| YouTube Channel

औलूक्य (aulUkya)

 
शब्दसागरः
English
औलूक्य
m.
(-क्यः) A follower of the Vaiseshika doctrine.
E.
उलूक an
owl, and ष्यञ् affix, like an owl: this etymology, and perhaps the
word, owes its origin probably to controversial animosity.
Yates
English
औलूक्य (क्यः) 1.
m.
A follower of the
Vaisheshika doctrine.
Spoken Sanskrit
English
औलूक्य aulUkya
m.
follower of the vaizeSika doctrine
Wilson
English
औलूक्य
m.
(-क्यः) A follower of the Vaiśeṣika doctrine.
E.
उलूक an owl, and ष्यञ् affix, like an owl: this etymology, and
perhaps the word, owes its origin probably to controversial animosity.
Apte
English
औलूक्यः [aulūkyḥ], [उलूकस्यापत्यं, यञ्]
N.
of Kaṇāda, the propounder of the Vaiśeṣika philosophy
(see औलूक्य- दर्शन in Sarva. S.
Apte 1890
English
औलूक्यः [उलूकस्यापत्य, यञ्] N. of Kaṇāda, the propounder of the Vaiśeshika philosophy
(see औलूक्यदर्शन in Sarva. S.).
Monier Williams Cologne
English
औलूक्य
m.
a descendant of Ulūka g. गर्गादि,
Pāṇ.
iv, 1, 105
a follower of the Vaiśeṣika doctrine (cf. उलूक).
Monier Williams 1872
English
औलूक्य, a patronymic from Ulūka
(अस्), m. a
follower of the Vaiśeṣika doctrine
(‘like an owl
this etymology, and perhaps the epithet itself, owes
its origin to controversial animosity.)
—औलूक्य-
दर्शन, अम्, n., N. of the system of these philo-
sophers treated of in the Sarvadarśana-saṅgraha.
Apte Hindi
Hindi
औलूक्यः
पुं*
- उलूकस्यापत्य-यञ्
वैशेषिक दर्शन के निर्माता कणाद मुनि
Shabdartha Kaustubha
Kannada
औलूक्य
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉಲೂಕನ ವಂಶದಲ್ಲಿ ಹುಟ್ಟಿದವನು /ಕಣಾದ ಮಹರ್ಷಿ
निष्पत्तिः - > "यञ्" (४-१-१०५)
व्युत्पत्तिः - > उलूकस्य गोत्रापत्यं पुमान्
औलूक्य
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವೈಶೇಷಿಕ ದರ್ಶನದ ಅನುಯಾಯಿ
L R Vaidya
English
OlUkya {% m. %} Kaṇāda, the propounder of the Vaiśeshika Darśana. See Aulūkyadarśana in Sar.D.
अभिधानचिन्तामणिः
Sanskrit
--source--
वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः ८६२
चार्वाको लौकायतिकश्चैते षडपि तार्किकाः
-wordlist-
वैशेषिक (पुं), औलूक्य (पुं), बार्हस्पत्य (पुं), नास्तिक (पुं), चार्वाक (पुं), लौकायतिक (पुं), तार्किक (पुं)
शब्दकल्पद्रुमः
Sanskrit
औलूक्यः,
पुं,
(उलूकस्य मुनेरपत्यं पुमान् उलूक +गर्गादित्वात् यञ् ।) वैशेषिकः वैशेषिकदर्शन-वेत्ता इति हेमचन्द्रः
(अयं खलु कणाद-इत्याख्यया प्रसिद्धः
)
वाचस्पत्यम्
Sanskrit
औलूक्य
पु०
