औषध (auSadha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
EnglishdinadvayasyaanantaraMjvaraHgamiSyatinizcayena| - - Thismedicineshouldbedrunkthreetimesaday, everyday.Afterthatthefeverwillcertainlygoaway.
आयुर्वेद - Ayurveda - - medicine
भिषज् - bhiSaj - - medicine
अगद - agada - - medicine
उपक्रम - upakrama - - medicine
जायु - jAyu - - medicine
परिक्रम - parikrama - - medicine
भेषज - bheSaja - - medicine
भैषज्य - bhaiSajya - - medicine
आस्रावभेषज - AsrAvabheSaja - - medicine
प्रतिक्षिप्त - pratikSipta - - medicine
भैषज - bhaiSaja - - medicine
रोगघ्न - rogaghna - - medicine
रोगहर - rogahara - - medicine
रोगिवल्लभ - rogivallabha - - medicine
भेषजागार - bheSajAgAra - - medicine-room
मानुषी - mAnuSI - - human medicine
औषध - auSadha - - drug
औषध - auSadha - - medicine
औषध - auSadha - - consisting of herbs
औषध - auSadha - - medicament
औषध - auSadha - - herbs collectively
औषध - auSadha - - medicine in general
औषध - auSadha - - herb
औषध - auSadha - - mineral
औषध - auSadha - - herbs used in medicine
औषध - auSadha - - vessel for herbs
औषध - auSadha - - simples
औषध - auSadha - - drug
मादकद्रव्य - mAdakadravya - - drug
काम्पिल्लिका - kAmpillikA - - drug
कायस्था - kAyasthA - - drug
कायस्थिका - kAyasthikA - - drug
अगद - agada - - drug
गदाराति - gadArAti - - drug
खण्डपर्शु - khaNDaparzu - - drug
जीवन्त - jIvanta - - drug
सूर्य - sUrya - - drug
भैषज्य - bhaiSajya - - drug [ medicine ]
कमल - kamala - - drug
भैषज - bhaiSaja - - drug
भेषज - bheSaja - - drug
रोगह - rogaha - - drug
रोगिवल्लभ - rogivallabha - - drug
भेषजकार - bheSajakAra - - druggist
अगदंकार - agadaMkAra - - druggist
औषधविक्रेतृ - auSadhavikretR - - druggist [ amer. ]
भेषजभक्षण - bheSajabhakSaNa - - drug-eating
औषध auSadha simples
dinadvayasya anantaraM jvaraH gamiSyati nizcayena | This medicine should be drunk three times a day, every day. After that the fever will certainly go away.
आयुर्वेद Ayurveda medicine
भिषज् bhiSaj medicine
अगद agada medicine
उपक्रम upakrama medicine
जायु jAyu medicine
परिक्रम parikrama medicine
भेषज bheSaja medicine
भैषज्य bhaiSajya medicine
आस्रावभेषज AsrAvabheSaja medicine
प्रतिक्षिप्त pratikSipta medicine
भैषज bhaiSaja medicine
रोगघ्न rogaghna medicine
रोगहर rogahara medicine
रोगिवल्लभ rogivallabha medicine
भेषजागार bheSajAgAra medicine-room
मानुषी mAnuSI human medicine
Wilson
EnglishApte
Englishऔषध [auṣadha], (-धी ) [औषधि-अण्] Consisting of herbs.
धम् A herb
herbs taken collectively.
A medicament, medicinal drug, medicine in general.
A vessel for herbs.
A mineral.
of Viṣṇu.
Counter-action, prevention
अतिक्रुधं निषधमनौषधं जनः 17.7. -पेषकः One who grinds or pounds medicaments.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishMacdonell
EnglishBenfey
EnglishHindi
Hindiदवा
Apte Hindi
Hindiऔषधम्
- औषधि-अण्
"जड़ी-बूटी, जड़ी-बू्टियों का समूह"
औषधम्
- औषधि-अण्
"दवादारू, सामान्य औषधि"
औषधम्
- औषधि-अण्
खनिज
औषधम्
- औषधि+अण्
"रोकथाम, मुकाबला"
Shabdartha Kaustubha
Kannadaऔषध
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಔಷಧ /ಮೂಲಿಕೆಗಳು ಶುಂಠಿ ಮೆಣಸು ಮೊದಲಾದ ವಸ್ತುಗಳಿಂದ ತಯಾರಿಸಲ್ಪಟ್ಟ ಮದ್ದು
निष्पत्तिः - > ओषधि - "अण्" (५-४-३७)
औषध
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಔಷಧ ದ್ರವ್ಯ /ಔಷಧಕ್ಕಾಗಿ ಉಪಯೋಗಿಸುವ ಮೂಲಿಕೆಗಳು
निष्पत्तिः - > ओषधि - स्वार्थे "अण्" (५-४-३७)
प्रयोगाः - > "द्वेष्योऽपि सम्मतः शिष्टः तस्यार्तस्य यथौषधम्"
उल्लेखाः - > रघु० १-२८
Anekartha-Dvani-Manjari
Sanskritउत्पल
क्ली
उत्पल, नलिन, कुष्ठ, औषध
उत्पलं नलिनं प्रोक्तमुत्पलं कुष्ठमौषधम् ।
verse 2.1.1.77
page 0012
Lanman
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritदोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः ।
रोगहार्यगदंकारो भेषजं तन्त्रमौषधम् ॥ ४७२ ॥
भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया ।
उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् ॥ ४७३ ॥
दोषज्ञ (पुं), भिषज् (पुं), वैद्य (पुं), आयुर्वेदिन् (पुं), चिकित्सक (पुं), रोगहारिन् (पुं), अगदङ्कार (पुं), भेषज (क्ली), तन्त्र (क्ली), औषध (क्ली), भैषज्य (क्ली), अगद (पुं), जायु (पुं), चिकित्सा (स्त्री), रुक्प्रतिक्रिया (स्त्री), उपचर्या (स्त्री), उपचार (पुं), लङ्घन (क्ली), अपतर्पण (क्ली)
अभिधानरत्नमाला
Sanskritभैषज्य
भैषज्य, भेषज, जायु, अगद, तन्त्र, औषध
भैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् ॥ ६१३ ॥
verse 2.1.1.613
page 0069
Mahabharata
EnglishAushadha = Vishṇu (1000 names).
अमरकोशः
SanskritWord: औषधम्
Root: औषध
Gender: नपुं
Number: all
Meaning(s):
⇒ herb
⇒ drug
⇒ simples
⇒ mineral
⇒ medicine
⇒ medicament
⇒ vessel for herbs
⇒ herbs collectively
⇒ medicine in general
⇒ consisting of herbs
⇒ herbs used in medicine
Shloka(s):
2|6|50|2 ► भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥ (मनुष्यवर्गः)
3|3|40|1 ► पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च। (नानार्थवर्गः)
Synonym(s):
➠ 2|6|50|2 ⇢ भेषजम् (भेषज) (नपुं) ⇒ drug, water, curing, remedy, healing, medicine, sanative, medicament, remedy against, black cumin [Nigella Indica - Bot.], spell or charm for curative purposes
➠ 2|6|50|2 ⇢ औषधम् (औषध) (नपुं) ⇒ herb, drug, simples, mineral, medicine, medicament, vessel for herbs, herbs collectively, medicine in general, consisting of herbs, herbs used in medicine
➠ 2|6|50|2 ⇢ भैषज्यम् (भैषज्य) (नपुं) ⇒ medicine, any remedy, drug [medicine], healing efficacy, drug or medicine, administering of medicines, effectiveness of the medicine, ceremony as remedy for sickness
➠ 2|6|50|2 ⇢ अगदः (अगद) (पुं) ⇒ drug, health, healthy, medicine, antidote, magic jewel, not speaking, free from disease, science of antidotes, free from affliction, freedom from affliction, free from disease healthy
➠ 2|6|50|2 ⇢ जायुः (जायु) (पुं)
➠ 3|3|40|1 ⇢ पटुः (पटु) (पुं) ⇒ hard, keen, cruel, clear, harsh, sharp, smart, acrid, strong, clever, saline, shrill, crafty, fit for, healthy, intense, cunning, skilful, violent, pungent, able to, manifest, eloquent, capable of, of a people, kind of perfume, species of camphor, great or strong in, black cumin [Nigella Indica - Bot.], bitter melon [Momordica Charantia - Bot.], pointed gourd or its leaf [Trichosanthes Dioeca Roxb - Bot.]
➠ 3|3|40|1 ⇢ पटुः (पटु) (स्त्री) ⇒ hard, keen, cruel, clear, harsh, sharp, smart, acrid, strong, clever, saline, shrill, crafty, fit for, healthy, intense, cunning, skilful, violent, pungent, able to, manifest, eloquent, capable of, of a people, kind of perfume, species of camphor, great or strong in, black cumin [Nigella Indica - Bot.], bitter melon [Momordica Charantia - Bot.], pointed gourd or its leaf [Trichosanthes Dioeca Roxb - Bot.]
➠ 3|3|40|1 ⇢ पटु (पटु) (नपुं) ⇒ hard, keen, cruel, clear, harsh, sharp, smart, acrid, strong, clever, saline, shrill, crafty, fit for, healthy, intense, cunning, skilful, violent, pungent, able to, manifest, eloquent, capable of, of a people, kind of perfume, species of camphor, great or strong in, black cumin [Nigella Indica - Bot.], bitter melon [Momordica Charantia - Bot.], pointed gourd or its leaf [Trichosanthes Dioeca Roxb - Bot.]
