ककि (kaki)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit कङ्क्
ककि
गतौ
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
कङ्कते
इदित्
धातुप्रदीपः
Sanskritककिँ ककि
मानकरूपान्तरम् - वकिँ
वकि
मानकरूपान्तरम् - श्वकिँ
श्वकि
मानकरूपान्तरम् - त्रकिँ
त्रकि
मानकरूपान्तरम् - ढौकृँ
ढौकृ
मानकरूपान्तरम् - त्रौकृँ
त्रौकृ
मानकरूपान्तरम् - ष्वक्वँ
ष्वक्व
मानकरूपान्तरम् - वस्कँ
वस्क
मानकरूपान्तरम् - मस्कँ
मस्क
मानकरूपान्तरम् - तिकृँ
तिकृ
मानकरूपान्तरम् - टिकृँ
टिकृ
मानकरूपान्तरम् - टीकृँ
टीकृ
मानकरूपान्तरम् - रघिँ
रघि
मानकरूपान्तरम् - लघिँ
लघि गत्यर्थाः
- कङ्कते । कङ्कः । वङ्कते । वङ्कः । श्वङ्कते । त्रङ्कते । ढौकते । अडुढौकत् । त्रौकते । अतुत्रौकत् । ष्वक्वते । ष्वाष्वक्व्यते । सुब्धातुष्ठितुष्वक्वतीनां प्रतिषेधो वक्तव्य (6/1/64) इति धात्वादेः षकारस्य सत्वप्रतिषेधात् सत्वन्न भवति (29) । वस्कते । मस्कते । तेकते । अतितेकत् । तिकः । तिकादित्वात् फिञ्-तैकायनिः । टेकते । अटिटेकत् ।टीकते ।अटिटीकत् । टीका । रङ्घते । ररङ्घे । लङ्घते । ललङ्घे । लङ्घिवंह्योर्नलोपश्च (उण्, 1/29) इत्युप्रत्ययः-लघुः बालमूललघ्वङ्गुलीनां वा लो रत्वमापद्यत (8/2/18 वा) इति रपक्ष रघुः ।। 93-106 ।।
क्षीरतरङ्गिणी
Sanskritककिँ ककि
मानकरूपान्तरम् - श्वकिँ
श्वकि
मानकरूपान्तरम् - त्रकिँ
त्रकि
मानकरूपान्तरम् - ढौकृँ
ढौकृ
मानकरूपान्तरम् - त्रौकृँ
त्रौकृ
मानकरूपान्तरम् - ष्वक्कँ
ष्वक्क
मानकरूपान्तरम् - वस्कँ
वस्क
मानकरूपान्तरम् - मस्कँ
मस्क
मानकरूपान्तरम् - टिकृँ
टिकृ
मानकरूपान्तरम् - टीकृँ
टीकृ
मानकरूपान्तरम् - रघिँ
रघि
मानकरूपान्तरम् - लघिँ
लघि गत्यर्थाः
कङ्कते कङ्कः श्वङ्किस्तालव्यादिः ढौकते, अडुढौकत् टौकृ इति दुर्गः - टौकते ष्वक्कते सुब्धातुष्ठिवुष्वक्कीनाम् प्रतिषेधात् सत्त्वाभावः टेकते टीकते, अटिटीकत् रङ्घते बाहुलकात रघुः लङ्घते लङ्घिवंह्योर्नलोपश्च (उ0129) इति लघु चुरादौ भासार्थौ (10223) रङ्घयति, लङ्घयति 92-103
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritककिँ ककि
मानकरूपान्तरम् - वकिँ
वकि
मानकरूपान्तरम् - श्वकिँ
श्वकि
मानकरूपान्तरम् - त्रकिँ
त्रकि
मानकरूपान्तरम् - ढौकृँ
ढौकृ
मानकरूपान्तरम् - त्रौकृँ
त्रौकृ
मानकरूपान्तरम् - ष्वष्कँ
ष्वष्क
मानकरूपान्तरम् - वस्कँ
वस्क
मानकरूपान्तरम् - मस्कँ
मस्क
मानकरूपान्तरम् - टिकृँ
टिकृ
मानकरूपान्तरम् - टीकृँ
टीकृ
मानकरूपान्तरम् - रघिँ
रघि
मानकरूपान्तरम् - लघिँ
लघि (अर्थः) गत्यर्थाः
( कङ्कते चकङ्के कङ्कितेत्यादि वङ्कते ववङ्के वङ्कितेत्यादि प्रवङ्कनम् प्राङ्कनम् ) "कृत्यचः'' इति णत्वम् "इजादेः सनुमः'' इति नियमान्न भवति ( कङ्तम् ) बाहुलकादतच् कङ्कत एव कङ्कतिका संज्ञायां कनि टापि "प्रत्ययस्थात्'' इतीत्वम् ( श्वङते शश्वङ्के श्वङ्किता त्रङ्कते तत्रङ्के त्रङ्किताढौकतेडुढौके ढौकिता त्रौकते तुत्रौके त्रौकिता ष्वष्कते ष्वष्किता ) [ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः ] इति सत्वनिषेधः ( वस्कते ववस्के वस्किता मस्कते ममस्के मस्किता टेकते टिटिके टेकिता "असंयोगाल्लिट् कित्'' इति कित्त्वान्न गुणः ( टीकते टिटीके टीकिता रङ्घते