उलूकर्षेरपत्यम् गर्गा० यञ् उलूकनामर्षेर-रपत्ये कणादे वैशेषिकसूत्रकारे तस्य छात्रः कण्वादि०अण् ततो यञो लुक् औलूक औलूक्यच्छात्रे वैशे-षिकसतामिज्ञे उलूक इति ह्रखमध्यं केचिदाहुःऔलूक्यदर्शनन्तु वैशेषिकदर्शनं तत्प्रतिपाद्यविघया उच्यन्ते“आथातो धर्म्मं व्याख्यास्यामः” सू०“तापत्रयपराहता विवेकिनस्तापत्रयनिवृचिनिदानमनुसन्द-धाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कार-मेव तदुपायमाकलयाम्बभूवुः तत्प्राप्तिहेतुमपि पन्थानजिज्ञासामानाः परमकारुणिकं कणादं मुनिमुशसेदु-रथ कणादो मुनिस्तत्त्वज्ञानवैराग्यैश्वर्य्यसम्पन्नः षण्णांपदार्थानां साधर्म्म्यवैधर्म्म्याभ्यां तत्त्वज्ञानमेवात्मतत्त्व-साक्षात्कारप्राप्तये परमः पन्था इति मनसिकृत्य तच्चनिवृत्तिलक्षणाद्धर्मादेतेषामनायायेन सेत्स्यतीति लक्षणतःस्वरूपतश्च धर्ममेव प्रथममुपदिशाम्यनन्तरं षडपि पदा-र्थानुद्देशलक्षणपरीक्षाभिरुपदेक्ष्यामीति हृदि निधायतेषामवधानाय प्रतिजानीते अथातो धर्ममित्यादि” उप०“यतोऽभ्युदयनिःश्रेयससिद्धिः धर्भः” सू०“को धर्मः किंलक्षणश्चेति? सामान्यतः शिष्यजिज्ञा-सायां यतोऽभ्युदयनिश्रेयससिद्धिरित्युपतिष्ठते” तथा चयतोऽभ्युदयसिद्धिर्यतश्च निःश्रेयससिद्धिस्तदुभयं धर्मःएवं पुरुषार्थासाधारणकारणं धर्म इति वक्तव्ये परम-पुरुषार्थयोः सुखदुःखाभावयोर्विशेषतः परिचयार्थमभ्युदयनिःश्रेयससिद्धिरित्युक्तं स्वर्गापवर्गयोरेवान्येच्छा-नधीनेच्छाविषयत्वेन परमपुरुषार्थत्वात् साधयिष्यतेच दुःखाभावस्यापि पुरुषार्थत्वम्” उपस्करः ।“तद्वचनादाम्नायस्य प्राभाण्यम्” सू०“ननु निवृत्तिलक्षणी घर्मस्तत्त्वज्ञानद्वारा निःश्रेयसहेतु-रित्यत्र श्रुतिः प्रमाणं श्रुतेरेव प्रामाण्ये वयं विप्रति-पद्यामहे अनृतव्यावातपुनरुक्तदोषेभ्यः, पुत्रेष्टौ कृताया-मपि पुत्रानुत्पादादनृतत्वम् “उदिते जुहोति अनुदितेजुहोति समयाध्युषिते जुहोतीति” विधेः प्राप्त एवोदिता-दिकाले होमो व्याहन्यते “श्यावोऽस्याहुतिमभ्यवहरतिय उदिते जुहोति योऽनुदिते जुहोति श्यावशवलाव-स्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति” इत्या-दिना तथा “त्रिः प्रथमामन्वाह त्रिरुत्तमामन्वाह”इत्यनेन प्रथमोत्तमसामिधेन्योस्त्रिरुच्चारणाभिधानात्पौनरुक्त्यमेव चाम्नायप्रामाण्यप्रतिपादकं किञ्चि-दस्ति प्रमाणम् नित्यत्वे विप्रतिपत्तौ नित्यनिर्द्दोषत्वमपिसन्दिग्धं पौरुषेयत्वे तु भ्रमप्रमादविप्रतिपत्तिकरणापाट-वादिसम्भावनया आप्नोक्तत्वमपि सन्दिग्धमेवेति निःश्रे-यसं वा तत्र तत्त्वज्ञानं द्वार वा धर्म इतिसर्वमेतदाकुलमत आह तदुद्वचनादाम्नायस्येत्यादि ।तदित्यनुपक्रान्तमपि प्रसिद्धिसिद्धतयेश्वरं परामृशति यथा“तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” इति गौतमीयसूत्रे तच्छब्देनानुपक्रान्तोऽपि वेदः परामृश्यते ।