Related word(s):
अवयव_अवयवीसंबन्धः ➡ रोगनिवारणः
उपाधि ➡ पक्वम्
परा_अपरासंबन्धः ➡ हरीतक्यामलकविभीतक्यां_समाहारः
शब्दकल्पद्रुमः
Sanskritऔषधं, (ओषधेरिदम् । ओषधिरेव वा “ओ-षधेरजातौ” ५ । ४ । ३७ । इत्यण् ।) रोगनाशकद्रव्यं ।ओषधिभवं भवार्थे ष्णप्रत्ययः । तत्पर्य्यायः । भेष-जम् २ भैषज्यम् ३ अगदः ४ जायुः ५ । इत्यमरः ॥
जैत्रम् ६ आयुर्योगः ७ गदारातिः ८ अमृतम् ९आयुर्द्रव्यम् १० । इति वैद्यकम् ॥
(“शोधनं शमनञ्चेति समासादौषधं द्विधा ।शरीरजानां दोषाणां क्रमेण परमौषधम् ॥
वस्तिर्विरेको वमनं तथा तैलं घृतं मधु ।धीर्धैर्य्यात्मादिविज्ञानं मनोदोषौषधम्परम्” ॥
इति वाभटे सूत्रस्थाने । १ अध्याये ॥
“धन्वसाधारणे देशे समे सन्मृत्तिके शुचौ ।श्मशानचैत्यायतनश्वभ्रबल्मीकवर्ज्जिते ॥
मृदौ प्रदक्षिणजले कुशरोहिषसंस्मृते ।अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः ॥
शस्यते भेषजं जातं युक्तवर्णरसादिभिः ।जन्त्वदग्धं दवादग्धमविदग्धञ्च वैकृतैः ॥
भूतैश्छायातपाम्राद्यैर्यथाकालञ्च सेवितम् ।अवगाढमहामूलमुदीचीं दिशमाश्रितम् ॥
अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः ।गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत् ॥
सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम् ।ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः” ॥
इति तत्रैव कल्पस्थाने । ६ अध्याये ॥
“यथाविधं यथाशस्त्रं यथाग्निरशनिर्यथा ।तथौषधमविज्ञातं विज्ञातममृतं यथा ॥
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः ।विज्ञातमपि दुर्य्युक्तमनर्थायोपपद्यते ॥
योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् ।भेषजं वापि दुर्य्युक्तं तीक्ष्णं सम्पद्यते विषम् ॥
तस्मान्न भिषजा युक्तं युक्तिवाह्येन भेषजम् ।धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा ॥
कुर्य्यान्निपतितो मूर्द्ध्नि सशेषं वासवाशनिः ।सशेषमातुरं कुर्य्यान्नत्वज्ञमतमौषधम् ॥
तदेव युक्तं भैषज्यं यदारोग्याय कल्पते ।स एव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्” ॥
इति चरके सूत्रस्थाने । १ अध्याये ॥
“करणं पुनर्भेषजम् । भेषजं नाम तद्यदुपकर-णायोपकल्पते भिषजो धातुसाम्याभिनिर्वृर्त्तौप्रयतमानस्य विशेषतश्चोपायात्तेभ्यः तद्द्विविधंव्यापाश्रयभेदात् । दैवव्यपाश्रयं युक्तिव्यपाश्रयञ्च ।तत्र दैवव्यपाश्रयं मन्त्रौषधमणिमङ्गलबल्युपहार-होमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातग-मनादि । युक्तिव्यपाश्रयं संशोधनोपशमने चेष्टाश्चदृष्टफलाः एतच्चैव भेषजमङ्गभेदादपि द्विविधं ।द्रव्यभूतमद्रव्यभूतञ्च । तत्र यद्द्रव्यभूतं तदुपायाभि-प्लुतम् । उपायो नाम भयदर्शन-विस्मापन-क्षोभ-ण-हर्षण-भर्त्सन-बध-बन्ध-स्वप्न-संवाहनादिरमूर्त्तोभावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्यभूतंतद्वमनादिषु योगमुपैति ।तस्यापीयं परीक्षा इदमेवं प्रकृत्या एवंगुणमेवंप्रभावमस्मिन् देशे जातमस्मिन्नृतौ एवं गृहीत-मेवं निहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन्ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्षयतिउपशमयति वा अन्यदपि चैवंविधं भेषजमभूच्चा-नेनानेन वा विशेषेण युक्तमिति” । इति च तत्रवविमानस्थाने ८ अध्याये ॥
पर्य्यायानाह चरकश्चिकित्सास्थाने । १ अः ।“चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥
विद्याद्भेषजनामानि भेषजं द्विविधञ्च तत् ।स्वस्थस्यौजस्करं किञ्चित्किञ्चिदार्त्तस्य रोगनुत् ॥
अभेषजञ्च द्विविधं बाधनं सानुबाधनम्” ।तथा, सुश्रुते सूत्रस्थाने ३७ अध्याये यथा, --“श्वतभ्रशर्कराश्मविषमवल्मीकश्मशानाद्यतनदे-वतायतनसिकताभिरनुपहतामनूषरामभङ्गुराम-दूरादेकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समांकृष्णां गौरीं लोहितां वा भूमिमौषधार्थं परी-क्षेत तस्यां जातमपि कृमि-विष-शस्त्रातप-पवन-दहन-तोयसम्बाध-मार्गैरनुपहतमेकरसं पुष्टं पृथ्व-वगाढमूलमुदीच्यां चौषधमाददीतेत्यौषधभूमिप-रीक्षाविशेषसामान्यं ॥
विशेषस्तु । तत्राश्मवती स्थिरा गुर्व्वी श्यामाकृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा ॥
स्निग्धा शीतला सन्नोदकास्निग्धशस्यतृणकोमलवृ-क्षप्राया शुक्लाम्बुगुणभूयिष्ठा ॥
नानावर्णा लघ्वश्म-वती प्रविरलाल्पपाण्डुवृक्षप्ररोहाग्निगुणभूयिष्ठा ॥
रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्ष-प्रायाऽनिलगुणभूयिष्ठा ॥
मृद्वी समा श्वभ्रवत्यव्यक्त-रसजला सर्व्वतोऽसारवृक्षा महापर्ब्बतवृक्ष-प्राया श्यामा चाकाशगुणभूयिष्ठा ॥
तत्र केचिदाहुराचार्य्याः । प्रावृट्-वर्षा-शर-द्धेमन्त-वसन्त-ग्रीष्मेषु यथासङ्ख्यं मूल-पत्र-त्वक्-क्षीरसार-फलान्यांददीतेति तत्तु न सम्यक् कस्मात्सौम्याग्नेयत्वाज्जगतः । सौम्यान्यौषधानि सौम्येषुऋतुषु आददीताग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानिभवन्ति ॥
सौम्यान्यौषधानि सौम्येषु ऋतुषु मृही-तानि सोमगुणभूयिष्ठायां भूमौ जातान्यति-मधुरखिग्वशीतानि जायन्ते । एतेन शेषं व्या-ख्यातम् ॥
तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानिविरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुणभूयि-ष्ठायां वमनद्रव्याणि । उभयगुणभूयिष्ठायामुभयतोभागानि । आकाशगुणभूयिष्ठायां संशमनान्येवंबलवत्तराणि भवन्ति । सर्व्वाण्येव चाभिनवान्यन्यत्रमधु-घृत-गुड-पिप्पली-विडङ्गेभ्यः । सर्व्वाण्येव स-क्षीराणि वीर्य्यवन्ति तेषामसम्पत्तावनतिक्रान्त-संवत्सराण्याददीतेति” ॥
)नानारोगहरौषधादिर्यथा । रुद्र उवाच ।“एवं धन्वन्तरिर्विष्णुः सुश्रुतादीनुवाच ह ।हरिः पुनर्हरायाह नानारोगान् रुगर्द्दनान्” ॥
हरिरुवाच ।सर्व्वज्वरेषु प्रथमं कार्य्यं शङ्कर ! लङ्घनम् ।क्वथितोदकपानञ्च तथा निर्व्वातसेवनम् ॥
अग्निस्वेदो ज्वरास्त्वेवं नाशमायान्ति हीश्वर ! ।वातज्वरहरः क्वाथो गुडूच्या मुस्तकेन च ॥
दुरालभयैव कृतं पित्तज्वरहरं शृणु ।शुण्ठीपर्पटमुस्तैश्च बालकोशीरचन्दनैः ॥
साज्यः क्वाथः श्लेष्मजन्तु सशुण्ठिः सदुरालभः ।सबालकः सर्व्वज्वरं सशुण्ठिः सहपर्पटः ॥
किराततिक्तकैर्वापि गुडूचीशुण्ठितिक्तकैः ।पित्तज्वरहरः स्याच्च शृण्वन्यं योगमुत्तमम् ॥
वालकोशीरपाठाभिः कण्टकारिकमुस्तकैः ।ज्वरनुच्च कृतक्वाथस्तथा वै सुरदारुणा ॥
धन्याकनिम्बमुस्तानां समधुः स च शङ्कर ! ।पटोलपत्रयुक्तश्च गुडूचीत्रिफलायुतः ॥
पीतोऽखिलज्वरहरः क्षुधाकृद्वातनुत्त्विदम् ।हरीतकीपिप्पलीनामामलीचित्रकोद्भवम् ॥
चूर्णं जलञ्च क्वथितं धन्याकोशीरपर्पटैः ।आमलक्या गुडूच्या च मधुयुक्तं सचन्दनम् ॥
समस्तज्वरनुत् स्याच्च सन्निपातहरं शृणु ।हरिद्रानिम्बत्रिफलामुस्तकैर्देवदारुणा ॥
कषायं कटुरोहिण्या सपटोलं सपत्रकम् ।त्रिदोषज्वरनुत् स्याच्च पीतन्तु क्वथितं जलम् ॥
कण्टकारिनागरेण गुडूच्या पुष्करेण च ।जग्ध्वा नागबलाचूर्णं श्वासकासादिनुद्भवेत् ॥
कफवातज्वरे देयं जलमुष्णं पिपासिने ।मण्डो वा मुद्गयूषं वा शाल्यन्नं वाथ यूषवत् ॥
ज्वरार्त्तमानुषे देयं ज्वरहानिस्तदा भवेत् ।विश्वपर्पटकोशीरघनचन्दनसाधितम् ॥
दद्यात् सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ।विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ॥
पाचनं पिप्पलीमूलं गुडूचीविश्वभेषजम् ।वातज्वरे त्वयं क्वाथो दत्तः शान्तिकरः परः ॥
पित्तज्वरनुत् समधुः क्वाथः पर्पटनिम्बयोः ।विधाने क्रियमाणेऽपि यस्य संज्ञा न जायते ॥
पादयोस्तु ललाटे वा दहेल्लोहशलाकया ।तिक्ता पाठा पटोलश्च विशाला त्रिफला त्रिवृत् ॥
सक्षीरो भेदनः क्वाथः सर्व्वज्वरविशोधनः” ॥
इति गारुडे १७९ अध्यायः ॥
* ॥
भगवानुवाच ।“सप्तरात्रात् प्रजायन्ते खल्वीटस्य कचाः शुभाः ।दग्धहस्तिदन्तलेपात् साजाक्षीररसाञ्जनात् ॥
भृङ्गराजरसेनैव चतुर्भागेण साधितम् ।केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च ॥
एला मांसी कुष्ठमुरायुक्तमभ्यङ्गतः शिव ! ।गुञ्जाफलं ममाप्यैव लेपनं चेन्द्रलुप्तनुत् ॥
आम्रास्थिचूर्णलेपाद्धि केशाः सूक्ष्मा भवन्ति वै ।बद्धमूला घना दीर्घाः स्निग्धाः स्युर्नोत्पतन्ति च ॥
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् ।सचतुर्गुणगोमूत्रं समनःशिलमेव च ॥
शिरोऽभ्यङ्गाच्छिरोजन्मयूकालिख्याक्षयं नयेत् ।नवदग्धशङ्खचूर्णघृष्टसीसकलेपिताः ॥
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज ! ।भृङ्गराजं लोहचूर्णं त्रिफला वीजपूरकम् ॥
नीली च करवीरञ्च गुडमेतैः समैः शृतम् ।पलितानीह कृष्णानि कुर्य्याल्लेपान्महौषधम् ॥
आम्रास्थिमज्जा त्रिफला नीली च भृङ्गराजकम् ॥
जीर्णं पक्वलौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥
चक्रमर्दकवीजानि कुष्ठमेरण्डमूलकम् ।अत्युष्णकांञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥
सैन्धवञ्च वचा हिङ्गु कुष्ठं नागेश्वरं तथा ।शतपुष्पा देवदारु एभिस्तैलन्तु साधितम् ॥
गोपुरीषरसेनैव चतुर्भागेण संयुतम् ।तत्कर्णभरणाद्रुद्र ! कर्णशूलं क्षयं नयेत् ॥
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणात् शिव ! ।कर्णयोः पूतिनाशः स्यात् कृमिस्रावादिकस्य च ॥
मालतीपुष्पदलयो रसेन भरणात् तथा ।गोजलेनैव पूरेण कर्णस्रावो विनश्यति ॥
कुष्ठमाषमरीचानि तगरं मधु पिप्पली ।अपामार्गोऽश्वगन्धा च वृहती सितसर्षपाः ॥
यवास्तिलाः सैन्धवञ्च पादिकोद्वर्त्तनं शुभम् ।लिङ्गबाहुस्तनानाञ्च कर्णयोरृद्धिकृद्भवेत् ॥
कटुतैलं भल्लातकं वृहतीफलदाडिमम् ।वल्कलैः साधितं लिप्तं लिङ्गं तेन विवर्द्धते” ॥
