| YouTube Channel

कचि (kaci)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कञ्च्
मूलधातुः:
कचि
धात्वर्थः:
दीप्ति-बन्धनयोः
गणः:
भ्वादिः
कर्मकत्वं:
दीप्तौ अकर्मकः, बन्धने सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कञ्चते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
कचिँ कचि दीप्ति, बन्धनयोः
- कञ्चते चकञ्चे गौरादित्वान् ङीष् काञ्ची ल्युट् काञ्चनम् उभयत्राप्यन्येषामपि दृश्यते (6/3/37) इति दीर्घः (38) दीप्तौ चेति वक्तव्ये बन्धनग्रहणं विस्पष्टार्थम् ।। 167 ।।
क्षीरतरङ्गिणी
Sanskrit
कचिँ कचि दीप्ति, बन्धनयोः
कञ्चते, कञ्च्यते काञ्चनम् काञ्चिकम् काञ्ची आद्यः कचिरिदित् परस्त्वनिदिदित्येके 169
धातुवृत्तिः
Sanskrit
कचिँ कचि
मानकरूपान्तरम् - काचिँ
काचि (अर्थः) दीप्ति, बन्धनयोः
( कञ्चते चकञ्चे कञ्चिता काञ्चत ) इत्यादि( कञ्चुकः ) बाहुलकादुकः प्रत्ययः ( काञ्चनम् ) अनुदात्तेत्त्वाद्युच् काञ्चनस्य विकारः ( काञ्चनम् ) "प्राणिरजतादिभ्योञ्'' इति रजतादित्वादञ् "नित्यं वृद्धशरादिभ्यः' इति मयटोपवादः ( काञ्चिः काञ्ची ) इन्नन्तात् कृदिकारादक्तिनः'' इति वा ङीष् ( काञ्चिकम् ) संज्ञायां कल्कने कन् दीप्तौ चेति वक्तव्ये बन्धनग्रहणं प्रपञ्चार्थम् 168
कृदन्तरूपमाला
Sanskrit
1 {@“कचि दीप्तिबन्धनयोः”@} 2 3 कञ्चकः-ञ्चिका, कञ्चकः-ञ्चिका, चिकञ्चिषकः-षिका, 4 चाकञ्चकः-ञ्चिका
कञ्चिता-त्री, कञ्चयिता-त्री, चिकञ्चिषिता-त्री, चाकञ्चिता-त्री
-- कञ्चयन्-न्ती, कञ्चयिष्यन्-न्ती-ती, -- प्रनिकञ्चमानः, कञ्चयमानः, चिकञ्चिषमाणः, चाकञ्च्यमानः
कन्-कञ्चौ-कञ्चः
-- -- -- कञ्चितम्-तः, कञ्चितम्-तः, चिकञ्चिषितः, चाकञ्चितः-तवान्
कञ्चः, कञ्चः, चिकञ्चिषुः, चिकञ्चयिषुः, चाकञ्चः
कञ्चितव्यम्, कञ्चयितव्यम्, चिकञ्चिषितव्यम्, चाकञ्चितव्यम्
कञ्चनीयम्, कञ्चनीयम्, चिकञ्चिषणीयम्, चाकञ्चनीयम्
5 कञ्च्यम्, कञ्च्यम्, चिकञ्चिष्यम्, चाकञ्च्यम्
ईषत्कञ्चः, दुष्कञ्चः, सुकञ्चः
-- -- कञ्च्यमानः, कञ्च्यमानः, चिकञ्चिष्यमाणः, चाकञ्च्यमानः
कञ्चः, कञ्चः, चिकञ्चिषः, चाकञ्चः
कञ्चितुम्, कञ्चयितुम्, चिकञ्चिषितुम्, चाकञ्चितुम्
6 कञ्चा, कञ्चना, चिकञ्चिषा, चिकञ्चयिषा, चाकञ्चा
कञ्चनम्, कञ्चनम्, चिकञ्चिषणम्, चाकञ्चनम्
कञ्चित्वा, कञ्चयित्वा, चिकञ्चिषित्वा, चाकञ्चित्वा
7 प्रकञ्च्य, प्रकञ्च्य, प्रचिकञ्चिष्य, प्रचाकञ्च्य
कञ्चम् २, कञ्चित्वा २, कञ्चम् २, कञ्चयित्वा २, चिकञ्चिषम् २, चिकञ्चिषित्वा २, चाकञ्चम्
चाकञ्चित्वा
कञ्चुकम्।
8
प्रासङ्गिक्यः
01
=>
(१४५)
02
=>
(१-भ्वादिः-१६९। सक। सेट्। आत्म।)
03
=>
[[१। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
04
=>
[[२। ‘अतो लोपः’ (६-४-४८) इति अकारलोपः। ‘यस्य हलः’ (६-४-४९) इति यङो यकारस्य लोपः।]]
05
=>
[[३। निष्ठायां सेट्त्वात् ‘चजोः--’ (७-३-५२) इति कुत्वं न।]]
06
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति अः प्रत्ययः।]]
07
=>
[पृष्ठम्०१४५+ २९]
08
=>
[[आ। बाहुलकात् उकप्रत्ययः। ‘कञ्चुको वारबाणे स्यान्निर्मोके कवचेऽपि च। वर्धा- पकगृहीताङ्गस्थितवस्त्रे चोलके।। कञ्चुक्योषधिभेदे च--’ इति मेदिनी। ‘सुलोचना यत्र शचीसमप्रभा अशाश्वचुः श्वञ्चितसौरभाः कचे। सकञ्चुकाः काञ्चनकाञ्चिभूषिता व्रजाङ्गना निर्मचनेन नर्मणा।।’ धा। का। १-२३।]]