तथा तद्वचनात्तेनेश्वरेण प्रणयनादाम्नायस्य वेदस्यप्रामाण्यं यद्वा तदिति सन्निहितं धर्म्ममेव परामृशतितथाच धर्म्मस्य वचनात् प्रतिपादनात् आम्नायस्यवेदस्य प्रामाण्यं यद्धि वाक्यं प्रामाणिकमर्थं प्रतिपादयतितत्प्रमाणमेव यत इत्यर्थः ईश्वरस्तदाप्तत्वञ्च साधयि-ष्यते यच्चोक्तमनृतव्याघातपुनरुक्तदोषेभ्य इति तत्रा-नृतत्वे जन्मान्तरीयफलकल्पनं कर्मकर्तृसाधनवैगुण्य-कल्पनं वा श्रौतात् साङ्गात् कर्मणः फलावश्यम्भाव-निश्चयात् कारीरीवदैहिकमात्रफलकत्वं तत्रहि शुष्यच्छस्यसञ्जीबनकामस्याधिकारः पुत्रेष्टौ पुत्रकाम-स्येतिविशेषात् नच व्याघातोऽपि उदितादिहोमं विशे-षतः प्रतिज्ञाय तदन्यकाले होमानुष्ठाने “श्यावोऽस्याहु-तिमभ्यवहरति” इत्यादिनिन्दाप्रतिपादनात् पुन-रुक्ततादोषोऽपि एकादशसामिधेनीनां प्रकृतौ पाठात्“पञ्चदशावरेण वाग्वज्रेणावबाधे तमिमं भ्रातृव्यम्”इत्यत्र सामिघेनीनां पञ्चदपत्वस्य प्रथमोत्तमसामिधेन्यो-स्त्रिरभिधानमन्तरेणानुपपत्तेस्तथाभिधानात्” उपस्क० ।शिष्याकाङ्क्षानुरोधेन स्वरूपतोलक्षणतश्च धर्म्मं व्याख्या-याभिधेयसम्बन्धफलप्रतिप्रादानायाह “धर्म्मविशेषप्रसूतात्द्रव्यगुणकर्म्मसामान्यविशेषसमवायानां पदार्थानां मा-धर्ह्मवैधर्म्माभ्यां तत्त्वज्ञानान्नि श्रेयमम्” सू ।“एतादृशं तत्त्वज्ञानं वैशेषिकशास्त्राधीनमिति तस्यापि निःश्रे-समहेतुत्वंदण्डापूपायितम् तत्त्वं ज्ञायतेऽनेनेति करण-व्युत्पत्त्याशास्त्रपरत्वे धर्म्मविशेषपसूतादित्यनेनानन्वयापत्तेः ।सर्व्वपदार्थप्रधानो द्वन्द्वश्चात्र समासः सर्वपदार्थतत्त्वज्ञा-नस्य निःश्रेयसहेतुत्वात् तदत्र शास्त्रनिःश्रयेसयो-र्हेतुहेतुमद्भावः शास्त्रतत्त्वज्ञानयोर्व्यापारव्यापारिभावःनिःश्रेयसतत्त्वज्ञानयोः कार्य्यकारणभावः द्रव्यादिपदार्थ-शास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धोऽवगम्यते एते-षाञ्च सम्बद्धानां ज्ञानान्निःश्रेयसार्थिनामिह शास्त्रे प्रवृ-त्तिः मोक्षमाणाश्च मुनेर्गृहीताप्तभावा एव शास्त्रे प्रव-र्त्तन्ते निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः दुःखनि-वृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमान-कालीनत्व युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुण-ध्वससमानकालीनत्वं वा अशेषविशेषगुणध्वंसावधिक-दुःखप्रागभावो वा मुक्तिः नचासाध्यत्वान्नायं पुरुषार्थः, कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात् नच तस्यप्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात्, ज-नकत्वञ्च स्वरूपयोग्यतामात्नम्, नहि प्रामभावश्चरमसामग्रीयेन तस्मिन् सति कार्य्यमवश्यम्भवेत् तथा सति कार्य्यस्या-प्यनादित्वप्रसङ्गात् तथाच यथा सहक रिवितहादियन्तंकालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति हेतू-च्छेदे पुरुषव्यापारात् इत्यस्यापि प्रागभावपरिपालन एवतात्पर्य्यात्, अत एव गौतमीयद्वितीयसूत्रे “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्ततापाये तदनन्तरापाया-दपवर्गः” इत्यत्र कारणाभावात् कार्य्याभावाभिधानंदुःखप्रागभावरूपामेव मुक्तिं द्रढयति नहि दोषापायेप्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःय्यापायइत्यत्रापायो ध्वंसः किन्त्वनुत्पत्तिः साध प्रागभाव एव नच प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्र-सिद्धेः प्रायश्चित्तवत् तत्रापि प्रत्यवायध्वंसद्वारा दुःखाः-नुत्पत्तेरेवापेक्षितत्वात् लोकेऽहिकण्टकादिनिवृत्तेर्दुःखा-नुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षा-वतां प्रवृत्तेः केचित्तु दुःखात्यन्ताभाव एव मक्तिःसच यद्यपि नात्मनिष्ठस्तथापि लोष्टादिनिष्ठ एवात्मनिसाध्यते सिद्धिश्च तस्य दुःखप्रागभावासहवर्त्तिदुःखध्वंसएव तस्य तत्सम्बन्धतयोपगमात् तस्मित् सति तत्र दुःखा-त्यन्ताभावप्रतीतेः एवञ्च सति “दुःखेनात्यन्तं विमुक्तश्च-रति” इत्यादिश्रुतिरप्युपपादिता भवतोत्याहुः तन्न दुः-खात्यन्ताभायस्यासाध्यत्वेनापुरुषार्थत्वात् दुःखध्वंसस्य नतत्र सम्बन्धत्वं परिभाषापत्तेः “दुःखेनात्यन्तं विमुक्तश्चरति”इति श्रुतेर्दुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ता-भावसमानरूपत्वतात्पर्य्यकत्वात् नन्द्वयं पुरुषार्थःनिरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यतेइति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्नवैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावौपाधि-कीत्येव किं स्यात् शोकाकुलानां सुखविमुखानामपिदुःखाभावमात्रमभिसन्धाय विषभक्षणोद्बन्धनादौ प्रवृत्ति-दर्शनात् ननु पुरुषार्थोऽप्ययं ज्ञायमान एव मुक्तेस्तुदुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्च्छाद्यवस्था-र्थमपि प्रवर्त्तेतेरि चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावे-द्यत्वानुपपत्तेः अस्ति हि श्रुतिः “दुःखेनात्यन्त विमुक्त-श्चरति” “तसेव विदित्वाऽतिमृत्युमेति” इत्यादिका ।अनुानमप्यस्ति दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात्प्रदीपसन्ततिवदित्यादि चरमदुःखध्वंसस्य दुःखसाक्षात्का-रेण क्षणं विषर्यकरणात् प्रत्यक्षवेद्यताऽपि योगिनांयोगजधर्म्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च ।तथापि तुल्यायव्ययतया नायं पुरुषार्थो दुःखवत् सुख-स्यापि ज्ञाने द्वयोरपि समानसामग्रीकत्वादिति चेत्उत्सगतो वीतरागाणां दुःखदुर्द्दिनभीरूणां सुखखद्यो-तिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः ननु तथापिदुःखनिवृत्तिर्न पुरुषार्थः, अनागतदुःखनिवृत्तेरशक्यत्वात्अतीतदुःखस्यातीतत्यात् वर्त्तमानदुःखस्य पुरुषत्रयत्नमन्त-रेणैव निवृत्तेरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्राय-श्चित्तवत् तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदु-च्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानं योगविधिसाध्यमितितदर्थं प्रवृत्त्युपपत्तेः” उपस्करः कियदन्तरे च“धर्मविशेषप्रसूतादिति तत्त्वज्ञानादित्यस्य विशेषणं तत्रधर्मविशेषो निवृत्तिलक्षणो धर्मः यदि तु तत्त्वं ज्ञाय-तेऽनेनेति तत्त्वज्ञानं शास्त्रमुच्यते तदा धर्मविशेष ईश्व-रनियोगप्रसादरूपो वक्तव्यः श्रूयते हीश्वरनियोगप्रसाद-वधिगम्य कणादो महर्षिः शास्त्रं प्रणीतवानिति तत्त्व-ज्ञानमात्मतत्त्वसाक्षात्कार इह विवक्षितस्तस्यैव सवासन-मिथ्याज्ञानोन्मूलनक्षमत्वात् “तमेव विदित्वाऽतिमृत्युमेतिनान्यः पन्था विद्यतेऽनाय” इत्यत्र “द्वे ब्रह्मणी वेदितव्ये” इत्यत्र वेदनपदस्य साक्षात्कारपरत्वात् “पश्यत्यचक्षुः” इत्यत्रापि तथा सच शास्त्रान्मनननिदिध्या-सनादिपरम्परयेति हेतुपञ्चम्या तथैवाभिधानात्” उप०न्यायकन्दल्यां प्रयोजनसूत्रमित्थं विवृतं यथा“तच्चेश्वरनोदनाभिव्यक्ताद्धर्म्मादेवेति” भाष्यप्रतीकव्याख्या-याम् “यस्य वस्तुनो यो भावस्तत् तस्य तत्त्वम् साधारणो-धर्म्मः साधर्म्यम् असाधारणोधर्म्मो वैधर्म्यं तयोस्तत्त्व-ज्ञानं निःश्रेयसहेतुः विषयसंयोगजं सुखं तावत् क्षणि-कंविनाशि दुःखबहुल खर्गादिपदं प्राप्यमपि सप्रक्षयं, सातिशयञ्च तथा कस्यचित्स्वर्गमात्रमपरस्य स्वर्गराज्यम्अतस्तदपि सततंप्रच्युतिशङ्कया परसमुत्कर्षोपतापाच्च दुः-खाक्रान्तं निश्चितं श्रेयः आत्यन्तिकी दुःखनिवृत्तिर-सह्यसंवेदननिखिलदुःखासवेदनारूपत्वादपरावृत्तेश्च निश्चितंश्रेयः तस्य कारणं द्रव्यादिस्वरूपज्ञानम् एतेनैतत् प्रत्युक्तमण्डनेन यदुक्तं विशेषगुणनिवृत्तिलक्षणा मुक्तिरुच्छेद-पक्षान्न भिद्यत इति विशेषगुणोच्छेदे हि सति आत्मनःस्वरूपेणावस्थानं नोच्छेदोनित्यत्वात् नचायमपुरुषार्थःसमस्तदुःखोपरमस्य पुरुषार्थत्वात् समस्तसुखाभावादपुरु-षार्थत्वमिति चेत् सुखस्यापि क्षयितया बहुलप्रत्यनीक-तया साधनप्रार्थनाशतपरिक्लिष्टतया सदा दुःखा-क्रान्तस्य विषमिश्रस्येव मधुनोदुःखपक्षे निक्षेपात्” किय-दन्तरे तत्रैव “तत् निःश्रेयसं धर्म्मादेव भवति द्रव्यादि तत्त्वज्ञानं तस्य कारणत्वेन निःश्रेयससाधनम् इत्यभिप्रायःतत्त्वतोज्ञातेषु बाह्याध्यात्मिकेषु विषयेषु दोषदर्शनाद्विर-क्तस्य समीहानिवृत्तावात्मज्ञस्य तदर्थानि कर्म्माण्यकुर्व्वत-स्तत्परित्यागसाधनानि श्रुतिस्मृत्युदितानि असकल्पितफलान्युपाददानस्यात्मज्ञानमभ्यस्य तः प्रकृष्टविनिवर्त्तकधर्म्मो-पचये सति परिपक्वात्मज्ञानस्यात्यन्तिकशरीरवियोगसम्भ-वाद्दृष्टोहि विषयाणामहिकण्टकादीनां, परित्यागो-विषयदोषदर्शनादभिसन्धिकृतनिवर्त्तकात्मविशेषगुणात् प्रय-त्नात् तेन शरीरादीनामात्यन्तिकः परित्यागोविषयदोष-दर्शनपूर्वकानभिसन्धिकृतनिवर्त्तकात्मविशेषगुणनिमित्तविघातइति मोक्षाधिकारे वक्ष्यामः धर्म्मोऽपि केवलं नतावन्निश्रेयसं करोति यावदीश्वरेच्छया नानुगृह्यतेतेनेदमुक्तम् ईश्वरनोदनेत्यादि नोद्यन्ते प्रेर्य्यन्ते स्वकार्य्येषुप्रवर्त्त्यन्तेऽनया भावा इति नोदना ईश्वरस्य नोदना ईश्व-रेच्छाविशेषः अभिव्यक्तिः कार्य्यारम्भं पत्याभिमुख्यम् ईश्व-नोदनयाऽभिव्यक्तात् ईश्वरेच्छाविशेषेण कार्य्यारम्भाभि-मुखीकृताद्धर्म्मादेव निःश्रेयसं भवतीति वाक्ययोजना” ।