इति गारुडे १८० अध्यायः ॥
* ॥
हरिरुवाच ।“शोभाञ्जनपत्ररसं मधुयुक्तं हि चक्षुषोः ।भरणाद्रोगहरणं भवेन्नास्त्यत्र संशयः ॥
अशीतितिलपुष्पाणि जात्याश्च कुसुमानि च ।भया निम्बामला शुण्ठी पिप्पली तण्डुलीयकम् ॥
छायाशुष्कां वटिं कुर्य्यात् पिष्ट्वा तण्डुलवारिणा ।मधुना सह सा चाक्ष्णोरञ्जनात्तिमिरादिनुत् ॥
विभीतकास्थिमज्जा तु शङ्खनाभिर्मनःशिला ।निम्बपत्रमरीचानि अजामूत्रेण पेषयेत् ॥
पुष्पं रात्र्यन्धतां हन्ति तिमिरं पटलं तथा ।चतुर्भांगाणि शङ्खस्य तदर्द्धेन मनःशिला ॥
सैन्धवञ्च तदर्द्धेन एतत् पिष्टोदकेन तु ।छायाशुष्कान्तु वटिकां कृत्वा नयनमञ्जयेत् ॥
तिमिरं पटलं हन्ति पिटकस्य महौषधम् ।त्रिकटु त्रिफला चैव करञ्जस्य फलानि च ॥
सैन्धवं रजनी द्वे च भृङ्गराजरसेन हि ।पिष्ट्वा तदञ्जनादेव तिमिरादिविनाशनम् ॥
अटरूषकमूलन्तु काञ्जिकापिष्टमेव च ।तेनाक्षिभूरिलेपाच्च चक्षुःशूलं विनश्यति ॥
सतक्रं वदरीमूलं पीतमक्षिव्यथां हरेत् ।सैन्धवं कटुतैलञ्च अपामार्गस्य मूलकम् ॥
क्षीरकाञ्जिकसंघृष्टं ताम्रपात्रे च तेन च ।अञ्जनात् पिटकस्यैव नाशो भवति शङ्कर ! ॥
विल्वनीलीकारमूलं पिष्टमश्वजलेन च ।अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणि हि ।पिप्पलीकतकञ्चैव हरिद्रामलकं वचा ।खदिरपिष्टवर्त्तिश्च अञ्जनं नेत्ररोगनुत् ॥
नीरपूर्णमुखो धौति वृहद्घातेन योऽक्षिणी ।प्रभाते नेत्ररोगैश्च नित्यं सर्व्वैः प्रमुच्यते ॥
शुक्लैरण्डस्य मूलेन पत्रेणापि प्रसाधितम् ।छागदुग्धं सेकयुक्तं चक्षुषोर्वातरोगनुत् ॥
चन्दनं सैन्धवं वृद्धपलाशश्च हरीतकी ।पटोलकुसुमं नीली चक्रिका हरतेऽञ्जनात् ॥
गञ्जामूलं छागमूत्रघृष्टं तिमिरनुच्च तत् ।रौप्यताम्रसुवर्णानां हस्तघृष्टं शलाकया ॥
घृतं तद्वमनं रुद्र ! कामलाव्याधिनाशनम् ।घोषाफलमथाघ्रातं पीतं कामलनाशनम् ॥
दूर्व्वादाडिमपुष्पन्तु अलक्तकहरीतकी ।नासाशिंरारक्तनुत् स्यान्नस्याद्वै स्वरसेन हि ॥
सुपिष्टं जिङ्गिनीमूलं तद्रसेन वृषध्वज ! ।नस्यदानाद्विनश्येत नासार्शो नीललोहित ! ॥
गव्यं घृतं सर्ज्जरसं रुद्र ! धन्याकसैन्धवम् ।धुस्तूरकं गैरिकञ्च एतैः साधितसिक्थकम् ॥
सतैलं व्रणनुत् स्याच्च स्फुटितोच्चटितोधरे ।जातीपत्रञ्च चर्व्वित्वा विधृतं मुखरोगनुत् ॥
भक्ष्यात् केशरवीजस्य दन्ताः स्युश्चलिताः स्थिराःमुस्तकं कुष्ठमेला च यष्टीमधुकबालुकम् ॥
धन्याकमेतददनान्मुखदुर्गन्धनुत् हर ! ।कषायं कटुकं वापि तिक्तं वै तस्य भक्षणात् ॥
तैलयुक्तस्य नित्यं स्यात् मुखदुर्गन्धताक्षयः ।दन्तव्रणानि सर्व्वाणि क्षयं गच्छन्त्यनेन तु ॥
काञ्जिकस्य सतैलस्य गण्डूषकवलास्थितिः ।ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव ! ॥
परित्यक्तः श्लेष्मगणः शुण्ठीचर्वणतो यथा ।मातुलुङ्गदलान्येला यष्टीमधु च पिप्पली ॥
जातीपत्रमथैषाञ्च चूर्णं लीढं तथा कृतम् ।शेफालिकाजटायाश्च चर्वणं गलगुण्ठिनुत् ॥
नासाशिरारक्तकर्षान्नश्येत् शङ्कर ! जिह्विका ।रसः शिरीषवीजानां हलदस्य चतुर्गुणः ॥
तेन पक्वेन भूतेश ! नस्यं मस्तकरोगनुत् ।गलरोगा विनश्यन्ति नस्यमात्रेण तत्क्षणात् ॥
दन्तकीटविनाशः स्यात् गुञ्जामूलस्य चर्व्वणात् ।काकजङ्घा स्नुही नीली कषायाम्रकमूलकम् ॥
दन्ताक्रान्तं दन्तजांश्च क्रिमीन्नाशयते शिव ! ।घृतं कर्कटपादेन दुग्धोन्मिश्रेण साधितम् ॥
तेन चाभ्यङ्गिता दन्ताः कुर्य्युः कटकटान्नहि ।लिप्ताः कर्कटपादेन केवलेनाथ वा द्विजाः ॥
त्रिसप्ताहं वारिपिष्टा ज्योतिष्मत्याः फलस्य हि ।मज्जाभया च शुक्रस्य लेपादङ्गकलङ्कनुत् ॥
लोध्रकुङ्कुममञ्जिष्ठा लोहकालीयकानि च ।यवतण्डु लमेतैश्च यष्टीमधुसमन्वितैः ॥
वारिपिष्टैर्वक्त्रलेपः स्त्रीणां शोभनवक्त्रकृत् ।द्विभागच्छागदुग्धेन तैलप्रस्तन्तु साधितम् ॥
रक्तचन्दनमञ्जिष्ठालाक्षाणां कर्षकेण वा ।यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृंत् ॥
शुण्ठी च पिप्पलीचूर्णं गुडूची कण्ठकारिका ।एभिश्च क्वथितं वारि पीतञ्चाग्निं करोति वै ॥
वातशूलक्षयञ्चैव सुरयक्षमखेश्वर ! ।करञ्जपर्पटोशीरं वृंहती कटुरोहिणी ॥
गोक्षुरं क्वथितं त्वेभिर्वारि पीतं श्रमापहम् ।दाहपित्तज्वरं शोषं मूर्च्छाञ्चैव क्षयं नयेत् ॥
मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम् ।पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥
क्वाथौषधीनां सर्व्वासां कर्षार्द्धं ग्राह्यमेव च ।क्योऽनुरूपतो ज्ञेयो विशेषो वृषभध्वज ! ॥
दुग्धं पीतन्तु संयुक्तं गोपुरीषरसेन च ।विषमज्वरनुत् स्याच्च काकजंघारसस्तथा ॥
सशुण्ठीक्वथितं क्षीरमजाया ज्वरनुद्भवेत् ।यष्टीमधु मुस्तकञ्च सैन्धवं वृहतीफलम् ॥
एतैर्नस्यप्रदानाच्च निद्रा स्यात् पुरुषस्य च ।मरीचमधुशुण्ठीनां नस्यान्निद्रा भवेच्छिव ! ॥
मूलन्तु काकजङ्घाया निद्राकृत् स्यात् शिरःस्थितम् ।सिद्धं तैलं काञ्जिकेन तथा सर्ज्जरसेन च ॥
शीतोदकसमायुक्तं लेपात् सन्तापनाशनम् ।शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥
शूकशैवालमन्थाश्च शुण्ठीपाषाणभेदकम् ।शोभाञ्जनं गोक्षुरं वा वरुणच्छदमेव च ॥
शोभाञ्जनस्य मूलञ्च एतैः क्वथितवारि च ।दत्त्वा हिङ्गु यवक्षारं पीतं वातविनाशनम् ॥
पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव ! ।वार्य्येतैः क्वथितं पीतं वरशूलापसारकृत् ॥
अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका ।एतया मर्द्दनात् रुद्र ! उरुस्तम्भः प्रशाम्यति ॥
वृहतीकस्य वै मूलं संपिष्टमुदकेन च ।पीतं झिज्झिनिवातस्य विपाटनकृदेव च ॥
पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च ।हरेत् झिज्झिनिवातं वै वृक्षमिन्द्राशनिर्यथा ॥
अस्थिसंहारमेकेन भक्तेन सह खादितम् ।पीतं मांसरसेनापि वातनुच्चास्थिभङ्गहृत् ॥
घृतलिप्तं शक्तुकञ्च छागक्षीरेण संयुतम् ।तल्लेपात् पादयोर्न्नश्येत् सन्तापो नात्र संशयः ॥
मध्वाज्यं सैन्धवं सिक्थं गुडगैरिकगुग्गुलैः ।ससर्ज्जरसः स्फुटितः कोमलोऽङिघ्रश्च लेपनात् ॥
कटुतैलेन लिप्तो व विध्रमाग्नौ प्रतापितः ।मृत्तिकाखादितः पादः समः स्याद्वृषभध्वज ! ॥
सर्ज्जरसः सिक्थकञ्च जीरकञ्च हरीतकी ।तत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥
तिलतैलञ्चाग्निदग्धयवभस्मसमन्वितम् ।अग्निदग्धं व्रणं नश्येद्बहुशः कृतलेपतः ॥
नवनीतं माहिषञ्च दुग्धपिष्टतिलानि च ।भल्लातकव्रणं नश्येत् हृच्छल्यं तस्य लेपतः ॥
शरपुङ्खा लज्जालुका पाठा चैषान्तु मूलकम् ।जलपिष्टं तस्य लेपात् शस्त्राघातः प्रशाम्यति ॥
मूलञ्च काकजङ्घायास्त्रिरात्रेणैव शेषतः ।पाकपूतिवेदनाञ्च हन्ति वै रोहिते व्रणे ॥
सजलं तिलतैलञ्च अपामार्गस्य मूलकम् ।तत्सेकदानान्नश्येत प्रहारोद्भववेदना ॥
अभया सैन्धवं शुण्ठिरेतत् पिष्ट्वोदकेन तु ।भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥
कटिबद्धं निम्बमूलमक्षिशूलहरं भवेत् ।शणमूलं सताम्बूलं पीतमिन्द्रियकम्पहृत् ॥
अन्नसिद्धं हरिद्रा च श्वेतसर्षपमूलकम् ।वीजानि मङ्गलदिने एषामुद्वर्त्तनं समम् ॥
सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ।श्वेतापराजितापत्रं निम्बपत्ररसेन तु ॥
नस्यदानात् डाकिनीनां मातॄणां ब्रह्मरक्षसाम् ।मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ! ॥
मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम् ।श्वेतापराजितार्कस्य तथा चित्रस्य मूलकम् ॥
कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥
पिप्पली लोहचूर्णन्तु शुण्ठिश्चामलकानि च ।समानि रुद्र ! जानीयात् सैन्धवं मधु शर्करा ॥
उदुम्बरप्रमाणेन सप्ताहं भक्षणात् समम् ।पुमांश्च बलवान् स्याच्च जीवेद्वर्षशतद्वयम् ॥
ओँ ठ ठ ठ इति ।सर्व्ववश्यप्रयोगेषु प्रयुक्तः सर्व्वकामकृत् ॥
संगृह्य वृक्षात् काकस्य निलयं प्रदहेच्च तत् ।चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ! ॥
तमुच्चाटयते रुद्र ! शृणु तं योगमुत्तमम् ।निक्षिप्तञ्च पुरीषं वै वनमूषिकचर्म्मणि ॥
कट्यां तन्तु निबद्धं वै कुर्य्यान्मलनिरोधनम् ।कृष्णकाकस्य रक्तेन यस्य नाम प्रलिख्यते ॥
चूतदलेऽमेध्यमध्ये ततो निक्षिप्यते हर ! ।स खाद्यते काकवृन्दैर्नारी पुरुष एव वा ॥
शर्क्करा मध्वजाक्षीरं तिलगोक्षुरकं समम् ।पाण्डुत्वं नाशयेद्रुद्र ! आस्वादितमिदं हर ! ॥
उलूककृष्णकाकस्य चिल्लस्याथ समिच्छतस् ।रुधिरेण समायुक्तं ययोर्नाम्ना च हूयते ॥
तयोर्द्वयोर्महावैरं भवेन्नास्त्यत्र संशयः ।भावितं ऋक्षदुग्धेन रोहितस्य शशस्य च ॥
मांसं तत्साधितं तैलं तदभ्यङ्गश्च रोगनुत् ।चन्दनोदकनस्यात्तु रोमोत्थानं भवेत् पुनः ॥
हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम् ।शरीरं येन स पुमान् बुद्धेर्दर्पं व्यपोहति ॥
पराक्रमेण युक्तस्य शूरस्य पुरुषस्य हि ।वर्त्तिर्य्यस्य पुरीषेण कृतगर्भा तु भाविता ॥
मयूररुधिरेणैव जीवमाहरते शिव ! ।ज्वरितानां भुजङ्गानां विलस्थानामपीश्वर ! ॥
देहश्चिताग्नौ दग्धस्तु सर्पस्याजगरस्य हि ।तद्भस्म सम्मखे क्षिप्तं शत्रूणां भङ्गकृद्भवेत् ॥
मन्त्रेणानेन तत् क्षिप्तं महाभङ्गकरं रिपोः ।ओँ ठ ठ ठ ठाही ठाही ठाही स्वाहा ।ओँ उदरः पाही पाही स्वाहा ॥
सुदर्शनाया मूलन्तु पुष्यर्क्षे तु समाहृतम् ।निःक्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तम् ॥
मार्ज्जारपललं विष्ठा हरितालञ्च भावितम् ।छागमूत्रेण तल्लिप्तो मूषिको मूषिकान् हरेत् ॥
युक्तो हि मन्दिरे रुद्र ! नात्र कार्य्या विचारणा ।त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् ॥
