| YouTube Channel

औषदश्वि (auSadazvi)

 
Monier Williams Cologne
English
औषदश्वि
m.
a descendant of Oṣad-aśva,
N.
of Vasumat,
MBh.
i, 3664.
Monier Williams 1872
English
औषदश्वि औषदश्वि, इस्, m. (fr. ओषदश्व),
a patronymic of Vasumat.
Mahabharata
English
Aushadaśvi. § 149 (Yayāti): I, 93, †3664 (Vasumān), †3688.
वाचस्पत्यम्
Sanskrit
औषदश्वि
पु०
ओषदश्वस्य नृपस्यापत्यम् इञ् ओषदश्विनृपभेदापत्ये वसुमति यथातिदौहित्रे “पृच्छामि त्वांबसुमानौषदश्विर्य्यद्यस्ति लोके यदि मे नरेन्द्र ।” भा० आ०९३ अ० अग्य यथा ययातिर्मातामहस्तथा औशी-नरिशब्दे दर्शितः तत्र भवच्छब्देनैतस्यापि परामर्शात्ध
न०
ओषधेरिदम् “ओषधेरजातौ” पा० अण् ओषधि-जाते अन्नादौ रोगनाशके द्रव्यभेदे स्वार्थेऽण् ।३ ओषधौ औषधशब्दार्थश्च सुश्रुते दर्शितः“एवमेतत्पुरुषोव्याधिरौषधम् क्रियाकाल इति चतुष्टयं व्याख्यातम्” इत्युक्त्वा “औषधग्रहणात् द्रव्यगुणरसवीर्य्यविपाकप्रभवानामादेशः” इत्युक्तम् तेन द्रव्यमात्रसाध्य-स्यौषधत्वम् अतएव तैलघृतजलविषविशेषाणामप्यौ-षधत्वम् “रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ततःकर्म्म मिषक् पश्चात् ज्ञानपूर्व्वं समाचरेत्” चक्रद० परिपाटीमुक्त्वा रोगभेदेन औषधविशेषा उक्तास्तत एव तेऽ-धिगम्याः तदुपयोगिभूम्यादिकं सुश्रुते दर्शितं यथा“अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामःश्वभ्रशर्कराश्मविषमवल्मीकश्मशानाद्यायतनदेवतायतनसिक-ताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररो-हवतींमृर्द्वी स्थिरां समां कृष्णां गौरीं लोहितां वाभूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रात-पपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टंपृघ्वगाढ-मूलमुदीच्यां चौषधमाददीतेत्यौषधभूमिपरीक्षाविशेषः सा-मान्यः विशेषतस्तु तत्राश्मवती स्थिरा गुर्व्वी श्यामाकृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा स्निग्धा शीतलासन्नोदका स्निग्धशष्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुणमूयिष्ठा नानावर्ण्णा लघ्वश्मवती प्रविरलाल्पपाण्डु-वृक्षप्ररोहाऽग्निगुणभूयिष्ठा रूक्षा भस्मरासभवर्णातनुरूक्षकोटराल्परसवृक्षप्रायाऽनिलगुणभूयिष्ठा मृद्वीसभा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वत-दृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा तत्र केचिदाहु-राचार्य्याः प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यंमूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु सम्यक्कस्मात्सौम्याग्नेयत्वाज्जगतः सौम्यान्यौषधानि सौम्येषुऋतुष्वाददीताग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति ।सौम्यान्यौषधानि सौम्येषु ऋतुषु गृहीतानि सोमगुणभूयि-ष्ठायां भूमौ जातान्यतिमधुरस्रिग्धशीतानि जायन्ते ।