ररङ्घे रङ्घिता लङ्घते ललङ्घे लङ्घितेत्यादि ) ढौकतित्रौकत्योर्यङ्लुकोरभ्यासस्य हस्वे गुणः न च ह्रस्वस्य "दीर्घोकितः'' इत्यनेन बाधः "अभ्यासविकारेष्वपवादा नोत्सर्गान् विधीन् बाधन्त' इति तत्राकित इत्यनेन ज्ञापितत्वात् अस्ति च्च दीर्घस्य दीर्घत्वे प्रयोजनं स्वस्वनिवृत्तिः कृते तु हस्वे तस्य दीर्घ ऊकारो न भवति, "गुणो यङ्लुकोः'' इत्यस्य निर्विषयत्वप्रसङ्गात् ढौकतित्रौकतिटेकतिटीकतीनामृदित्त्वाण्णौ चङ्युपधाया हस्वाभावः ( अडुढौकत् अतुत्रौकत् अटिटेकत् अटिटीकदित्याह ) लघु "लङ्घिबंह्योर्नलोपश्च'' इतृयुप्रत्ययनलोपौ (लघिमा) ( सूत्रम्) पृथ्वादिभ्य इमनिज्वा (इति सूत्रम्) इति भावकर्मणोरिमनिच् इतीष्टेमेयस्सु लोपः वाग्रहणात् ( सूत्रम्) इगन्ताच्च लघुपूर्वात् (इति सूत्रम्) इति अणि लाघवमिति, लघुपूर्वान्तादिति सूत्रार्थः रघुः "बालमूललघ्वङ्गलीनां वा लो रत्वमापद्यते'' इति पक्षे लकारस्य रेफः श्वङ्कतिः संमतायां दन्त्यादिः पठ्यते अत्र दण्डके तिकृ तीकृ इति क्कचित्पठ्येते, तदपि तिकः प्रतीक इति दर्शनाद् ग्राह्यमेव, इगुपधलक्षणकान्तौ तिकस्यापत्यं, ( तैकायनिः ) "तिकादिभ्यः फिञ् फस्यायनादेशः तैकायनयश्च कैतवायनयश्च कितकितवाः ( सूत्रम्) तिककितवादिभ्यो द्वन्द्वे (इति सूत्रम्) इति द्वन्द्वे बहुषु फिञो लुक् लघि भोजननिवृत्तौ चेति स्वाम्यादय लघि शोषण इत्यग्रे भाषार्थोयं चुरादौ 106
कृदन्तरूपमाला
Sanskrit1 {@“ककि गतौ”@} 2 कङ्ककः-ङ्किका, कङ्ककः-ङ्किका, चिकङ्किषकः-षिका, चाकङ्ककः-किका
कङ्किता-त्री, कङ्कयिता-त्री, चिकङ्किषिता-त्री, चाकङ्किता-त्री
-- कङ्कयन्-न्ती, कङ्कयिष्यन्-न्ती-ती
-- कङ्कमानः, कङ्कयमानः, चिकङ्किषमाणः, चाकङ्क्यमानः
कङ्किष्यमाणः, कङ्कयिष्यमाणः, चिकङ्किषिष्यमाणः, चाकङ्किष्यमाणः
3 कन्-कङ्कौ-कङ्कः
-- -- -- कङ्कितम्-तः, कङ्कितम्-तः, चिकङ्किषितः, चाकङ्कितः-तवान्
4 कङ्कः 5, कङ्कः, चिकङ्किषुः, चिकङ्कयिषुः, चाकङ्कः
कङ्कितव्यम्, कङ्कयितव्यम्, चिकङ्किषितव्यम्, चाकङ्कितव्यम्
6 प्रनिकङ्कनीयम्, कङ्कनीयम्, चिकङ्किषणीयम्, चाकङ्कनीयम्
7 कङ्क्यम्, कङ्क्यम्, चिकङ्किष्यम्, चाकङ्क्यम्
ईषत्कङ्कः, दुष्कङ्कः, सुकङ्कः
-- -- कङ्क्यमानः, कङ्क्यमानः, चिकङ्किष्यमाणः, चाकङ्क्यमानः
कङ्कः, कङ्कः, चिकङ्किषः, चाकङ्कः
कङ्कितुम्, कङ्कयितुम्, चिकङ्किषितुम्, चाकङ्कितुम्
कङ्का, कङ्कना, चिकङ्किषा, चिकङ्कयिषा, चाकङ्का
8 प्रकङ्कनम्, कङ्कनम्, चिकङ्किषणम्, चाकङ्कनम्
कङ्कित्वा, कङ्कयित्वा, चिकङ्किषित्वा, चाकङ्कित्वा
सङ्कङ्क्य, प्रकङ्क्य, प्रचिकङ्किष्य, प्रचाकङ्क्य
कङ्कम् २, कङ्कित्वा २, कङ्कम् २, कङ्कयित्वा २, चिकङ्किषम् २, चिकङ्किषित्वा २, चाकङ्कम् २
चाकङ्कित्वा २।
01 (१४०)
02 (१-भ्वादिः-९४। सक। सेट्। आत्म।)
03 [[३। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति ककारलोपः।]]
04 [[B। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशानुरुकाककोकिलान्। वृकावृतान् मुग्धचकोरकूजितानुड्डीनकङ्कानयमत्यवङ्कत।।’ धा। का। १-१३।]]
05 (गृध्रः)
06 [[४। ‘शेषे विभाषा--’ (८-४-१८) इति णत्वनिषेधः।]]
07 [पृष्ठम्०१४१+ २६]
08 [[१। ‘इजादेस्सनुमः’ (८-४-३२) इति नियमात् णत्वं न।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