लाक्षा सर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः ।एतैर्धूपो मक्षिकाणां मशकानां विनाशनः” ॥
इति गारुडे १८१ अध्यायः ॥
* ॥
हरिरुवाच ।“ब्रह्मदण्डी वचा कुष्ठं प्रियङ्गुर्नागकेशरम् ।दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ॥
ओँ नारायणायेति स्वाहा ।ताम्बूलं यस्य दीयेत स वशी स्यात् समन्त्रतः ।ओँ हरि हरि स्वाहा ॥
गोदन्तहरितालञ्च संयुक्तं काकजिह्वया ।चूर्णं कृत्वा यस्य शिरे दीयते स वशी भवेत् ॥
श्वेतसर्षपनिर्म्माल्यं यद्गृहे तद्विचालकृत् ।वैभीतकं शाखोटकं मूलं पत्रञ्च संयुतम् ॥
स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥
खञ्जरीटस्य मांसन्तु मधुना सह पेषयेत् ।ऋतुकाले योनिलेपात् पुरुषो दासतामियात् ॥
अगुरु गुग्गुलुञ्चैव नीलोत्पलसमन्वितम् ।गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥
श्वेतापराजितामूलं पिष्टं रोचनया युतम् ।यं पश्येत्तिलकेनैव वशी कुर्य्यान्नृपालये ॥
काकजिह्वा वचा कुष्ठं निम्बपत्रं सकुङ्कुमम् ।आत्मरक्तं सभावेयं वशी भवति मानवः ॥
आरण्यस्य विडालस्य गृहीत्वा रुधिरं शुभम् ।करञ्जतैले तद्भाव्य रुद्राग्नेः कञ्ज्वलं ततः ॥
पातयेत् पद्मसूत्रेण अदृश्यः स्यात् तदञ्जनात् ॥
ओँ नमः खड्गवज्रपाणये महायक्षसेनापतयेस्वाहा । ओँ वक्र ह्रीं ह्रीं वरसंयुक्ता त्वरिताविद्या ओँ मातश्चौरं स्तम्भय स्वाहा ।सहस्रं परिजप्या तु विद्येयं चौरवारिणी ।महासुगन्धिकामूलं शुक्रं स्तम्भेत् क्रटौ स्थितम् ॥
ओँ नमः सर्व्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरुस्वाहा ।सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥
ब्रह्मदण्डी वचा पत्रं मधुना सह पेषयेत् ।अङ्गलेपाच्च वनिता नान्यं भर्त्तारमिच्छति ॥
पुत्त्रदण्डीशिफा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम् ।मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥
अपराजिताशिफां दद्यान्नीलोत्पलसमन्विताम् ।ताम्बूलेन प्रदानाच्च वशीकरणमुत्तमम् ॥
रोचनानागपुष्पाणि विल्वपुष्पं प्रियङ्गवः ।कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्वशेत् ॥
ओँ ह्राँ गौरि देवि सौभाग्यं पुत्त्रवश्यादि देहि मे ।ओँ ह्रीँ लक्ष्मि ! देहि सौभाग्यं सर्व्वत्रैलोक्यमोहनम् ॥
दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी ।तिलतैलेन संयुक्तं योनिलेपाद्वशो नरः ॥
निम्बकाष्ठस्य धूपेन धूपयित्वा भगं स्त्रियाः ।मुभगा स्यात् सा च रुद्र ! पतिर्दासो भविष्यति ॥
माहिषं नवनीतञ्च कुष्ठञ्च मधुयष्टिका ।सौभाग्यं भगलेपाच्च पतिर्दासो भवेत्तदा ॥
मधुयष्टिञ्च तैर्दद्याद्गोक्षीरं कण्टकारिका ।एतानि समभागानि पिबेदुष्णेन वारिणा ॥
चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् ॥
मातुलुङ्गस्य वीजानि क्षीरेण सह भावयेत् ॥
तत्पीत्वा लभते गर्भं नात्र कार्य्या विचारणा ।मातुलुङ्गस्य वीजानि मूलान्येरण्डकस्य च ॥
घृतेन सह संयोज्य पाययेत् पुत्त्रकाङ्क्षिणीम् ।अश्वगन्धाघृतं दुग्धं क्वथितं पुत्त्रकारकम् ॥
पलाशस्य तु वीजानि क्षौद्रेण सह पेषयेत् ।रजस्वला तु पीत्वा स्यात् पुष्पगर्भविवर्ज्जिता” ॥
इति गारुडे १८२ अध्यायः ॥
* ॥
हरिरुवाच ।“हरितालं यवक्षारं पत्राङ्गं रक्तचन्दनम् ।जाती हिङ्गुलकं लाक्षा पक्वतैलेन पेषयेत् ॥
हरीतकीकषायेन घृष्ट्वा दन्तान् प्रलेपयेत् ।दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र ! न संशयः ॥
मूलकं स्वेदमग्नौ तु रसं तस्य प्रपेषयेत् ।कर्णयोः पूरणात्तेन कर्णस्रावो विनश्यति ॥
अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति ॥
प्रियड्गुमधुकाम्बष्ठाधातक्युत्पलपक्तिभिः ।मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च ॥
पचेत्तैलं तथा शुष्कक्षारो हिङ्गु महौषधम् ।शतपुष्पा वचा कुष्ठं दारु शिग्रु रसायनम् ॥
सौवच्चलं यवक्षारं तथा सर्ज्जिकसैन्धवम् ।भुजग्रान्थ विडं मुस्तं मधुयुक्तं चतुर्गुणम् ॥
मातुलुङ्गरसस्तद्वत् कदल्याश्च रसो हि तैः ।पक्वतैलं हरेदाशु स्रावादींश्च न संशयः ॥
कर्णयोः कृमिनाशः स्यात् कटुतैलस्य पूरणात् ।हरिद्रा निम्वपत्राणि पिप्पल्यो मरिचानि च ॥
विडङ्गं भद्रमुस्तञ्च सप्तमं विश्वभेषजम् ।गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर ! ॥
अजीणहृद्भवेच्चैका द्वयं विष्टम्भिकापहम् ।पटलं मधुना हन्ति गोमूत्रेण तथार्व्वुदम् ॥
एषा च शङ्करी वर्त्तिः सर्व्वनेत्रामयापहा” ।इति गारुडे १८३ अध्यायः ॥
* ॥
हरिरुवाच ।“वचा मांसी च विल्वञ्च तगरं पद्मकेशरम् ।नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत् ॥
अनेनाधूपितो मर्त्त्यः कामवद्विचरेन्महीम् ।कर्पूरं देवदारुञ्च मधुना सह योजयेत् ॥
लिङ्कलेपाच्च तेनैव वशीकुर्य्यात् स्त्रियं किल ।मैथुनं पुरुषो गच्छत् गृह्णीयात् स्वकमिन्द्रियम् ॥
वामहस्तन वामञ्च हस्तं यस्याः स्त्रिया लिपेत् ।आलिप्ता स्त्री वशं याति नान्यं पुरुषमिच्छति ॥
ओम् रक्तचासुण्डे अमुकं मे वशमानय वशमानयह्रीँ ह्रौँ ह्रः फट् ।इमं जप्त्वायुतं मन्त्रं तिलकेन च शङ्कर ! ।गोरचनासंयुतेन स्वरक्तेन वशीभवेत् ॥
सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम् ।मधु सर्पिः सितायुक्तं स्त्रीणां तद्भगलेपनम् ॥
यः पुमान् मैथुनं गच्छेत् नान्यां नारीं गमिष्यति ॥
शङ्खपुष्पी वचा मांसी सोमराजी च फल्गुकम् ॥
माहिषं नवनीतञ्च गाढीकरणमुत्तमम् ।सनालानि च पद्मानि क्षीरेणाज्येन पेषयेत् ॥
गुटिकां शोषितां कृत्वा नारी योन्यां प्रवेशयेत् ।दशवारं प्रसूतापि पुनः कन्या भविष्यति ॥
सर्षपाश्च वचा चैव मदनस्य फलानि च ।मार्जारविष्ठाधुस्तूरःस्त्रीकेशेन समन्वितः ॥
चातुर्थकहरो धूपो डाकिनीञ्वरनाशनः ।अर्ज्जुनस्य तु पुष्पाणि भल्लातकविडङ्गके ॥
ह्रीवेरकं सर्जरसं सौवीरं सर्षपास्तथा ।सर्पयूकामक्षिकाणां धूपो मशकनाशनः ॥
भूलतायाश्च चूर्णेन स्तम्भः स्यात् योनिपूरणात् ।तेन लेपयतो योनौ भगस्तम्भश्च जायते” ॥
इति गारुडे १८४ अध्यायः ॥
* ॥
हरिरुवाच ।“साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम् ॥
हरितकी वचा कुष्ठं पिप्पल्यो मरिचानि च ।विभीलकस्य वीजानि हरितालं मनःशिला ॥
सर्व्वाक्षिरोगान्नश्येयुरजाक्षीरसमन्विताः ।तत्क्षणात् पुष्पनाशः स्यात् मालतीकुमुमाञ्जनात् ॥
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिला ।कासे श्वासे च हिक्कायां लिह्यात् क्षौद्रं घृतप्लुतम् ॥
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः ।नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥
समूलचित्रकं भस्म पिप्पलीचूर्णकं हरेत् ।कासं श्वासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥
नीलोत्पलं शर्करा च मधुकं पद्मकं समम् ।तण्डुलोदकसंमिश्रं प्रशमेद्रक्त्वविक्रियाम् ॥
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता ।कोकिलस्वरएव स्यात् गुलिकाभक्षमात्रतः ॥
हरितालं शङ्खचूर्णं कदलीदलभस्मना ।एतद्द्रव्येण चोद्वर्त्त्य लोमशातनमुत्तमम् ॥
लवणं हरितालञ्च तण्डुल्याश्च फलानि च ।लाक्षारससमायुक्तं लोमशातनमुत्तमम् ॥
सुधा च हरितालञ्च शङ्खश्चैव मनःशिला ।सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥
तत्क्षणोद्वर्त्तनादेव लोमशातनमुत्तमम् ।शङ्खमामलकीपत्रं धातक्याः कुसुमानि च ॥
पिष्ट्वा तत् पयसा सार्द्धं सप्ताहं धारयेन्मुखे ।स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः” ॥
इति गारुडे १८५ अध्यायः ॥
* ॥
हरिरुवाच ।“शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥
भुक्ते त शर्करा पीता नवनीतेन बुद्धिकृत् ।गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् ॥
प्रत्यहं वर्षमेकन्तु निरन्तरमथो हर ! ।स्त्रीसहस्रञ्च गच्छेच्च पुमान् बलयुतो हर ! ॥
कुष्ठं सुचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।भक्षणात् स्वप्नवेलायां बलीपलितनाशनम् ॥
अतसीमाषगोधूमं चूर्णं कृत्वा च पिप्पलीम् ।घृतेन लेपयेद्गात्रमेभिः सार्द्धं विचक्षणः ॥
कन्दर्पसदृशो मर्त्त्यो भवते नित्यभक्षणात् ।यवास्तिला अश्वगन्धा मुषला शरला गुडम् ॥
एभिश्च वटिकां जग्ध्वा तरुणो बलवान् भवेत् ।हिङ्गु सौवर्च्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः ॥
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥
धातकीं सोमराजीञ्च मधुना सह पेषयेत् ।दुर्ब्बलश्च भवेत् स्थूलो नात्र कार्य्या विचारणा ।शर्करामधुसंयुक्तं नवनीतं बली लिहेत् ॥
क्षीराशी च क्षयी पुष्टिमेवाज्यैरतुलां लभेत् ॥
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरोगनुत् ।भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ।मनःशिला शङ्खचूर्णं तैलपक्वं तथैव च ॥
लोमानि शातयत्येव नात्र कार्य्या विचारणा ॥
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥
वायसी-उदरं गृह्य मण्डूकवसया सह ।गुटिकां कारयेत्तेन ततोऽग्नौ प्रक्षिपेद्वशी ।एवमेतत् प्रयोगेण अग्निस्तम्भनमुत्तमम् ॥
मुण्डीतकवचायुक्तं मरीचं नागरं तथा ।चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥
गोरोचनाभृङ्गराजं चूर्णीकृत्य घृतं समम् ।दिव्याम्भसस्तु स्तम्भः स्यात् मन्त्रेणानेन वै तथा ॥
ओँ ह्यं अग्निस्तम्भनं कुरु । ओँ नमो भगवते जलंस्तम्भय स्तम्भय संस संस केक केक चर चर ।जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥
गृध्रास्थि च गवास्थि च मृतनिर्माल्यमेव च ।अरेर्यो निखनेत् द्वारे पञ्चत्वमुपयाति सः ॥
