| YouTube Channel

कक (kaka)

 
शब्दसागरः
English
कक r. 1st cl. (ककते)
1. To be proud.
2. To be unsteady.
3. To be
thirsty. (इ) ककि (कंकते) To go.
Wilson
English
कक r. 1st cl. (ककते)
1 To be proud.
3 To be unsteady.
4 To be thirsty. (इ) ककि (कंकते) To go.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कक्
मूलधातुः:
कक
धात्वर्थः:
लौल्ये (गर्वश्चापल्यं च)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ककते
अनुबन्धादिविशेषः:
काकः
धातुप्रदीपः
Sanskrit
ककँ कक लौल्ये
- ककते चकके काकयति काकः ।। 89 ।।
शब्दकल्पद्रुमः
Sanskrit
कक व्रजने इति कविकल्पद्रुमः
(भ्वां--आत्मं--सकं--सेट् ।) कर्म्मणि कङ्क्यते कङ्कते ।इति दुर्गादासः
कक इच्छायां गर्व्वे चापले इति कवि-कल्पद्रुमः
(भ्वां--आत्मं--सकं--अकं--च--सेट् ।)इच्छेह तृष्णा चापलं चञ्चलीभावः ककतेकाकः सतृष्णश्चञ्चलो वा स्यादित्यर्थः गर्व्वःकैश्चिन्न पठ्यते इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
कक इच्छायाम्
सक०
गर्व्वेचापले अक०
भ्वा०
आत्म० सेट् ।ककते अककिष्ट चकके
कक गतौ
भ्वा०
इदित् आत्म०
सक०
सेट् कङ्कते अकङ्किष्ट चकङ्के प्रनिकङ्कते णत्वम्
क्षीरतरङ्गिणी
Sanskrit
ककँ कक लौल्ये
(अर्थविवरणम्) लौल्यं सतृष्णत्वं चापल्यञ्च
ककते काकः पृषोदरादिः (द्र063109) 88
धातुवृत्तिः
Sanskrit
ककँ कक (अर्थः) लौल्ये
(अर्थविवरणम्) लौल्यं गर्वश्चापल्यं
( ककते चकके ककितेत्यादि काकः, ) घञ् बाहुलकात्कर्तरि गत्यर्थः, पठिष्यते तस्माद्वा घञ् 90
कृदन्तरूपमाला
Sanskrit
1 {@“कक लौल्ये”@} 2 लौल्यम् = गर्वः, चापल्यं वा।
काककः-किका, काककः-किका, 3 चिककिषकः-षिका, 4 चाकककः-किका
ककिता-त्री, काकयिता-त्री, चिककिषिता-त्री, चाककिता-त्री
-- काकयन्-न्ती, काकयिष्यन्-न्ती-ती
-- ककमानः, काकयमानः, चिककिषमाणः, 5 चाकक्यमानः
6 प्रनिककिष्यमाणः, काकयिष्यमाणः, चिककिषिष्यमाणः, चाककिष्यमाणः
कक्-कग्-ककौ-ककः
-- -- ककितम्-तः, काकितः-तम्, चिककिषितः, चाककितः-तवान्
ककः, काकः, चिककिषुः, चिकाकयिषुः, 7 चाककः
ककितव्यम्, काकयितव्यम्, चिककिषितव्यम्, चाककितव्यम्
ककनीयम्, काकनीयम्, चिककिषणीयम्, चाककनीयम्
8 काक्यम्, काक्यम्, चिककिष्यम्, चाकक्यम्
ईषत्ककः, 9 दुष्ककः, सुककः
-- -- कक्यमानः, काक्यमानः, चिककिष्यमाणः, चाकक्यमानः
10 काकः 11, काकः, चिककिषः, चाककः
ककितुम्, काकयितुम्, चिककिषितुम्, चाककितुम्
कक्तिः, काकना, चिककिषा, चिकाकयिषा, चाकका
ककनम्, काकनम्, चिककिषणम्, चाककनम्
ककित्वा, काकयित्वा, चिककिषित्वा, चाककित्वा
प्रकक्य, प्रकाक्य, प्रचिककिष्य, प्रचाकक्य
काकम् २, ककित्वा २, काकम् २, काकयित्वा २, चिककिषम् २, चिककिषित्वा २, चाककम्
चाककित्वा २।
प्रासङ्गिक्यः
01
=>
(१३९)
02
=>
(१-भ्वादिः-९०। अक। सेट्। आत्म।)
03
=>
[[१। ‘सन्यङोः’ (६-१-९) इति द्वित्वे ‘सन्यतः’ (७-४-७९) इति इत्वम्। चुत्वम्।]]
04
=>
[[२। ‘धातोरेकाचो हलादेः क्रियासमभिहारे यङ्’ (३-१-२२) इति यङ्। ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। ‘दीर्घोऽकितः’ (७-४-८३) इति अभ्यासस्य दीर्घः।]]
05
=>
[[३। यङन्तात् शानचि तस्य सार्वधातुकत्वात् ‘अतो लोपः’ (६-४-४८) इति लोपस्याभावे यलोपाभावे रूपम्।]]
06
=>
[[४। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वनिषेधः।]]
07
=>
[[५। ‘नन्दिग्रहिपचादिभ्यः--’ (३-१-१३४) इति यङन्तात् पचाद्यच्।]]
08
=>
[पृष्ठम्०१४०+ २५]
09
=>
[[१। ‘इदुदुपधस्य --’ (८-३-४१) इति षत्वम्।]]
10
=>
[[२। बाहुलकात् कर्तरि घञ्।]]
11
=>
[[आ। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशात् उरुकाककोकिलान्। वृकावृतान् मुग्धचकोरकूजितानुड्डीनकङ्कानयमत्यवङ्कत।।’ धा। का। १-१३।]]