| YouTube Channel

कंसं (kaMsaM)

 
शब्दकल्पद्रुमः
Sanskrit
कंसं, क्ली
पुं,
(कामयति काम्यते वा अनेनपातुमितिशेषः “वृतॄवदिहनिकमीति” सः ।उणां ६२ ।) मद्यादिपानपात्रम् तत्पर्य्यायः ।पानभाजनम् इत्यमरः
३२ कंशम्३ कांस्यम् इति तट्टीका तैजसद्रव्यम् ।स्वर्णरजतादिनिर्म्मितपात्रमात्रम् मानविशेषःतत्तु आढकपरिमाणम् इति मेदिनी
(चतुःषष्टिपलात्मकाढकरूपम्
यथा भावप्रकाशे ।“शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ।शरावाभ्यां भवेत् प्रस्थश्चतुः प्रस्थैस्तथाढकः ।भाजनं कांसपात्रञ्च चतुःषष्टिपलश्चसः”
ताम्रवङ्गमिश्रितधातुविशेषः काँसा इति भाषा ।तत्पर्य्यायः कांस्यम् कंसास्थि ताम्रार्द्धम्४ इति त्रिकाण्डशेषः
(वर्तुलाकारयज्ञिय-पात्रभेदः यथा शतपथब्राह्मणे १४ ।“औडुम्बरे कंसे चमसे वा” ।)