ब्रह्मदण्डी तु पुष्पेण खाने पाने वशीकरा ॥
यष्टीमधुपलैकेन पक्वमुष्णोदकं पिबेत् ।विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ! ॥
ओँ ह्रः जः ।मन्त्रोऽयं हरते रुद्र ! सर्पवृश्चिकजं विषम् ।पिप्पली नवनीतञ्च शृङ्गवेरञ्च सैन्धवम् ॥
मरीचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ।त्रिफलार्द्रककुष्ठञ्च चन्दनं घृतसंयुतम् ॥
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ! ।पारावतस्य चाक्षीणि हरितालं मनःशिला ॥
एष योगो विषं हन्ति वैनतेय इवोरगान् ॥
सैन्धवं त्र्युषणं चूर्णं दधिमध्वाज्यसंयुतम् ।वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ! ।ब्रह्मदण्डीतिलान् क्वाथ्य चूर्णं त्रिकटुकं पिबेत् ।नाशयेद्रुद्र ! गुल्मानि निरोधं रक्तमेव च ॥
पीत्वा क्षीरं क्षौद्रयुतं नाशयेधृदसृग्रुजम् ॥
अटरूषकमूलेन भगं नाभिञ्च लेपयेत् ।सुखं प्रसूयते नारी नात्र कार्य्या विचारणा ॥
शर्करा मधुसंयुक्ता पीता तण्डु लवारिणा ।रक्तातिसारशमनं भवतीति वृषध्वज ! ” ॥
इति गारुडे १८६ अध्यायः ॥
* ॥
हरिरुवाच ।“मरीचं शृङ्गवेरञ्च कुटजत्वचमेव च ।पानाच्च ग्रहणी नश्येत् शशाङ्ककृतशेखर ! ॥
पिप्पलीं पिप्पलीमूलं मरीचं तगरं वचाम् ।देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥
अनेनैव प्रयोगेण अतीसारो विनश्यति ॥
मरीचतिलपुष्पाभ्यामञ्जनं कामलापहम् ।हरीतकीसमगुडा मधुना सह योजिता ।विरेचनकरी रुद्र ! मवतीति न संशयः ॥
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणीऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम् ॥
हरीतकीं शृङ्गवेरं देवदारु च चन्दनम् ।क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥
जङ्घाशूलमूरुस्तम्भं सप्तरात्रेण नाशयेत् ॥
नाटाञ्च शृङ्गवेरञ्च सूक्ष्मचूर्णानि कारयेत् ॥
गुग्गुलं गुडतुल्यञ्च गुलिकामुपयुज्य तु ।वायुं स्नायुगतञ्चैव अग्निमान्द्यञ्च नाशयेत् ॥
शङ्खपुष्पी तु पुष्येण समुद्धृत्य सपत्रिकाम् ।समूलीं छागदुग्धेन अपस्मारहरां पिबेत् ॥
अश्वगन्धाभये चैव उदकेन समं पिबेत् ।रक्तपित्तं विनश्येत नात्र कार्य्या विचारणा ॥
हरीतकीकुष्ठचूर्णं कृत्वा आस्यञ्च पूरयेत् ।शीतं पीत्वाथ पानीयं सर्व्वच्छर्द्दिनिवारणम् ॥
गुड्ची पद्मकारिष्टं धन्याकं रक्तचन्दनम् ।पित्तश्लेष्मज्वरच्छर्द्दिदाहतृष्णाघ्नमग्निकृत् ॥
ओँ ह्रूँ नम इति ।श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् ।ओँ जम्भनि स्तम्भनि विमोहय सर्व्वव्याधीन् मेवज्रेण ठ ठ सर्व्वव्याधीन् मे वज्रेण फट् । इति ॥
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वाथ न स्पृशेत् ।चातुर्थको ज्वरो रुद्र ! अन्ये चैव ज्वरास्तथा ॥
जम्बूफलं हरिद्रा च सर्पस्यैव च कञ्चुकम् ।स्वर्व्वज्वराणां धूपोऽयं हर ! चातुर्थकस्य च ॥
करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटम् ।चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ॥
पामां विचर्च्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥
पिप्पलीमधुपानाच्च तथा मधुरभोजनात् ॥
प्लीहा विनश्यते रुद्र ! तथा शूरणसेवनात् ॥
पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् ॥
प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत् ।अजादुग्धमार्द्रकञ्च पीतं प्लीहापहं भवेत् ॥
सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः ।रजनी द्वे विषाञ्चैव गोमूत्रेण च पेषयेत् ॥
कुष्ठनाशश्च तत्क्षेपान्निम्बपत्रादनात्तथा” ॥
इति गारुडे १८७ अध्यायः ॥
* ॥
हरिरुवाच ।“रजनीकदलीक्षारलेपः सिध्मविनाशनः ।कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ॥
उष्णोदकेन संपीत्वा कटिशूलविनाशनम् ।अभया नवनीतञ्च शर्करा पिप्पलीयुतम् ॥
पानादर्शोहरं स्याच्च नात्र कार्य्या विचारणा ।अटरूषकपत्रेण घृतं मृद्वग्निना पचेत् ॥
चूर्णं कृत्वा तु लेपोऽयं अर्शोरोगहरः परः ।गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भगन्दरम् ॥
अजाजीं शृङ्गवेरञ्च दधिमण्डेन पाययेत् ।लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् ॥
यवक्षारः शर्करा च मूत्रकृच्छ्रविनाशनम् ॥
चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च ।शोभाञ्जनं चासनेत्रं नर एतैस्तु धूपितः ।अदृश्यस्त्रिदशैः सव्वैः किं पुनर्मानवैः शिव ! ॥
तिलतैलं यवान्दग्ध्वा मसिं कृत्वा तु लेपयेत् ।तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥
लज्जालुः शरपुंखा च लेपः साज्यो हराग्निहा ।पञ्चाङ्गं कनकं गृह्य श्लक्ष्णचूर्णन्तु कारयेत् ॥
दुग्धं धूपं तत्र दत्त्वा तत्क्षणात् पतते ध्रुवम् ।ओँ नमो भगवते छिन्द छिन्द ज्वरस्य शिरःप्रज्वलितपरशुपाणिपुरुषाय फट् ।करे बद्ध्वा तु निर्गुण्ड्या मूलं ज्वरहरं ततः ।मूलञ्च श्वेतगुञ्जायाः कृत्वा तत् सप्तखण्डकम् ॥
हस्ते बद्धं नाशयेच्च अर्शांस्येव न संशयः ॥
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्रादिरक्षणम् ।ब्रह्मदण्ड्यास्तु मूलेन सर्व्वकर्म्माणि कारयेत् ॥
त्रिफलायास्तु चूर्णन्तु साज्यं कुष्ठं विनाशयेत् ॥
आज्यं पुनर्णवाविल्वैः पिप्पलीभिश्च साधितम् ।हरेत् हिक्काश्वासकासं पीतं स्त्रीणाञ्च गर्भकृत् ॥
भक्षयेच्चैवमादीनि पयसाज्येन पाचितम् ।घृतशर्करया युक्तं शुक्रं स्यादक्षयं ततः ॥
विडङ्गं मधुकं पाठां मांसीं सर्ज्जरसन्तथा ।हरिद्रां त्रिफलाञ्चैव अपामार्गं मनःशिलाम् ॥
उडुम्बरं धातकीपुष्पं तिलतैलेन पेषयेत् ।योनिं लिङ्गञ्च मृक्षेत स्त्रीपुंसोः स्यात् प्रियं मिथः ॥
पुनर्णवामृता दूर्व्वा कनकं चेन्द्रवारुणी ।वीजेनैषां जातिकाया रसेन रसमर्दनम् ॥
कृत्वा धमेच्च मूषायां रसमारणमीरितम् ॥
मध्वाज्यसहितं दुग्धं बलीपलितनाशनम् ॥
मध्वाज्यं गुडताम्रञ्च करेणामाक्षिकं रसम् ।धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥
पीतं धुस्तूरपुष्पञ्च सीसकस्य पलं मतम् ।पाठा लाङ्गलशाखा च मूलमावर्त्तनाद्भवेत् ॥
तैलं धुस्तूरवृक्षस्य तेन दीपं प्रदापयेत् ।समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥
रात्रौ च सार्षपं तैलं कर्णं खद्योतसम्भवम् ।तद्दीपः प्रज्वलेत् सम्यक् अग्निज्वालाकलापवत् ॥
कुञ्जरस्य मदार्त्तस्य स्वयं नेत्रे शिवाञ्जयेत् ।संग्रामं जयते सोऽपि महाशूरश्च जायते ॥
दन्तं दुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् ।तिष्ठते जलमध्ये तु निर्विकल्पं स्थले यथा ॥
कुम्भीरनेत्रदंष्ट्राणि सास्थीनि रुधिरं तथा ।वशातैलसमायुक्तमेकत्र तन्नियोजयेत् ॥
आत्मानं म्रक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ।कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च ॥
मूषकस्य वशास्थीनि शिशुमारवशा तथा ।एतान्येकत्र संस्थानि जले तिष्ठेत् यथा गृहे ॥
लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ।तण्डुलीयकगोक्षुरमूलं पीतं पयोऽन्वितम् ॥
कामलादिहरं प्रोक्तं मुखरोगहरं तथा ।जातीमूलं तक्रपीतं कोलिमूलन्तु जीर्णकृत् ॥
सतक्रकाशमूलं वा वाकुचीमूलमेव वा ।काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥
अथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् ।बला चातिबला यष्टी शर्करा मधुसंयुता ॥
बन्ध्यागभकरं पीतं नात्र कार्य्या विचारणा ॥
श्वेतापराजितामूलं पिप्पलीशुण्ठिसंयुतम् ।परिपिष्टं शिरोलेपात् शिरःशूलविनाशनम् ।शिरोरोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् ॥
निर्गुण्डिकाशिफां पीत्वा गण्डमालाविनाशनम् ।केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् ॥
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥
मातुलुङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।वातपित्तजशूलानि हन्ति वै पानयोगतः ।शुण्ठीं सौवर्च्चलं हिङ्गु पीत्वा हृदयरोगनुत्” ॥
इति गारुडे १८८ अध्यायः ॥
* ॥
हरिरुवाच ।ओँ गं गणपतये स्वाहेति ।“अयं गणपतेर्मन्त्रो धनविद्याप्रदायकः ।इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखान्ततः ॥
व्यवहारे जयः स्याच्च शतं जाप्यान्नृणां प्रियः ।तिलानान्तु घृताक्तानां कृष्णानां रुद्र ! होमयेत् ॥
अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ।अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् ॥
तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् ।अपराजितः स्याद्युद्धे च अथ चेदुद्यमे शिव ! ॥
जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन ह ।शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥
ह्रीकारं सविसर्गञ्च प्रातःसूर्य्यससद्युतिम् ।स्त्रीणां ललाटे विन्यस्य वश्यतां नयते ध्रुवम् ॥
तथैव नासामुरसि ध्यातश्चैवोपकारकृत् ।सुसमाहितचित्तेन न्यस्तन्तु प्रमदालये ॥
सकामां कामिनीं कुर्य्यात् स्खलन्मदजलाकुलाम् ।यस्तु जुहुयादयुतं शुचिः प्रयतमानसः ॥
दृष्टिमात्रे सदा तस्य वशमायान्ति योषितः ॥
मनःशिला पत्रकञ्च सगोरोचनकुङ्कुमम् ॥
एभिः कृते च तिलके सदा स्त्री वशतामियात् ॥
सहदेवो भृङ्गराजः सितापराजिता वचा ।तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ।गोरोचना मीनपित्तमाभ्याञ्च कृतवर्त्तिकाम् ॥
यः पुमांस्तिलकं कुर्य्याद्वामहस्तकनिष्ठया ।स करोति वशं सर्व्वं त्रैलोक्यं नात्र संशयः ॥
गोरोचना महादेव ! ऋतुशोणितभाविता ।ततो या कृततिलका सा नारी यं निरीक्षते ॥
तञ्च शर्व्व ! वशं कुर्य्यान्नात्र कार्य्या विचारणा ।नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी ॥
