| YouTube Channel

कख (kakha)

 
शब्दसागरः
English
कख r. 1st cl. (ए) कखे (कखति) To laugh, to laugh at or deride
also
कक्ख and खक्ख q. v.
Wilson
English
कख r. 1st cl. (ए) कखे (कखति) To laugh, to laugh at or
deride
also कक्ख and खक्ख q. v.
शब्दकल्पद्रुमः
Sanskrit
कख हासे इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) एदित् घटादिः इति वोपदेवः ।पाणिनीमते तु एदित्वं तेन अकखीत् अकाखीत् इति स्यात् ।) कखयति अकखीत् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
कख हासे
भ्वा०
पर०
अक० सेट् एदित् घटादि वोपदेवः ।कखति एदित्त्वात् अकखीत् चकाख णिच् कखयति ।पा० मते नास्य एदित्त्वं तेन अकखीत्--अकाखीत् इति-भेद वा तन्मते घटादि तेन काखयत्येव कादि-त्वात् प्रनिकखति इत्यादौ णत्वम्
धातुवृत्तिः
Sanskrit
कखँ कख (अर्थः) हसने
( कखति चकाख कखितेत्यादि अकखीत् अकाखीत् ) "अतो हलादेः'' इति वा वृद्धिः 117
कृदन्तरूपमाला
Sanskrit
1 {@“कख हसने”@} 2 काखकः-खिका, काखकः-खिका, चिकखिषकः-षिका, चाकखकः-खिका
कखिता-त्री, काखयिता-त्री, चिकखिषिता-त्री, चाकखिता-त्री
कखन्- 3 न्ती, काखयन्-न्ती, चिकखिषन्-न्ती
-- कखिष्यन्-न्ती-ती, काखयिष्यन्-न्ती-ती, चिकखिषिष्यन्-न्ती-ती
-- काखयमानः, काखयिष्यमाणः, चाकखमानः, चाकखिष्यमाणः
कक्-कखौ-कखः
-- -- कखितं-तः, काखितः-तम्, चिकखिषितः, चाकखितः-तवान्
कखः, काखः, चिकखिषुः, चिकाखयिषुः, चाकखः
कखितव्यम्, काखयितव्यम्, चिकखिषितव्यम्, चाकखितव्यम्
प्रनिकखनीयम्, काखनीयम्, चिकखिषणीयम्, चाकखनीयम्
काख्यम्, काख्यम्, चिकखिष्यम्, चाकख्यम्
ईषत्कखः, दुष्कखः, सुकखः
-- -- कख्यमानः, काख्यमानः, चिकखिष्यमाणः, चाकख्यमानः
4 काखः, काखः, चिकखिषः, चाकखः
कखितुम्, काखयितुम्, चिकखिषितुम्, चाकखितुम्
कक्तिः, काखना, चिकखिषा, चिकाखयिषा, चाकखा
5 प्रकखणम्, काखनम्, चिकखिषणम्, चाकखनम्
कखित्वा, काखयित्वा, चिकखिषित्वा, चाकखित्वा
प्रकख्य, प्रकाख्य, प्रचिकखिष्य, प्रचाकख्य
काखम् २, कखित्वा २, काखम् २, काखयित्वा २, चिकखिषम् २, चिकखिषित्वा २, चाकखम्
चाकखित्वा २।
प्रासङ्गिक्यः
01
=>
(१४१)
02
=>
(१-भ्वादिः-१२०। सक। सेट्। पर।)
03
=>
[[आ। ‘अफक्कतातक्यगुणेन तङ्कता खलश्वबुक्कापरुषे पुरेऽमुना। फेनैः कखन्तीमिव तां कलिन्दजां सन्तीर्य बृन्दावनमैक्ष्यनोखितम्।।’ धा। का। १-१७।]]
04
=>
[पृष्ठम्०१४२+ २५]
05
=>
[[१। ‘कृत्यचः’ (८-४-२९) इति णत्वम्।]]