर्व्वशः कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरि-शङ्किताः त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रित तथा ।मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे कच्चिद्वृत्तिमुदासीनेमध्यमे चानुमन्यसे कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधन-क्षमाः कुलीनाश्चानुरक्ताश्च कृतास्ते वीर! मन्त्रिणः वि-ज्यो मन्त्रमूलो हि राज्ञो भवति भारत! कच्चित् संवृत-मन्त्रैस्ते अमात्यैः शास्त्रकोविदैः राष्ट्रं सुरक्षितं तात!शत्रुभिनेविलुप्यते कच्चिन्निद्रावशं नैषि कच्चित् कालेऽपिबुध्यसे कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् कच्चिन्मन्त्र-यसे नैकः कच्चिन्न बहुमिः सह कच्चित्ते मन्त्रितो मन्त्रोन राष्ट्रं परिधावति कच्चिदर्थान् विनिश्चित्य लघुमूलान्महोदयान् क्षिप्रमारभसे कर्त्तुं विघ्नयसि तादृशान् ।कच्चिन्न सर्व्वेकर्म्मान्ताः परोक्षास्ते विशङ्किताः सर्व्वेवा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम् आप्तैरलुब्धैःक्रमिकैस्ते कच्चिदनुष्ठिताः कच्चिद्राजन्! कृतान्येव कृत-प्रायाणि वा पुनः विदुस्ते वीर! कर्म्माणि नानवाप्तानिकानि चित् कच्चित् कारुणिका धर्म्म सर्व्वशास्त्रेषुकोविदाः कारयन्ति कुमाराश्च योधमुख्याश्च सर्वशः ।कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् पण्डि-तो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं परम् कच्चिद्दुर्गाणिसर्वाणि धनधान्यायुधोदकैः यन्त्रैश्च परिपूर्णानि तथाशिल्पिधनुर्द्धरैः एकोऽप्यमात्यो मेधावी शूरो दान्तोविचक्षणः राजानं राजपुत्त्रं वा प्रापयेन्महतीं श्रिय-म् कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च त्रिभि-स्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः कच्चिद्द्वषाम-विदितः प्रतिपन्नश्च सर्वदा नित्योद्युक्तो रिपून् सर्वान्वीक्षसे रिपुसूदन! कच्चिद्विनयसम्पन्नः कुलपुत्त्रो वहु-श्रुतः अनसूयुरसङ्कीर्णः सत्कृतस्ते पुरोहितः ।कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः हुतञ्चहोष्यमाणञ्च काले वेदयते सदा कच्चिदङ्गेषु निष्णातोज्यौतिषः प्रतिपादकः उत्पातेषु हि सर्वेषुं दैवज्ञःकुशलस्तव कच्चिन्मुख्या महत्स्वेव मध्यमेषु मध्य-माः जघन्याश्च जधन्येषु भृत्याः कर्म्मसु योजिताः ।अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् श्रेष्ठान्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्म्मसु कच्चिन्नोग्रेणदण्डेन भृशमुद्विजसे प्रजाः राष्ट्रं तवानुशासन्तिमन्त्रिणो भरतर्षभ! कच्चित्त्वां नावजानन्ति याजकाःपतितं यथा उग्रं प्रतिग्रहीतारं कामयानमिवस्त्रियः कच्चिददुष्टः शूरश्च मतिमान् धृतिमान् शुचिः ।कुतीनश्चानुरक्तश्च दक्षः सेनापतिस्तव कच्चिद्बलस्य तेमुख्याः सर्वयुरविश्यरदाः धृष्टावदाता विक्रान्तास्त्वयासत्कृत्य मानिताः कच्चिद्बलस्य भक्तञ्च वेतनञ्च यथो-चितम् संप्राप्तकाले दातव्यं ददासि विकर्षसि ।