एवं विषयप्रयोजनादिकं चतुःसूत्र्यामभिहितं तत्र प्रति-पाद्यविषयाश्च सर्वद० दर्शिता यथाइह खलु निखिलप्रेक्षावन्निसर्गप्रतिकूलवेदनीयतयानिस्विलसंवेदनसिद्धं दुःखं जिहासंस्तद्धानोपायं जिज्ञासुः परमेश्वर साक्षात्कारमुपायमाकलयति “यदा चर्म्मवदा-काशं वेष्टयन्तीह मानवाः! तदा शिवमभिज्ञायदुःखस्या-न्तोभविष्यति” इत्यादिवचननिचयप्रामाण्यात् परमेश्वर-साक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः यदाह“आगमेनानुमानेन ध्यानाभ्यासरसेन त्रिधाप्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति” तत्र भनन-मनुमानाधीनमनुमानञ्च व्याप्तिज्ञानाधीनं व्याप्तिज्ञानञ्चपदार्थविषेकापेक्षम् अतः पदार्थषट्कम्” “अथाटोधर्म्मं व्याख्यास्याम इत्यादिकायां दशलक्षण्यां कण-भक्षेण भगवता व्यवस्थापि तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि तत्रापि प्रथमा-ह्निके जातिमन्निरूपणं, द्वितीयाह्निके जातिविशेषनिरू-पणम् आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणं, तत्रापि प्रथमाह्निके भूतविशेषलक्षणं, द्वितीये दिक्काल-प्रतिपादनम् आह्निकद्वययुक्ते तृतीये आत्मान्तःकरण-लक्षणं, तत्राप्यात्मलक्षणं प्रथमे, द्वितीये अन्तःकरण-लक्षणम् आह्निकद्वययुक्तेचतुर्घे शरीरतदुपथोगिविवेचनं, तत्रापि प्रथमे तदुपयीगिविवेचनं द्वितीये शरीरविवेचनम् ।आह्निकद्वयवति पञ्चमे कर्म्मप्रतिपादनं, तत्रापि प्रथमेशरीरसम्बन्धिकर्म्मचिन्तनं, द्वितीये मानसकर्मचिन्तनम् ।आह्निकद्वयशालिनि षष्ठे श्रौतधर्मनिरूपणं, तत्रापि प्रथमेदानप्रतिग्रहधर्मविवेकः, द्वितीये चातुराश्रम्योचितधर्मनिरू-पणम् तथाविधे सप्तमे गुणसमवायप्रतिपादनं, तत्रापिप्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनं, द्वितीये तत्सापेक्षगुण-प्रतिपादनं समवायप्रतिपादनञ्च अष्टमे निर्विकल्पकस-विकल्पकप्रत्यक्षप्रमाणचिन्तनम् नवमे वुद्धिविशेषप्रतिपा-दनम् दशमे अनुमानभेदप्रतिपादनम् तत्र उद्देशोलक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः ननुविभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमितिचेन्मैवं मंस्थाःविभागस्य विशेषोद्देश एवान्तर्भावात् तत्रद्रव्यगुणकर्मसामान्यविशेषसमवाया भावा इति षडेवै तेपदार्था इत्युद्देशः किमत्र क्रमनियमे कारणम् उच्यतेसमस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः ।अनन्तरं गुणत्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य, तदनु सामा-न्यवत्त्वसाम्यात् कर्मणः, पश्चात्तत्त्रितयाश्रितस्य सामान्यस्य, तदनन्तरं समवायाधिकरणस्य विशेषस्य, अन्ते अवशिष्टस्यसमवायस्येति क्रमनियमः ननु षडेव पदार्था इति कथंकथ्यते, अभावस्यापि सद्भावादिति चेन्मैवं वीचः नञर्थानु-ल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात्तथापि कथं षडेवेति नियम उपपद्यते विकल्पानुपपत्तेःतथाहि नियमव्यवच्छेद्यं प्रमितं वा प्रमितत्वे कथंनिषेधः अप्रमितत्वे कथन्तराम्, नहि कश्चित् प्रेक्षावान्मूषिकविषाणं प्रतिषेद्धं यतते, ततश्चानुपपत्तेर्नो नियम इतिचेन्मैवं भाषिष्ठाः सप्तमतया प्रमिते अन्धकारादौ भावत्वस्यभावतया प्रमिते शक्तिसादृश्यादौ सप्तमत्वादेश्च निषेधा-दिति कृतं विस्तरेण ।तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिर्जातिर्लक्षणम् द्रव्यत्वंनाम गगनारविन्दसमवेतत्वे सति नित्यगन्धासमवेतम् ।(गगनसमवेतत्वे सति पद्मसमवेतत्वेसति नित्यत्वे सतिगन्धासमवेतत्वं द्रव्यत्वलक्षणम् सत्तारूपजातिव्यवच्छेदायगन्धासमवेतत्वमुक्तम् कालिकसम्बन्धेन द्रव्यत्वस्य गन्धवृत्ति-त्वादसम्भववारणाय गन्धसमवेतत्वमुक्तम् संयोगादेर्गन्धा-समवेतत्वेन गगनादिसमवेतत्वेनातिप्रसङ्गवारणायनित्यत्वे सतीति विशेषणम् पद्मत्वपृथिवीत्वजातौपद्मसमवेतत्वस्य नित्यत्वस्य गन्धासमवेतत्वस्य सत्त्वा-दतिप्रसङ्गवारणाय गगनसमवेतत्वे मतीति विशेषणम्गगनपरिमाणस्य नित्यस्य गन्धासमनेतस्य तथात्ववारणा-यारविन्द समवेतत्वे सतीति विशेषणम् इतिबोध्यम्) ।गुणत्वं नाम समवायिकारणासमवायिकारणभिन्नसमवेतस-त्तासाक्षाद्व्याप्यजातिः (सत्तासाक्षाद्व्याप्यस्य समवायिका-रणद्रव्यसमवेतस्य द्रव्यत्वस्य, असमवायिकारणसमवेतस्य क-र्मसमवेतस्य कर्म्मत्वस्य तथात्ववारणाय तदुभयभिन्न-समवेतत्वं जातौ विशेषणम् गुणत्वस्य तु तथात्वम्गुणेषु ज्ञानादिषु असमवारिकारणभिन्नेषु समवेतज्ञान-त्वादेः सत्तासाक्षाद्व्याप्यत्वेऽपि नातिप्रसङ्गः) कर्मत्वंना-मानित्यसमवेतत्वसहितसत्तासाक्षाद्व्याप्यजातिः (अनि-मात्रसमवेतत्वे सति सत्तासाक्षाद्व्याप्यजातित्वम् कर्मत्वलक्षणम् द्रव्यत्वस्य गुणत्वस्य नित्यमात्रसमवेतत्वाभा-वान्न तथात्वम् संयोगत्वादेस्तथात्वेऽपि सत्तासाक्षाद्व्याप्य-त्वाभावान्नातिप्रसङ्गः) सामान्यन्तु प्रध्वंसप्रतियोगित्वर-हितमनेकसमवेतम् (संयोगविभागादौ अनेकससवेतेऽ-तिप्रसङ्गवारणाय ध्वंसप्रतियोगित्वरहितेति अत्यन्ता-भावे तथात्ववारणाय समवेतत्वं विशेषणम्) ।विशेषो नामान्योन्याभावविरोधिसामान्यरहितः समवेतः ।समवायस्तु समवायरहितः सम्बन्ध इति षण्णा लक्षणानिव्यवस्थितानि ।“द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्मम-नांसीति तत्र पृथिव्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्ल-क्षणम् पृथिवीत्वं नाम पाकजरूपसमानाधिकरणद्रव्यत्व-साक्षाद्व्याप्यजातिः अप्त्वं नाम सरित्सागरसमवेतत्वेसति सलिलसमवेतं सामान्यम् तेजस्त्वं नाम चन्द्र-चामीकरसमवेतत्वे सति ज्वलनसमवेतं सामान्यम् वा-युत्वं नाम त्वगिन्द्रियसमवेतद्रव्यत्वसाक्षाद्व्याप्यजातिः ।