| YouTube Channel

कङ्गुका (kaGgukA)

 
शब्दकल्पद्रुमः
Sanskrit
कङ्गुका,
स्त्री,
(कं सुखं अङ्गयति प्रापयति ज्ञापयतिवा अगि गतौ ण्यन्तान् मृगय्वादित्वात् कुःइदित्वात् नुम् शकन्ध्वादित्वात् अलोपे सन्धिः ।स्वार्थे कन् ततष्टाप् ।) कङ्गुः अस्य गुणाः ।धातुशोषणत्वम् पित्तश्लेष्मनाशित्वम् रूक्षत्वम् ।वायुवर्द्धकत्वम् पुष्टिकारित्वम् गुरुत्वम् भग्न-सन्धानकारित्वञ्च इति राजवल्लभः