कालातिक्रमणादेते भक्तवेतनयोर्भृताः भक्तैः कुर्वन्तिदौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः कच्चित् सर्वेऽनु-रक्तास्त्वां कुलपुत्राः प्रधानतः हृष्टाः पाणांस्तवार्थेषुसंत्यजन्ति सदा युधि कच्चिन्नैको वहूनर्थान् सर्वशःसाम्पारायिकान् अनुशास्ति यथाकामं कामात्मा शास-नातिगः कच्चित् पुरुषकारेण पुरुषः कर्म्म शोभयन् ।लभते मानमधिकं भूयो वा भक्तवेतनम् कच्चिद्विद्या-विनीतांश्च नरान् ज्ञानविशारदान् यथार्हं गुणतश्चैवदानेनाभ्युपपद्यसे कच्चिद्दारान् मनुष्याणां तवार्थेमृत्युमीयुषाम् व्यसनं चाप्युपेतानां बिभर्षि भरतर्षभ! ।कच्चिद्भयादुपगां क्षीणं वा रिपुमागतम् युद्ध्वा वाबिजितं पार्थ पुत्रवत् परिरक्षसि कच्चित्त्वमेवं सर्वस्याःपृथिव्याः पृथिवीपते! समश्चानभिशङ्कश्च यथा मातायथा पिता कच्चिद्व्यमनिनं शत्रुं निशम्य भरतर्षभ! ।अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् यात्रामार-भसे दिष्ट्या प्राप्तकालमरिन्दम! पार्ष्णिमूलञ्च विज्ञायव्यवसायं पराजयम् बलस्य महाराज! दत्त्वा वेत-नमग्रतः कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप! ।उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः कच्चिदात्मा-नमेवाग्रे विजित्य विजितेन्द्रियः परान् जिगीषसेपार्थ! प्रमत्तानजितेन्द्रियान् कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः साम दानञ्च भेदश्च दण्डश्चविधिवद्गुणाः कच्चिन्मूलं दृढं कृत्वा परान् यासिविशाम्पतेः तांश्च विक्रमसे जेतुं जित्वा परिरक्षसि ।कच्चिदष्टाङ्गसंयुक्ता चतुर्व्विधबला चमूः बलमुख्यैः सु-नीता ते द्विषतां प्रतियाधिनी कच्चिल्लवञ्च मुष्टिञ्च पर-राष्ट्रे परन्तप! अविहाय महाराज! निहंसि समरेरिपून् कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव अ-र्थान् समधितिष्ठन्ति रक्षन्ति परस्परम् कच्चिदभ्य-वहार्य्याणि गात्रसंघर्षणानि घ्रेयाणि महाराज!रक्षन्त्यनुमतास्तव कच्चित् कोषश्च कोष्ठञ्च वाहनं द्वारमायुधम् आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः क-च्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते! रक्षस्यात्मानमे-वाग्रे तांश्च स्वेभ्यो मिथश्च तान् कच्चिन्न पाने द्यूतेवा क्रीडासु प्रमदासु प्रतिजानन्ति पूर्व्वाह्णे व्ययंव्यसनजं तव कच्चिदायस्य चार्द्धेन चतुर्भागेण वा पुनः ।पादभागैस्त्रिभिर्व्वापि व्ययः संशोध्यते तव कच्चिज्-ज्ञातीन् गुरून् वृद्धान्बणिजः शिल्पिनः श्रितान् अभी-क्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् कच्चिच्चायव्ययेयुक्ताः सर्व्वेगनाकलेखकाः अनुतिष्ठन्ति पूर्व्वाह्णे नित्य-मायव्ययं तव कच्चिदर्थेष्वसंमूढान् हितकामाननुप्रियान् ।