चन्दनं कुष्ठसूक्ष्मैला रक्तशालिसमन्विता ।एतैर्धूपो वशकरः स्मरबाण इवेश्वर ! ॥
रतिकाले महादेव ! पार्ब्बतीप्रिय ! शङ्कर ! ।निजशुक्रं गृहीत्वा तु वामहस्तेन यः पुमान् ॥
कामिनीचरणं वामं लिम्पेत् स स्यात् स्त्रियाः प्रियः ।सैन्धवञ्च महादेव । पारावतमलं मधु ॥
एभिर्लिप्तन्तु लिङ्ग वै कामिनीवशकृद्भवेत् ।पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च ॥
तण्डुलञ्च प्रियङ्गञ्च पेषयेदेकयोगतः ।अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥
हयलाला च मञ्जिष्ठा मालतीकुसुमानि च ।श्वेतसर्षपाण्येतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥
मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत् ।अश्वगन्धानागबलागुडमांसनिषेविणाम् ॥
रूपं भवेत् यथा तद्वन्नवयौवनचारिणाम् ॥
लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।मधुना खादितं रुद्र ! परिणामाख्यशूलनुत् ॥
क्वथितोदकपानन्तु शम्बूकाक्षारकं तथा ।मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।पीतं हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ! ॥
हिङ्गु सौवर्च्चलं रुद्र ! वृषध्वज ! महौषधम् ।एभिस्तु क्वथितं वारि पीतं वै सर्व्वशूलनुत् ॥
अपामार्गस्य वै मूलं सामुद्रलवणान्वितम् ।आस्वादितमजीर्णस्य शूलस्य स्याद्विमर्द्दकम् ॥
वटरोहाङ्कुरो रुद्र ! तण्डलोदकघर्षितः ।पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ! ॥
अङ्कोठमूलं कर्षार्द्धं पिष्टं तण्डुलवारिणा ।सर्व्वातिसारग्रहणीं पीतं हरति भूतप ! ॥
मरीचशुण्ठिकुटजत्वक्चूर्णन्तु गुडान्वितम् ।क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥
श्वेनापराजितामूलं हरिद्रासिक्थतण्डुलम् ।अपामार्गत्रिकटुकमेषान्तु वटिकां शिव ! ।विसूचिकामहाव्याधिं हरत्येव न संशयः ॥
त्रिफला त्रिकटुश्चव शिलाजतु हरीतकी ।एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम् ।पीतं सर्व्वप्रमेहन्तु क्षयं नयति शङ्कर ! ॥
अर्कक्षीरं प्रस्थमेकं तिलतैलं तथैव च ।मनःशिला मरीचानां सिन्दूरस्य पलं पलम् ॥
चूर्णं कृत्वा ताम्रपात्रे त्वातपे शोषयेत्ततः ।पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥
त्रिकटुत्रिफलायुक्तं पलाशाष्टकसैन्धवम् ।मनःशिला निम्बपत्रं जातीपुष्पमजापयः ॥
तन्मूत्रं शङ्खनाभिञ्च चन्दनं घर्षयेत्ततः ।एभिश्च वटिकां कृत्वा अक्षिणी चाञ्जयेत्ततः ॥
नश्यते पटलं काचं पुष्पञ्च तिमिरादिकम् ॥
विभीतकस्य वै चूर्णं समधु श्वासनाशनम् ॥
पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् ।सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥
देवदारोश्च वै चृर्णं अजामूत्रेण भावयेत् ।एकविंशति वै वारमक्षिणी तेन चाञ्जयेत् ॥
रात्र्यन्धता पटलता नश्येदिति विनिश्चयः ।पिप्पली केतकं रुद्र ! हरिद्रामलकं वचा ॥
सर्व्वाक्षिरोगा नश्येयुः सक्षीरादञ्जनात्ततः ॥
काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! ।चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर” ! ॥
इति गारुडे १८९ अध्यायः ॥
* ॥
हरिरुवाच ।“पीतं सारं गुडूच्याश्च मधुना च प्रमेहनुत् ।पीतं गोहालियामूलं तिलदध्याज्यसंयुतम् ॥
निरुद्धमूत्रं क्वथितं प्रवर्त्तयति शङ्कर ! ।तथा हिक्कां हरेत् पीता सौवर्च्चलयुता मुरा ॥
गोरक्षकर्क्कटीमूलं पिष्टं वास्योदकेन च ।पीतं दिनत्रयेणैव नाशयेत् दन्तशर्क्कराम् ॥
पिष्टं वै मालतीमूलं ग्रीष्मकाले समाहृतम् ।साधितं छागदुग्धेन पीतं शर्क्करयान्वितम् ॥
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्क्कराम् ॥
द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा ।गण्डमालां हरेल्लेपात् कुरुण्डगलगण्डकम् ॥
रसाञ्जनहरीतक्याश्चूर्णं तेनैव गुण्डनात् ।नश्येद्वै पुरुषव्याधिं नात्र कार्य्या विचारणा ॥
करवीरमूललेपात् लेपात् पूगफलस्य च ।पुंव्याधिर्नश्यते रुद्र ! योगमन्यं वदाम्यहम् ॥
दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात् ।भगन्दरविनाशः स्यादन्ययोगं वदाम्यहम् ॥
जलौकाजग्धरक्तन्तु भगन्दरमुमापते ! ॥
त्रिफलाजलघृष्टञ्च मार्जारास्थिविलेपितम् ।ततो न प्रसवेत् रुद्र ! नात्र कार्य्या विचारणा ॥
हरिद्रा त्वेकवारन्तु स्नुहीक्षीरेण भाविता ।झटित्यर्शो निपतति तल्लेपात् वृषभध्वज ! ॥
घोषाफलं सैन्धवञ्च तल्लिप्तार्शः पतेत्तथा ।गव्याज्यं साधितं पीतं पलाशक्षारवारिणा ॥
त्रिगुणेन त्रिकटुकमर्शांसि क्षययेच्छिव ! ।विल्वस्य च फलं दग्धं रक्तार्शसो विनाशनम् ॥
जग्ध्वा कृष्णतिलान्येव नवनीतयुतानि च ।यवक्षारं शुण्ठिचूर्णं युक्तं तुल्यघृतान्वितम् ॥
लीढमग्निं करोत्येष प्रत्युषे वृषभध्वज ! ।शुण्ठ्या च क्वथितं वारि पीतञ्चाग्निं करोति वै ॥
हरीतकी सैन्धवञ्च चित्रकं रुद्र ! पिप्पली ।चूर्णमुष्णोदकेनैषां पीतञ्चातिक्षुधाकरम् ॥
साज्यं शूकरभांसं वै पीतं चातिक्षुधाकरम्” ॥
इति गारुडे १९० अध्यायः ॥
* ॥
हरिरुवाच ।“हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ! ।सर्व्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ! ॥
सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ! ।नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम् ॥
पद्मगौरप्रतीकाशं युक्तं दशशतायुषा ।षोडशाब्दाकृतिं रुद्र ! सततं दुग्धभोजनम् ॥
मधुसर्पिःसमायुक्तं जग्धमायुस्करं भवेत् ।तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् ॥
कुर्य्यान्नरं श्रुतिधरं प्रमद्राजनवल्लभम् ।दध्रा नित्यं भक्षितन्तु वज्रदेहकरं शिव ! ॥
कृष्णकेशसमायुक्तं नरं वर्षसहस्रिणम् ।तच्च काञ्जिकसंयुक्तं नरं कुर्य्याच्च भक्षितम् ॥
शतशर्षं दिव्यदेहं बलीपलितवर्जितम् ।जग्धं त्रिफलया युक्तं चक्षुष्मन्तं करोति वै ॥
अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणात् ।महिषक्षीरसंयुक्तं तल्लेपः कृष्णकेशकृत् ॥
खल्लीटस्य च वै केशा भवन्ति वृषभध्वज ! ।तैलयुक्तेन चूर्णेन बलीपलितवर्जितम् ॥
तदुद्वर्त्तनमात्रेण सर्व्वरोगैः प्रमुच्यते ।सच्छागक्षीरचूर्णेन दृष्टिः षण्मासतोऽञ्जनात् ॥
पलाशस्य तु वीजानि श्रावणे वितुषाणि च ।गृहीत्वा नवनीतेन तेषां चूर्णन्तु भक्षयेत् ॥
कर्षार्द्धमेव कुल्माषं नत्वा नित्यं हरिं प्रभुम् ।यष्टिं पुराणधान्यं स्यादम्बुवर्ज्जं वृषध्वज ! ॥
जीवेद्वर्षसहस्राणि बलीपलितवर्जितः ॥
भृङ्गराजस्य वै चूर्णं पुष्यर्क्षे तु समाहृतम् ।विडालपदमात्रन्तु ससौवीरञ्च भक्षयेत् ।मासमात्रप्रयोगेण बलीपलितवर्जितः ॥
शतानि पञ्च जीवेच्च नवनागबलो भवेत् ।भवेत् श्रुतिधरो रुद्र ! पुष्यर्क्षेचैव भक्षयेत्” ॥
इति गारुडे १९१ अध्यायः ॥
* ॥
हरिरुवाच ।“निर्व्रणः स्यात् पूयहीनः प्रहारो घृतपूरितः ।अपामार्गस्य वै मूलं हस्ताभ्याञ्च विमर्द्दयेत् ॥
तद्रसेन प्रहारस्य रक्तस्रावो न पूरणात् ।रुद्र ! लाङ्गलिकामूलं हिज्जलस्य तथैव च ॥
तेन व्रणमुखं लिप्तं शल्यो निःसरति व्रणात् ।चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ! ॥
दध्ना माहिषेण युक्तं जग्धं कोद्रवभक्तकम् ।कङ्गुमूलस्य वै चूर्णं दत्तं नाडीव्रणापहम् ॥
ब्रह्मयष्टिफलं पिष्टं वारिणा तेन लेपतः ।तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥
यवभस्म विडङ्गञ्च गन्धपाषाणमेव च ।शुण्ठिरेषाञ्चैव चूर्णं भावितं रुधिरेण वै ।कृकलाशस्य तल्लिप्तं अर्व्वुदं विद्रवेच्छिव ! ॥
शोभाञ्जनस्य वीजानि अतसीमसिना सह ।गोरसन्तु प्रपिष्ट्वान्यत् ग्रन्थिकं नाशयेद्धि वै ॥
श्वेतापराजितामूलं पिष्ट तण्डुलवारिणा ।तेन नस्यप्रदानात् स्याद्भूतवृन्दस्य विद्रवः ॥
अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् ॥
भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः ।गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः ॥
गौरोचना मरीचानि पिप्पली सैन्धवं मधु ।अञ्जनं कृतमेभिः स्यात् ग्रहभूतहरं शिव ! ॥
गुग्गुलूलूकपुच्छाभ्यां धूपो ग्रहहरः कृतः ।चातुर्थिकज्वरैर्मुक्तः कृष्णवस्त्राबगुण्ठितः” ॥
इति गारुडे १९२ अध्यायः ॥
* ॥
हरिरुवाच ।“श्वेतापराजितापुष्परसेनाक्ष्णोश्च पूरणे ।पटलं नाशमायाति ह्येतदुत्तममौषधम् ॥
मूलं गोक्षुरकस्यैव चर्व्वित्वा नीललोहित ! ।दन्तकीटव्यथां नश्येदन्धासुरविमर्द्दन ! ॥
नारी पुष्पदिने पीत्वा गोक्षीरेणोपवासतः ॥
श्वेतार्कस्य तु वै मूलं तस्यास्तद्गुल्मशूलनुत् ॥
श्वेतार्कमूलं विधिना गृहीतं पूर्व्वसंस्थितम् ।ऋतुशुद्धा च ललना कटौ बद्ध्वा नरोऽथ वा ।नारी पुत्त्रंहि लभते सुरते वृषभध्वज ! ।हस्तबद्धं पलाशस्य अपामार्गस्य वा हर ! ।मूलं सर्व्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥
पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ।शिखायाञ्चैव तद्बद्धं भवेदेकाहिकादिनुत् ॥
एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ।वास्योदकेन पीतं तद्वृहद्विषहरं भवेत् ॥
यस्य लज्जालुकामूलं दीयते बहुवेतसा ।सार्द्धं स वै वशं याति पुमान् स्त्री वा न संशयः ॥
पिष्ट्वा गव्यघृतेनैव पाठामूलं पिबेत्तु यः ।गरं विषं तस्य नश्येन्नात्र कार्य्या विचारणा ॥
वास्योदकयुतं मूलं शिरीषस्य यथा तथा ।रक्तचित्रकमूलस्य शमनं भरणाद्धर ! ॥
कर्णयोः कामलाव्याधिविनाशः स्यान्न संशयः ॥
श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् ।त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत् ।नारिकेलस्य वै पुष्पं छागीक्षीरेण संयुतम् ।पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥
कुर्य्यात् सुदर्शनामूलं आदित्ये तु समाहृतम् ।कण्ठबद्धं त्र्याहिकादिग्रहभूतविनाशनम् ॥
पुष्ये धवलगुञ्जाया गृहीतं मूलमुत्तमम् ।मुखे तु निहितं रुद्र ! हरेत् गरविषं बहु ॥
हस्ते बद्धं काण्डनुच्च कण्ठबद्धं ग्रहादिनुत्” ॥
इति गारुडे १९३ अध्यायः ॥
* ॥
हरिरुवाच ।“अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।पीतञ्चापि हरत्येव गण्डमालां न संशयः ॥
तथेन्द्रवारुणीमूलं विधिना पीतमीश्वर ! ।जिङ्गिन्येरण्डकं रुद्र ! शूकशिम्बीसमन्वितम् ॥
शीतोदकञ्च तन्नस्यो बाहुग्रीवाव्यथां हरेत् ॥
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली ।वचा कुष्ठं त्वयं लेपो लिङ्गश्रोत्रस्तनर्द्धिकृत् ॥
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् ।तल्लेपो युवतीनाञ्च कुर्य्यान्मनोहरं स्तनम् ॥
विटपेन्द्रवारुणीमूलं यस्य नाम्ना सुदूरतः ।निक्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥
पुनर्णवायाः शुक्लाया मूलं तण्डुलवारिणा ।पीतं विद्रधि नश्येच्च नात्र कार्य्या विचारणा ॥
कदली यवक्षारन्तु पानीयेन प्रसाधितम् ।तदास्वादनान्नश्यन्ति उदरव्याधयोऽखिलाः ॥
वदरीकारवीमूलं गुडाज्येन समन्वितम् ।अग्निना साधितं जग्ध्वा कृमीन् सर्व्वान् हरेत् शिव ! ।नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥
हरीतकी विडङ्गञ्च हरिद्रा सितसर्षपाः ।सोमराजस्य वीजानि करञ्जस्य च सैन्धवम् ।गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि च ॥
एकश्च त्रिफलाभागस्तथा भागद्वयं शिव ! ।सोमराजस्य वीजानां जग्धं पथ्या च दद्रुनुत् ॥
अम्बुतक्रं सगोमूत्रं क्वथितं लवणान्वितम् ।कांस्यघृष्टं खरं लेपात् कुष्ठदद्रुविनाशनम् ॥
हरिद्रा हरितालञ्च दूर्व्वागोमूत्रसैन्धवम् ।अयं लेपो हन्ति दद्रु पामानं वै गरं तथा ॥
सोमराजस्य वीजानि नवनीतयुतानि च ।मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै ।तक्रानुपानतो रुद्र ! नात्र कार्य्या विचारणा ॥
सितापराजितामूलं वर्त्तितं वास्यवारिणा ।तल्लेपो रुद्र ! मासेन शुक्लकुष्ठविनाशनः ॥
माहिषं नवनीतञ्च सिन्दूरञ्च मरीचकम् ।पामा विलेपिता नश्येद्बहुलापि वृषध्वज ! ॥
विशुष्कगम्भारिमूलं पक्वक्षीरेण संयुतम् ।भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर ! ॥
मूलकस्य च वीजानि अपमार्गरसेन वै ।पिष्टानि तेन लेपेन सिह्लिका रुद्र ! नश्यति ॥
कदलीक्षारसंयुक्ता हरिद्रा सिह्लिकापहा ।रम्भापामार्गयोः क्षार एकस्तैलविमिश्रितः ॥
तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ।कुष्माण्डनालक्षारस्तु सगोमूत्रश्च तत्त्वचः ॥
जलपिष्टा हरिद्रा च सिद्धा मन्दानलेन हि ।माहिषेण पुरीषेण वेष्टिता वृषभध्वज ! ॥
अस्या उद्वर्त्तनं कुर्य्यादङ्गगौरत्वमीश्वर ! ।तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् ॥
तेनोद्वर्त्तितदेहः स्यादुज्ज्वलः सुरभिः पुमान् ।मनोहरश्चानुदिनं दूर्व्वाणां काकजङ्घया ॥
अर्ज्जुनस्य तु पुष्पाणि जम्बुपत्रयुतानि च ।सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥
मन्दोष्णलोध्रनीरं वै चूर्णन्तु कनकस्य च ।तेनोद्वर्त्तितदेहस्य हरेद्ग्रीष्मप्रसारिकाम् ॥
त्वग्दोषश्चैव देवेन्द्र ! घर्म्मदोषश्च नश्यति ।काकजङ्घोद्वर्त्तनञ्च अङ्गरागकरं भवेत् ॥
यष्टीमधु शर्करा च वासकस्य रसो मधु ।एतत् पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥
रक्तपित्तं हरेत् पीतो वासकस्य रसो मधु ।स्वापकाले तोयपानात् पीनसं प्रहितं हरेत् ॥
विभीतकस्य वै चूर्णं पिप्पलीसैन्धवस्य च ।पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ! ॥
चूर्णमामलकस्यैव पीतं शूलहरं परम् ॥
मनःशिला बलामूलं काकपर्णञ्च गुग्गुलुम् ।जातीपत्रं कोलिपत्रं तथा चैव मनःशिला ।एभिश्चैव कृता वर्त्तिर्वदराग्नौ महेश्वर ! ॥
धूमपानं काशहरं नात्र कार्य्या विचारणा ॥
त्रिफलापिप्पलीचूर्णं भक्षितं मधुना युतम् ॥
भोजनादौ हि समधु पिपासां त्वरितं हरेत् ।विल्वमूलञ्च समधु गुडूचीक्वथितं जलम् ॥
पीतं हरेच्च त्रिविधं छर्दि वै नात्र संशयः ।पीतादूर्व्वा छर्दिनुत् स्यात् पिष्टा तण्डुलवारिणा” ॥
इति गारुडे १९४ अध्यायः ॥
* ॥
हरिरुवाच ।“पुनर्णवाया मूलञ्च श्वेतं पुष्ये समाहृतम् ।वारिपीतं तस्य पार्श्वे भवनेषु न पन्नगाः ॥
तार्क्षं मूर्त्तिं वहेद्यो वै भल्लूकदन्तनिर्मिताम् ।स पन्नगैर्न दश्येत यावज्जीवं वृषध्वज ! ॥
पिबेद्गरुडमूलं यः पुष्यर्क्षे रुद्र ! वारिणा ।तस्मिन्नपास्तदशना नागाः स्युर्नात्र संशयः ॥
पुष्ये लज्जालुकामूले हस्तबद्धे तु पन्नगान् ।गृह्णीयाल्लेपतो वापि नात्र कार्य्या विचारणा ॥
पुष्ये श्वेतार्कमूलञ्च पीतं शीतेन वारिणा ।नश्येत दन्तकविषं करवीरादिजं विषम् ॥
महाकालस्य वै मूलं पिष्टं तत् काञ्जिकेन वै ।वोड्रमण्डलिकानाञ्चतल्लेपो हरते विषम् ॥
तण्डुलीयकमूलञ्च पिष्टं तण्डलवारिणा ।घृतेन सह पीतन्तु हरेत् सर्पविषाणि च ॥
नीली लज्जालुकामूलं पिष्टं तण्डुलवारिणा ।पीत्वा दद्दष्टकविषं नश्येदेकेन चोभयोः ॥
कुष्माण्डकफलरसः सगुडः सहशर्करः ।पीतः सदुग्धो मोहन्तु तद्दष्टस्य विषस्य वै ॥
तथा काद्रवभूतस्य मोहस्य हर एव च ।यष्टीमधुसमायुक्ता पीता च सितशर्करा ॥
सदुग्धा च त्रिरात्रेण मूषाविषहरा भवेत् ॥
चुम्बुकत्रयपानाच्च वांरिणः शीतलस्य वै ।ताम्बूलजग्धरोमाञ्च मुखलाला विनश्यति ॥
घृतं सशर्करं पीत्वा मद्यपानमदो न वै ।कृष्णाङ्कोठस्य मूलेन पीतम्त्क्वथितं जलम् ।ततो नश्येद्दारुविषं त्रिरात्रेण महेश्वर ! ॥
उष्णं गव्यघृतं पीतं सैन्धवेन समन्वितम् ।नाशयेत्तन्महादेव ! वेदनां वृश्चिकोद्भवाम् ॥
कुसुम्भं कुङ्कुमञ्चैव हरितालं मनःशिला ।करञ्जपिशितञ्चैव अर्ककीटञ्च शाल्मली ॥
विषं नॄणां विनश्येत एतेषां भक्षणाच्छिव ! ।दीपतैलप्रदानाच्च दंशे वृश्चिकजे शिव ! ॥
खर्ज्जुरकविषं नश्येत्तदा वै नात्र संशयः ।दंशस्थानं वृश्चिकस्य रुद्र ! गुग्गुलुधूपितम् ॥
विषं नश्येत्ततो रुद्र ! तात्र कार्य्या विचारणा ॥
अङ्कोठपत्रधूपेन नश्येन्मषिकजं विषम् ॥
नागेश्वरमरीचानि शुण्ठी तगरपादिका ।नश्येन्मधुमक्षिकाया एतेषां लेपतो विषम् ॥
शतपुष्पा सैन्धवञ्च साज्यं वा तेन लेपतः ।शिरीषस्य च वीजं वै सितक्षीरेण घर्षितम् ॥
तल्लेपेन महादेव ! नश्येदुन्दुरुजं विषम् ॥
ज्वलिताग्निना विसेकी तथा दर्द्दुरजं विषम् ॥
धुस्तूरकरसोन्मिश्रं क्षीराज्यगुडपानतः ।शूनां विषं विनश्येत शशाङ्ककृतशेखर ! ॥
वटनिम्बशमीनाञ्चवल्कलैः क्वथितं जलम् ।तत्सेकान्नखदन्तानां नश्येद्व विषवेदनाम् ॥
देवदारु हरिद्रा च गैरिकस्य च लेपनात् ।नागेश्वरं हरिद्रे द्वे मञ्जिष्ठा देवदारुकम् ।एभिर्लेपाद्विनश्येत लूताविषमुमापते” ! ॥
इति गारुडे १९५ अध्यायः ॥
* ॥
हरिरुवाच ।“एकं पुनर्णवामूलं अपामार्गस्य वा शिव ! ।सरसं योनिविक्षिप्तं बराङ्गस्य व्यथां हरेत् ॥
प्रसूतिवेदनाञ्चैव तरुणीनां व्यथा हरेत् ॥
मूमिकुष्माण्डमूलं वै शालितण्डुलवारिणा ।सप्ताहं दुग्धपीतं स्यात् स्त्रीणां बहुपयस्करम् ॥
रुद्रेन्द्रवारुणीमूललेपात् स्त्रीस्तनवेदना ।नश्येत् घृतविपक्वा च कार्य्यावश्यं तु पालिका ।मक्षिता सा महेशान ! योनिशूलं विनाशयेत् ॥
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ।योनिः प्रवेशमायाति नात्र कार्य्या विचारणा ॥
नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥
पिष्टान्येषां प्रलेपो वै ज्वालागर्द्दभरोगनुत् ॥
पाठामूलं रुद्र ! पीतं पिष्टं तण्डुलवारिणा ।पापरोगहरं स्याच्च कुष्ठपानन्तथैव च ॥
वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ।पापरोगस्य सन्तापनिवृत्तिं कुरुते शिव ! ॥
कदलीमेकुचं पीतं पिष्ट्वा तण्डुलवारिणा ।स्त्रीणाञ्चैव महादेव ! रक्तस्रावं हि वारयेत् ॥
घृततुल्या रुद्र ! लाक्षा पीता क्षीरेण वै सह ।प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥
द्विजयष्टीत्रिकटुकं चूर्णं पीतं हरेच्छिव ! ।तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ! ॥
कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर ! ।रक्तोत्पलस्य वै कन्दं शर्करातिलसंयुतम् ॥
पीतं सशर्करं स्त्रीणां धारयेत् गर्भपातनम् ।रक्तस्रावस्य नाशः स्यात् शीतोदकनिषेवनात् ॥
पीतन्तु काञ्जिकं रुद्र ! क्वथितं शरपुंखया ।हिङ्गुसैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ॥
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ।अपामार्गस्य वै मूलं योनिस्थञ्च प्रसूतिकृत् ॥
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।उत्पाट्यमाने सकले पुत्त्रः स्यादन्यथा सुता ॥
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।गर्भशूलं विनश्येत नात्र कार्य्या विचारणा ॥
कर्पूरमदनफलमधुकैः पूरितः शिव ! ।योनिः शुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर ! ॥
यस्य बालस्य तिलकः कृतो गोरोचनाख्यया ।शर्कराकुष्ठपानञ्च दत्तं स स्याच्च निर्भयः ॥
विषभूतग्रहादिभ्यो व्याधिभ्यो बालकः शिव ! ।शङ्खनाभिवचाकुष्ठलोहानां धारणं सदा ॥
बालानामुपसर्गेभ्यो रुद्र ! रक्षाकरं भवेत् ।पलाशचूर्णं समधु गव्याज्यामलकान्वितम् ॥
सविडङ्गं पीतमात्रं नरं कुर्य्यान्महामतिम् ।मासैकेन महादेव ! जरामरणवर्ज्जितम् ॥
पलाशवीजं सघृतं तिलमध्वन्वितं समम् ।सप्ताहं भक्षितं रुद्र ! जरां नयति संक्षयम् ॥
रुद्रामलकचूर्णं वै मधुतैलघृतान्वितम् ।जग्ध्वा मांसं युवा स्याच्च नरो वागीश्वरो भवेत् ॥
शिवामलकचूर्णं वै मधुना उदकेन वा ।वलानि कुर्य्यान्नासायाः प्रत्यूषे भक्षितं शिव ! ॥