एतेन शेषं व्याख्यातम् तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौजातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुणभूयि-ष्ठायां वमनद्रव्याणि उभयगुणभूयिष्ठायामुभयतोभागानि ।आकाशगणभूयिष्ठायां संशमनान्येवं बलवत्तराणि भवन्ति ।सर्वाण्येव चाभिनवान्यन्यत्र मधुघृतगुडपिप्पलीविड-ङ्गेभ्यः सर्वाण्येव सक्षीराणि वीर्य्यवन्ति तेषाम-सम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति भवन्ति चात्र ।गोपालास्तापसा व्याधा ये चान्ये वनचारिणः ।मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते सर्वावयव-साध्येषु पलाशलवणादिषु व्यवस्थितो कालोऽस्तितत्र सर्वो विधीयते गन्धवर्णरसोपेता षड्विधा भूमि-रिष्यते तस्माद्भूमिस्वभावेन वीजिनः षड्रसैर्युताः ।अव्यक्तः किल तोयस्य रसो नित्यं विनिश्चितः रस एवसचाव्यक्तो व्यक्तो भूमिरसाद्भवेत् सर्वलक्षणसम्पन्नाभूमिः साधारणा स्मृता द्रव्याणि यत्र तत्रैव तद्गु-णानि विशेषतः विगन्धेनापरामृष्टमविपन्नं रसा-दिभिः नवं द्रव्यं षुराणं वा ग्राह्यमेव विनिर्दिशेत् ।विडङ्गं पिप्पली क्षौद्रं सर्प्पिश्चाप्यनवं हितम् शेषम-न्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम् जङ्गमानां वयःस्थानांरक्तरोमनखादिकम् क्षीरमूत्रपुरीषाणि जीर्णाहारेषुसंहरेत् प्लुतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम् प्रश-स्तायां दिशि शुचौ भेषजागारमिष्यते” ।औषघग्रहणे परिभाषादिकमुक्तं भावप्र० यथा“प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम् अल्पमात्रंबहुगुणं गन्धवर्णरसान्वितम् दोषघ्नमग्लानिकरमधिकंन विकारि यत् समीक्ष्य काले दत्तञ्च भेषजं स्याद्गुणा-वहम् आग्नेया विन्ध्यशैलाद्याः सौम्यो हिमगिरिःस्मृतः अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः ।आग्नेयाः अधिकाग्न्यंशाः सौम्यः अधिकसोमांशः ।औषधयो एवौषधानि अत्र स्वार्थेअण् अनुरूपाणिसदृशानि अन्वेष्वपि प्ररोहन्ति वनेषूपवनेषु ।गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे आदित्यसम्मुखो मौनी नमस्कृत्य शिवं हृदि साधारणधरा-द्रव्यं गृह्णीयादुत्तराश्रितम् साधारणधराद्रव्यम्सर्वभूमिभवन्द्रव्यम् उत्तराश्रितं स्वस्मात् उत्तरदि-ग्भवम् वल्मीककुत्सितानूपश्मशानोषरमार्गजाः ।जन्तुवह्निहिमव्याप्ता नौषध्यः कार्य्यसाधिकाः शरद्य-खिलकार्य्यार्थं ग्राह्यं सरसमौषधम् विरेकवमना-र्थन्तु वसन्तान्तः समाहरेत् वसन्तान्तः वसन्तमध्ये समा-हरेत् संगृह्णीयात् अतिस्थूलजटा याः स्युस्तासांग्राह्यास्त्वचो ध्रुवम् गृह्णीयात् सूक्ष्ममूलानि सक-लान्यपि बुद्धिमान् अन्यच्च महान्ति येषां मूलानिकाष्ठगर्भाणि सर्व्वतः तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि सर्व्वशः न्यग्रोधादेस्त्वचो ग्राह्या सारःस्याद्वीजकादितः तालीसादेश्च पत्राणि फलं स्यात् त्रिफ-लादितः क्वचिन्मूलं क्वचित् कन्दः क्वचित् पत्रं क्व-चित् फलम् क्वचित् पुष्पं क्वचित् सर्व्वं क्वचित् सारःक्वचित् त्वचः चित्रकं शूरणं निम्बो वाला त्रिफलाक्रमात् धातकी कण्टकारी खदिरः क्षीरपादपः ।