नापकर्षसि कर्म्मभ्यः पूर्व्वमप्राप्य किल्वषम् कच्चिद्विदित्वापुरुषानुत्तमाधममध्यमान् त्वं कर्म्मस्वनुरूपेषु नियो-जयसि भारत! कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशा-म्पते! अप्राप्तव्यवहारा वा तव कर्मस्वनिष्ठिताः क-च्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीवशेन वा त्वया वा यी-ड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः कच्चिद्राष्ट्रे तडागानिपूर्णानि वृहन्ति भागशी विनिविष्टानि कृषि-र्देवमातृका कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति ।पादकञ्च शतं वृद्ध्या ददास्स्यृणमनुग्रहम् कच्चित् स्वनु-ष्ठिता तात! वार्त्ता ते साधुभिर्ज्जनैः वार्त्तायां संश्रित-स्तात लोकोऽयं सुखमेधते कच्चिच्छूराः कृतप्रज्ञाः पञ्चपञ्च स्वनुष्ठिताः क्षेमं कुर्व्वन्ति संहत्य राजन्! जनपदेतव कच्चिन्नगरगुप्त्तर्थं ग्रामा नगरबत् कृताः ग्राम-वच्च कृताः प्रान्तास्त सर्वे त्वदर्पणाः कच्चिद्बलेनानु-गताः समानि विषमाणि पुराणि चौरा निघ्नन्त-श्चरन्ति विषये ते कच्चित् स्त्रियः सान्त्वयसि कच्चि-त्ताश्च सुरक्षिताः कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं नभामसे कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य ।प्रियाण्यनुभवन् शेषे त्वमन्तःपुरे नृप! काच्चत् द्वौप्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते! सचिन्तयसिधर्म्मार्थौ याम उत्थाय पश्चिमे कच्चिद्दर्शयसे नित्यं मनु-ष्यान् समलङ्कृतः उत्थाय काले कालज्ञैः सह पाण्डव!मन्त्रिभिः कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः ।उपासते त्वामभितो रक्षणार्थमरिन्दम! कच्चिद्दण्ड्येषुयमवत् पूज्येषु विशाम्पते! परीक्ष्य वर्त्तसे सम्यग-प्रियेषु प्रियेषु कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा ।मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि कच्चिद्वैद्याश्चि-कित्सायामष्टाङ्गायां विशारदाः सुहृदश्चानुरक्ताश्च श-रीरे ते हिताः सदा कच्चिन्नु लोभान्मोहाद्वा माना-द्वापि विशम्पते! अर्थिप्रत्यर्थिनः प्राप्तान्न पश्यसि कथ-ञ्चन कच्चिन्न लोभान्मोहाद्वा विश्रम्भात् प्रणयेन वा ।आश्रितानां मनुष्याणां घृत्तिं त्वं संरुणत्सि वै कच्चित्पौरा सहिता ये ते राष्ट्रवासिनः त्वया सह विरु-ध्यन्ते परैः क्रीताः कथञ्चन कच्चिन्न दुर्बलः शत्रुर्बलेनपरिपोडितः मन्त्रेण बलवान् कच्चिदुभाभ्याञ्च कथञ्चन ।कच्चित् सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वयादृताः कच्चित्ते सर्वविद्यासुगुणतोऽर्च्चा प्रवर्त्तते ब्राह्मणानाञ्च साधूनां तव नैः-श्रेयसी शुभा कच्चिद्धर्मे त्रयीमूले पूर्व्वैराचरिते जनैः ।यतमानस्तथा कर्त्तुं तस्मिन् कर्मणि वर्त्तसे कच्चित्तवगृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः गुणवन्ति गुणो-पेतास्तवाध्यक्षं सदक्षिणम् कच्चित् क्रतूनेकचित्तो वाज-पेयांश्च सर्वशः पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्त्तु-सात्मवान् क्वच्चिज्ज्ञातीग् गुरून् वृद्धान् देवतास्ताप-सानपि चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च नम-स्यसि कच्चिच्छोको नु मन्युर्व्वा त्वया प्रोत्साद्यतेऽनघ! ।