कुष्ठचूर्णं साठ्यमधु प्रातर्जग्ध्वा मवेन्नरः ।साक्षात् सुरभिदेहो वै जीवेद्वर्षसहस्रकम् ॥
माषस्य बिदलान्येव वितुषाणि महेश्वर ! ।घृतमावितशुष्काणि मयसा साधितानि वै ॥
शर्कराज्यपयोभिश्च भक्षयित्वा च कामयेत् ।स्त्रीणां शतं महादेव ! तत्क्षणान्नात्र संशयः ॥
रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत् ।त्रिफलोदकसंघृष्टो बलकृद्भक्षणाद्भवेत् ॥
दुग्धं वितुषमार्षञ्च शिम्बीवीजैश्च साधितम् ।अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत्” ॥
इति गारुडे १९६ अध्यायः ॥
* ॥
हरिरुवाच ।“या गौर्द्वेष्टि स्वकं वत्सं तस्या देयं स्वकं पयः ।लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥
शुनोऽस्थि कण्ठबद्धं हि महिषीणां गवान्तथा ।कृमिजालं पातयति सकलं नात्र संशयः ॥
गोजङ्गलाभिपातः स्यात् गुञ्जामूलस्य भक्षणात् ।वरुणफलस्य रसं करेण मथितं शिव ! ॥
चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ।व्रणञ्च शमयेद्रुद्र ! यवानां पूरणात्तथा ॥
गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ।समसूरं शालिवीजं पीतं तक्रेण घर्षितम् ॥
क्षीरं गोमहिषस्यैव गोः पुंसश्च हितं भवेत् ।पत्रञ्च शरपुंङ्खाया दत्तं सलवणं शिव ! ॥
वारिस्फोटं हयानाञ्च वेशराणां विनाशयेत् ।अश्वाश्च सुन्दरच्छाया भवन्ति च न संशयः ॥
गृहकुमारीपत्रं वै दत्तं सलवणं हर ! ।तुरङ्गमवेशराणां कण्डुनुत् स्याद्दशाहतः” ॥
इति गारुडे १९७ अध्यायः ॥
* ॥
हरिरुवाच ।“चित्रकस्याष्टभागानि शूरणस्य च षोडश ।शुण्ठ्याश्चत्वारि भागानि मरीचानां द्वयं तथा ॥
पिप्पली पिप्पलीमूलं विडङ्गानां चतुष्टयम् ।अष्टौ मुषलीभागाश्च त्रिफलायाश्चतुष्टयम् ॥
द्विगुणेन गुडेनैषां मोदकानि हि कारयेत् ।तद्भक्षणमजीर्णं हि पाण्डुरोगञ्च कामलाम् ॥
अतिश्रोणि च मन्दाग्निं प्लीहाद्यञ्च निवारयेत् ।विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ॥
प्रसारण्यश्वगन्धा च वृहती कण्टकारिका ।बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्णवा ॥
एरण्डशारिवा पर्णी गुडूची कपिकच्छरा ।एषां दशपलान् भागान् क्वाथयेत् सलिलेऽमले ॥
तेन पादावशेषेण तैलपात्रे विपाचयेत् ।आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ॥
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ।द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि तच्छणु ॥
शतपुष्पा देवदारु बला पर्णी वचागुरु ।कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्णवा ॥
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ।हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥
अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ।गर्ठ्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ! ॥
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ।तैलमेतत् प्रयोक्तव्यं सर्व्ववातविकारिणाम् ॥
हिङ्गु तुम्बुरु शुण्ठ्या च साध्यं तैलन्तु सार्षपम् ।एतद्धि पूरणं श्रेष्ठं कर्णशूलापहं परम् ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्विपाचयेत् ॥
वाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।क्रमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।भुजग्रन्थि विडं मुस्तं मधु शुक्लं चतुर्गुणम् ॥
मातुलुङ्गरसञ्चैव कदलीरसमेव च ।तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ॥
व्याधिजः कर्णनादश्च पूयस्रावश्च दारुणः ।पूरणादस्य तैलस्य क्रमयः कर्णयोः खिलाः ॥
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥
चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।जातीकक्कोलपूगानां लवङ्गस्य फलानि च ॥
अगुरूशीरकस्तुर्य्यः कुष्ठं तगरनालिका ।गोरोचना प्रियङ्गुश्च चोलो दमनकं नखम् ॥
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।कर्पूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ॥
प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ।पुमान्युवा स्यात्शुक्राढ्यः स्त्रीणां चात्यन्तदुर्ल्लभः ।स्त्रीशतं गच्छते रुद्र ! बन्ध्यापि लभते सुतम् ॥
यमानी चित्रकं धान्यं त्र्युषणं जीरकं तथा ।सौवर्च्चलं विडं वच्यं पिप्पलीमूलराजिकम् ।एभिः पचेत् घृतप्रस्थं जलप्रस्थाष्टसंयुतम् ॥
मर्म्मार्शोगुल्मश्वयथुं हन्ति वह्निं करोति वै ॥
मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला ।देवदारुहरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ।विशाला करवीरञ्च अर्कक्षीरं शकृद्रसम् ॥
एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ।प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ॥
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ।पामा विचर्च्चिका चैव दद्रुविष्फोटकानि च ॥
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ।प्रसूतान्यपि श्वित्राणि तैलनानेन म्रक्षयेत् ॥
चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ।पटोलपत्रं कटुका मञ्जिष्ठा शारिवा निशा ॥
जाती शमी निम्बपत्रं मधुकं क्वथितं घृतम् ।एभिर्लेपात् स्युररुजो व्रणा वै स्राविणः शिव ! ॥
शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला ।अभया च गुडूची च अटरूषकवाकुची ॥
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
कण्टकार्य्या रसं प्रस्थं क्षीरप्रस्थसमन्वितम् ।एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥
अग्निजिह्वा वचा वासा पिप्पली मधु सैन्धवम् ।सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥
अपामार्गो गुडूची च कुष्ठं शतावरी वचा ।शङ्खपुष्प्यभया साज्यं विडङ्गं भक्षितं समम् ।त्रिभिर्दिनैर्नरं कुर्य्याद्ग्रन्थाष्टशतधारिणम् ॥
अद्भिर्वा पयसाज्येन मासमेकन्तु सेविता ।वचा कुर्य्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥
चन्द्रसूर्य्यग्रहे पीतं पलमेकं पयोऽन्वितम् ।वचायास्तत्क्षणं कुर्य्यात् महाप्रज्ञान्वितं नरम् ॥
भूनिम्बनिम्बत्रिफलापर्पटैञ्च शृतं जलम् ।पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत् ।विस्फोटकानि व्यक्तानि नात्र कार्य्या विचारणा ।कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ॥
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ।एषां वर्त्तिर्हन्ति काचं तिमिरं पटलं तथा ॥
प्रस्थे द्वे गण्डमालानां क्वाथयेद्द्रोणम्रम्भसाम् ।चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।पुनर्णवा गोक्षुरकं सैन्धवं युषणं वचा ॥
सरलं सुरदारुश्च मञ्जिष्ठा कण्ठकारिका ।नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ॥
वाधिर्य्यं सर्व्वरोगांश्च अभ्यङ्गाच्च महेश्वर ! ॥
पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ।पञ्चप्रस्थं त्वारनालं तैलप्रस्थं पचेत्ततः ।ग्रहगृह्यस्वरप्लीहसर्व्ववातविकारनुत् ॥
उदुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् ।पिप्पलञ्च कदम्बञ्च पलाशं लोध्रतिन्दुकम् ॥
मधुकमाम्रसर्जञ्च वदरं पद्मकेशरम् ।शिरीषवीजं कतकमेतत्क्वाथेन साधितम् ।तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि” ॥
इति गारुडे १९८ अध्यायः ॥
* ॥
हरिरुवाच ।“पाठा द्वे रजनी कुष्ठमश्वगन्धाजमोदकम् ।वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥
ब्राह्मीरसे भावितञ्च सर्पिर्मधुसमन्वितम् ।सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥
सिद्धार्थकवचाहिङ्गुकरञ्जं देवदारु च ।मञ्जिष्ठा त्रिफला श्वेता शिंरीषो रजनीद्वयम् ॥
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम् ॥
निम्बकुष्ठे हरिद्रे द्वे शिग्रु सर्षपजस्तरुः ।देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥
देहं तलाक्तगात्रं वै अनेनोद्वर्त्तयेत्ततः ।पामाः कुष्ठानि नश्येयुः कण्डुं पिटकसक्थिकीम् ॥
सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् ।कटुलोहरजः कीटं त्रिवृत् शूरणकं समम् ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।एतच्चाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥
जीर्णे जीर्णे च भुञ्जीत मासादिघृतभोजनम् ।नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ।सर्व्वशूलहरं चूर्णं जठरानलदीपनम् ।परिणामसमुत्थस्य शूलस्य च हितं परम् ॥
अभयामलकं द्राक्षा पिप्पली कण्टकारिका ।शृङ्गं पुनर्णवा शुण्ठी जग्ध्वा काशं निहन्ति वै ॥
अभयामलकं द्राक्षा पाठा चैव विभीतकम् ।शर्क्करा च समञ्चैव जग्धं ज्वरहरं भवेत् ॥
त्रिफला वदरं द्राक्षा पिप्पली च विरेचकृत् ।हरीतकी सोष्णनीरा लवणञ्च विरेचकृत् ॥
कूर्म्ममत्स्याखुमहिषगोशृगालाश्च वानराः ।विडालवर्हिकाकाश्च वराहोलूककुक्कुटाः ॥
हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम् ।धूपं दद्यात् ज्वरार्त्तेभ्य उन्मत्तेभ्यश्च शान्तये ॥
अपस्माराभिभूतेभ्यो ग्रहार्त्तेभ्यश्च शान्तये ।एतान्यौषधजातानि कथितानि महेश्वर ! ॥
निहन्ति यानि रोगाणि वृक्षमिन्द्राशनिर्यथा ।औषधे भगवान् विष्णुः स्मृतोऽसौ रोगनुद्भवेत् ॥
ध्यातोऽर्च्चितः स्तुतो वापि नात्र कार्य्याविचारणा” ॥
इति गारुडे १९९ अध्यायः ॥
(विष्णुः । यथा महाभारते । विष्णोः सहस्रनाम-कीर्त्तने । १३ । १४९ । ४४ ।“अमृतांशूद्भवो भानुः शशविन्दुः सुरेश्वरः ।औषधं जगतः सेतुः सत्यधर्म्मः पराक्रमः” ॥
)
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