क्वचिन्निम्बस्य गृह्णीयात् पत्राभावे त्वचामपि बालम्फ-लन्तु विल्वस्य पक्वमारम्बधस्य अङ्गेऽनुक्ते जटाग्राह्या भागेऽनुक्तेऽखिलं समम् पात्रेऽनुक्ते मृदःपात्रं कालेऽनुक्ते त्वहर्मुखम् नवान्येव हि योज्यानिद्रव्याण्यखिलकर्मसु विना विडङ्गकृष्णाभ्यां गुडधान्याज्यमाक्षिकैः धान्यमन्नम् पुराणन्तु प्रशस्तं स्यात्ताम्बूल-ङ्काञ्जिकन्तथा शुष्कन्नवीनद्रव्यन्तु योज्यं सकलकर्मसु ।आर्द्रन्तु द्विगुणं युञ्ज्यादेष सर्व्वत्र निश्चयः गुडूचीकुटजी बाला कूष्माण्डश्च शतावरी अश्वगन्धा सहचरीशतपुष्या प्रसारिणी प्रयोक्तव्या सहैवार्द्रा द्विगुणंनैव कारयेत् सहचरी कुरण्टकः (कटरै आ) इतिलोके ।वासानिम्बपटोलकेतकलबला कुष्माण्डकेन्दी वरी वर्षाभूःकुटजाश्च कन्दसहिता सा पूतिगन्धा मृता ऐन्द्री नाग-बला कुरुण्टक पुरी छत्रामृता सर्व्वदा सार्द्रा एवतु कु-त्रचित् द्विगुणिता कार्य्येषु योज्या बुधैः ऐन्द्री इन्द्रवा-रुणी वरी शतावरी पूतिमन्धा गन्धप्रसादनी ना-गबला (गुलशकरि) कुरण्टकः (पीतपुष्पझाँटि) (कटसरैआ)पुरी गुग्गुलुः घृतन्तैलञ्च पानीयं कषायं व्यञ्जनादिकम् ।पक्त्वा शीतीकृतं चोष्णं तत्सर्व्वं स्याद्विषोपमम् ।द्रव्याणां परीक्षा सूक्ष्मास्थिमांसला पथ्या सर्वकर्म्मणिपूजिता क्षिप्ताम्भसि निमज्जेद्या भल्लातक्य स्तथोत्तमाः ।वराहमूर्द्धवत्कन्दो वारहीकन्दसंज्ञकः सौवर्चलन्तु काचाभंसैन्धवं स्फटिकप्रभम् सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्त-मम् इन्द्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता श्रेष्ठंशिलाजतु ज्ञेयं प्रक्षिप्तं विशीर्य्यते तोयपूर्णे कांस्यपात्रेप्रतानेन विवर्द्धते कर्पूरस्तुवरः स्निग्धः एला सूक्ष्म-फला वरा श्वेषचन्दनमत्यन्तं सुगन्धि गुरु पूजितम् ।रक्तचन्दनमत्यन्तं लोहितम्प्रवरं मतम् काकतुण्डानिभःस्निग्धोऽगुरुः श्रेष्ठो गुरुर्मतः सुगन्धि लघु रूक्षञ्चसुरदारु वरं मतम् सरलं स्लिग्धमत्यर्थं सुगन्धि गुणाव-हम् अतिपीता प्रशस्ता तु ज्ञेया दारुनिशांबुधैः ।जातीफलं गुरु स्निग्घं समं शुभ्रान्तरं वरम् मृद्धीका-सोत्तमा ज्ञेया या स्याद्गोस्तानसन्निभा करमर्द्दफलाकरामध्यमा सा प्रकीर्त्तिता गोस्तनसन्निभा (मुनक्वा) इतिलोके करमर्द्दफलाकारा (करोन्दीदाख) इतिलोके खण्डन्तु विमलं श्रेष्ठं चन्द्रकान्तसमप्रभम् ।गव्याज्यसदृशं रुच्यगन्धं मधु वरम्मतम् अथ स्वभावतोहितानि शालीनां लोहितः षालिः षष्ठिकेषु य-ष्टिका शूकधान्येष्वपि यवोगोधूमः प्रवरो मतः ।