अपि मङ्गलहस्तश्च जनः पार्श्वेऽनुतिष्ठति कच्चिदेषा चते युद्धिर्व्वुत्तिरेषा तेऽनघ आयुष्या यशस्या चधर्म्मकामार्थदर्शिनी एतया वर्त्तमानस्य बुद्ध्वा राष्ट्रंन सीदति विजित्य महीं राजा सोऽत्यन्तं सुख-मेधते कच्चिदार्य्यो विशुद्धात्मा क्षारितश्चौरकर्म्मणि ।अदृष्टशास्त्रकुशलैर्न लोभानुध्यसे शुचिः दृष्टो गृहीत-स्तत्कारी तज्ज्ञैर्दृष्टः सकारणः कच्चिन्न मुच्यते स्तेनोद्रव्यलोभान्नरर्षभ! उत्पन्नान् कच्चिदाढ्यस्य दरिद्रस्य चभारत अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ।नास्तिक्यमनृतं क्रोधं प्रमादं दीर्थसूत्रताम् अदर्शनंज्ञानवतामालस्यङ्क्षिप्तचित्तताम् एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम निश्चितानामनारम्भं मन्त्रस्यापरिरक्ष-णम् अमङ्गल्यप्रयोगञ्च प्रसङ्गं विषयेषु कच्चित्त्वंवर्ज्जयस्येतान्राजदोषांश्चतुर्द्दश प्रायशो यैर्विनश्यन्तिकृतमूला हि पार्थिवाः कच्चित्ते सफला वेदाः कच्चित्तेसफलं धनम् कच्चित्ते सफला दाराः कच्चित्ते सफलंश्रुतम् युधिष्ठिर उवाच कयं वै सफला वेदाः कथंवै सफलं धनम् कथं वै सफला दाराः कथं वै सफलंश्रुतम् नारद उवाच अग्निहोफला वेदा दत्तभुक्त-फलं धनम् रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ।वैशम्पायन उवाच एतदाख्याय मुनिर्नारदो वै महा-तपाः पप्रच्छानन्तरमिदं धर्म्मात्मानं युधिष्ठिरम् ।नारद उवाच कच्चिदभ्यागता दूराद्बणिजो लाभकार-णात् यथोक्तमवहार्य्यन्तं शुल्कं शुल्कोपजीविभिः ।कच्चित्ते पुरुषा राजन् पुरे राष्ट्रे मानिताः उपान-यन्ति पण्यानि उपधाभिरवञ्चिताः कच्चिच्छृणोषि वृ-द्धानां धर्म्मार्थसहिता गिरः नित्यमर्थविदां तात! तथाधर्मार्थदर्शिनाम् कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु ।धर्मार्थञ्च द्विजातिभ्यो दीयेते मधुसर्पिषी द्रव्योपकरणंकिञ्चित् सर्वदा सर्वशिल्पिनाम् चातुर्मास्यावरं सम्यक् नियतं संप्रयच्छसि कच्चित् कृतं विजानीषे कर्त्ता-रञ्च प्रशंससि सतां मध्ये महाराज! सत्करोषि पूज-यन् कच्चित् सूत्राणि सर्व्वाणि गृह्णासि भरतर्षभ! ।हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो कच्चिद-भ्यस्यते सम्यग्गृहे ते भरतर्षभ! धनुर्व्वेदस्य सूत्रं वैयन्त्रसूत्रञ्च नागरम् कच्चिदस्त्राणि सर्व्वाणि ब्रह्मदः-ण्डश्च तेऽनघ विषयोगास्तथा सर्व्वे विदिताः शत्रु-नाशनाः कच्चिदग्निभयाच्चैव सर्व्वं व्यालभयात्तथा ।रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि कच्चिदन्धांश्चमूकांश्च पङ्गून् व्यङ्गानबान्धवान् पितेव पासि धर्म्मज्ञ!तथा प्रव्रजितानपि षडनर्था महाराज! कचिचत्तेपृष्ठतः कृताः निद्रालस्यं भयं क्रोधो मार्द्दवं दीर्घ-सूत्रता वैशम्पायन उवाच एताः कुरूणामृषभोमहात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य प्रणम्य पादाव-भिवाद्य तुष्टो राजाब्रवीन्नारदं देवरूप्रम् युधिष्ठिरउवाच एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मेभूय एवाभिवृद्धा उक्त्वा तथा चैव चकार राजा लेभेमहीं सागरमेखलाञ्च”