| YouTube Channel

ककुद्मान् (kakudmAn)

 
Wordnet
Sanskrit
Synonyms:
वृषभः, ऋषभः, वृषः, पुङ्गवः, बलीवर्दः, उक्षा, सौरभेयः, गोनाथः, ककुद्मान्, भद्रः, उस्रः
noun
नरजातीयः गौः यं कृषकः यानादिभिः युनक्ति।
"वृषभः कृषकस्य कृते अतीव उपयुक्तः अस्ति।"
Synonyms:
ककुद्मान्
noun
एकः औषधीयः क्षुपः
"ककुद्मतः उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
ककुद्मान् [त्]
पुं,
(ककुदस्यास्तीति मतुप् इति“मादुपधायाश्च मतो र्वो यवादिभ्यः” ।न मस्य वकारत्वम् ।) वृषः इति हेमचन्द्रः
(यथा, कुमारे ५६ ।“तुषारसंघातशिलाः खुराग्रैःसमुल्लिखन् दर्पकलः ककुद्मान्”
)पर्व्वतः इत्यमरटीकायां स्वामी
(यथा, विष्णुपुराणे २७ ।“ककुद्मान् पर्ब्बतबरः सरिन्नामानि मे शृणु”
)ऋषभौषधम् इति राजनिर्घण्टः
अत्र क्वचिदप-वादविषयेऽप्युत्सर्गोऽभिनिविशते इति न्यायात्वतुप्राप्तौ मतुप्रत्ययः
इति मुग्धबोधमतम्
(ऊर्म्मिः यथा, यजुर्व्वेदे ।“ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्”
)