शिम्बीधान्ये वरो मद्गो मसूरश्चाढकी तथा रसेषु मधुरःश्रेष्ठो लवणेषु सैन्धवम् दाडिमामलकन्द्राक्षास्वर्ज्जू-रञ्च परूषकम् राजादनं मातुलङ्गं फलवर्गेषु शस्यते परू-षकं (फालसा) इति लोके राजादनं (खिरिणी) इतिलोके मातुलुङ्गं (वीजपूरा) इतिलौके पत्रशाकेषु वा-स्तूकं जीवन्ती पोतिका वरा पटीलं फलशाकेषु कन्द-शाकेषृ शूरणम् एणः कुरङ्गो हरिणो जाङ्गलेषु प्र-शस्यते पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः ।हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः कुरङ्गस्ताम्रउद्दिष्टो हरिणः कृत्तिको महान् जलेषु दिव्यं दुग्धेषु गव्यमाज्येषु गोभवम् तैलेषु तिक्तजन्तैलमैक्षवेषुसिता हिता अथ स्वभावादहितानि शिम्बीषु माषान्ग्रीष्मर्त्तौ, लवणेष्वौषरं त्यजेत् फलेषु लकुचं शाकेसार्षपं हितम्मतम् गोमांसं ग्राम्यसांसेषु नहितं महिषी-वसा मेषीपयः कुसुम्भस्य तैलन्त्याज्यञ्च फाणितम् ।इक्षुरसः परिपक्वो योऽर्द्धघनःत त्फाणितम् तद्धि (छोया-राव) इति लोके अथ संयोगविरुद्धानि मत्स्यमानूपमांसञ्च दुग्धयुक्तं विवर्ज्जयेत् कपोतं सर्षपस्नेहभ-र्ज्जितं परिवर्जयेत् मत्स्यानिक्षोर्विकारेण तथा क्षौद्रेणवर्ज्जयेत् सक्तून् मांसपथोयुक्तानुष्णैर्दधि विवर्ज्जयेत् ।उष्णैर्न्नभोऽम्बुना क्षौद्रं पायसं कृशरान्वितम् रम्भाफलंत्यजेत् तक्रं दधि विल्वफलान्वितम् दशाहमुषितं सर्पिःकांस्ये, मधुघृतंसमम् कृतान्नञ्च कषायञ्च पुनरुष्णीकृतंत्यजेत् एकत्र बहुमांसानि विरुध्यन्ते परस्परम् मधुसर्पिर्वसातैलं पानीयं वा पयस्तथा अथ भेषजग्रह-णसङ्केतः लवणं सैन्धवं प्रोक्तं चन्दनं रक्तचन्दनम् ।चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः कषायलेपयोः प्रायो युज्यते रक्तचन्दनम् अन्तःसम्भार्ज्वनेज्ञेया ह्यजमोदा यवानिका बहिःसम्भार्ज्जने सैवविज्ञातव्याजमोदिका पयः सर्पिः प्रयोगेषु गव्यमेवहिगृह्यते अथ प्रतिनिधिः चित्रकाभावती दन्ती क्षारःशिखरिजोऽथवा अभावे धन्वयासस्य प्रक्षेप्तव्या दुरा-लभा शिस्वरी अपामार्गः तगरस्याप्यभावे तु कुष्ठंदद्याद्भिषम्बरः मूर्वाभावे त्वचो ग्राह्या जिङ्गिनीप्रभवाबुधैः अहिंस्राया अमावे तु मानकन्दः प्रकीर्त्तितः ।लक्षणाया अभावे तु नीलकण्ठशिखा मता नीलक-ण्ठशिखा मयुरशिखा बकुलाभावतो देयं कल्हारो-त्पलपङ्कजम् नीलोत्पलस्याभावे तु कुसुदं देयमिष्यते ।जातिपुष्यं यत्रास्ति लवङ्गं तत्र दीयते अर्क्कपर्णादिपयसो ह्यभावे तद्रसो मतः पौष्कराभावतः कुष्ठं तथालाङ्गल्यभावतः स्थौणेयकस्याभावे तु भिषग्भिर्दीयतेऽगदे चविकागजपिप्यल्यौ पिप्यलीमूलवत् स्मृतौ ।अभावे सोमराज्यास्तु प्रपुन्नाटफलं मतम् यदि स्या-द्दारुनिशा तदा देया निशा बुधैः सोमराजी वाकुची ।प्रपुन्नाटफलं चक्रमर्द्दफलम् दारुनिशा दारुहरिद्रानिशा हरिद्रा रसाञ्जनस्याभावे तु सम्यग्दार्व्वी प्रयुज्यतेसौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः सौरष्ट्री(सोरटीमाटी) इति लोके स्फटिका (फटिकारी) इतिलोके तालोशपत्रकाभावे स्वर्णताली प्रशस्यते भार्ग्य-भावे तु तालीसं कण्टकारी जटाऽथ वा रुचकामावतोदद्याल्लवणं पांशुपूर्व्वकम् अभावे मधुयष्ट्यास्तु घात-कीञ्च प्रयोजयेत् रुचकं(चीहार) इति लोके पांशुल-वणं (खारी) अथ वा (रेह इति लोके अम्लवेतसका-भावे चुक्रं दातव्यसिष्यते द्राक्षा यदि लभ्येत प्र-देयं काश्मरीफलम् तयोरभावे कुसुमं बन्धूकस्य मतंबुध्रैः लवङ्गकुसुमं देयं नखस्याभावतः पुनः कस्तू-र्प्यभावे कक्कोलं क्षेपणीयं विदुर्बुधाः कक्कोलस्याप्यभावे तु जातीपूष्पं प्रदीयते सुगन्धीमुस्तकं देयंकर्पूराभावतो बुधैः कर्पूराभावतो देयं ग्रन्थिपर्णंविशेषतः कुङ्कुमाभावतो दद्यात् कुसुम्भकु-सुमं नवम् श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते ।अभावेत्वेतयोर्वैद्यः प्रक्षिपेत् रक्तचन्दनम् रक्तचन्द-नकाभावे नवोशीर विदुर्बुधाः मुस्ता चातिविषाभावे शि-वाभावे शिवा मता अभावे नागपुष्यस्य पद्मकेशरमिष्यते ।मेदा जीवककालोली ऋद्धिद्वन्द्वेऽपि वा सति वरी विदार्य्यश्वगन्धा वाराही क्रमात् स्मृता वरी शतावरी ।वारह्याश्च तथाभावे चम्मकारालुको मतः वाराहीकन्दसंज्ञस्तु पश्चिमे गृष्टिसंज्ञकः वाराहीकन्दएवान्य-श्चर्म्मकारालुको मतः अनूपसम्भवे देशे वराह इव लो-मवान् भल्लातकासम्भत्वे तु रक्तचन्दनमिष्यते भ-ल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः सुवर्णाभावतः खर्ण-माक्षिकं प्रक्षिपेत् बुधः श्वेतन्तु माक्षिकं ज्ञेयं बुधैःरजतवत् ध्रुवम् माक्षिकस्याप्यभावे तु प्रदद्यात् स्वर्णगै-रिकम् सुवर्णमथ वा रौप्यं मृतं यत्र लभ्यते तत्रकान्तेन कर्म्माणि भिषक्कुर्य्याद्विचक्षणः कान्ताभावेतौक्ष्णलोहं योजयेद्वैद्यसत्तमः अभावे मौक्तिक-स्यापि मुक्ताशुक्तिं प्रयोजयेत् मधु यत्र लभ्येत तत्रजीर्णगुडो मतः मत्स्याण्ड्यभावतो दद्युर्मिषजः सित-शर्क्कराम् असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते ।क्षाराभावे रसो मौद्गो मासूरो वा प्रदीयते अत्र प्रोक्तानि वस्तूनि यानि तेषु तेषु योज्यमेकतराभावेपरं वैद्येन जानता रसवोर्थ्यविपाकाद्यैः समं द्रव्यंविचिन्त्य युञ्ज्याद्विविधमन्यच्च द्रव्याणान्तु रसा-दिवित् योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्म्मतः ।यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते याधेरयुक्तंयत् द्रव्यं गुणोक्तमपि तत् त्यजेत् अनुक्तमपि युक्तंयत् यौजयेत् तद्रसादिवित् द्रव्यगतपञ्चपदार्थ-कर्म्माण्याह द्रव्ये रसो गुणो वीर्य्यविपाकः शक्तिरेव ।पदार्थाः पञ्च तिष्ठन्ति स्वंस्वं कुर्व्वन्ति कर्म्म च” ।“वीर्य्यवन्त्यौषधिनीव विकारे सान्निपातिके” कुमा० ।“द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” रघुः ।“विषस्य विषमौषधम्” उद्भटः “भवौषधात् श्रोत्रमनोऽभि-रामात्” भाग० १, १, “औषधं जाह्नवीतोयं वैद्योनाराय-णः खयम्” पुरा० संसाररूपदुःखदायकरोगनिवारके४ परमेश्वरे “औषधं जगतां सेतुः” विक्ष्णु० सं०