आकाशकालदिशामेकैकत्वादपरजात्यभावात् पारिभाषिक्य-स्तिस्नः संज्ञा भवन्ति आकाशः कालो दिगिति सयो-गाजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणमाकाशम् विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधि-करणम् कालः अकालत्वे सत्यविशेषगुणा महती दिक् ।आत्ममनसोरात्मत्वमनस्त्वे आत्मत्वं नाम अमूर्त्तसभ-वेतद्रव्यत्वापरजातिः मनस्त्वं नाम द्रव्यसमवायिका-रणत्वरहिताणुसमवेतद्रव्यचापरजातिः रूपरसगन्ध-स्पर्शसङ्ख्यापरिमाणपृयक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुख-दुःखेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुच्चिताःगुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाःसप्तैवेत्येवं चतुर्विंशति-र्गुणाः तत्र रूपादिशब्दान्तानां रूपत्वादिजातिर्लक्ष-णम् रूपत्वं नाम नीलसगवेतगुणत्वापरजातिः ।अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि कर्मपञ्चविधम् उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात् ।भ्रमणरेचनादीनां गमन एवान्तर्भावः उत्क्षेपणादी-नामुत्क्षेपणत्वादिजातिर्लक्षणम् तत्र उत्क्षेपणं नामऊर्द्ध्वदेशसंयोगासमवायिकारणप्रमेयसमवेतकर्मत्वापरजातिः ।एवमवक्षेपणादीनां लक्षणं कर्त्तव्यम् सामान्यं द्विविधंपरमपरञ्च परं सत्ता द्रव्यगुणसमवेता गुणकर्मसमवेतावा अपरं द्रव्यत्वादि तल्लक्षणं प्रागेवोक्तम् विशेषाणाम-नन्तत्वात् समवायस्य चैकचाद्विभागो सम्भवति तल्ल-क्षणञ्च प्रागेवावादि (सर्व्वत्रापरत्वं व्याप्यत्वम् अल्प-देशवृत्तित्वं वा) ।“द्वित्वे पाकजोत्पत्तौ विभागे विभागजे यस्यन स्खलिता बुद्धिस्त्वं वै वैशेषिकं विदुरिति” आभाण-कस्य सद्भावात् ष्ट्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते तत्र प्रथ-ममिन्द्रियार्थसन्निकर्षस्तस्वादेकत्वसामान्यज्ञानं ततोऽपेक्षा-बुद्धिः ततो द्वित्वोत्पत्तिस्ततो द्वित्वसामान्यज्ञानं तस्मात्द्वित्वगुणज्ञानं ततः संस्कारः” तदाह“आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगो-चरा मतिरतो द्वित्वं ततो जायते द्वित्वत्वप्रमितिस्ततोऽ-नु परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरिय निगदिताद्वित्वोदयप्रक्रियेति” ।द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् अत्राहुरा-चार्य्याःअपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका भवितुमर्हति व्यञ्ज-कत्वानुपपत्तौ तनानुविधीयमानत्वात् शब्दं प्रति संयोग-वदिति” वयन्तु ब्रूमः द्वित्वादिकमेकत्वद्वयविषयानित्य-बुद्धिव्यङ्ग्यं भवात अनेकाश्रितगुणत्वात् पृथक्त्वादिवदिति ।निवृत्तिक्रमो निरूप्यते अपेक्षाबुद्धित एकत्वसामान्य-ज्ञानस्य द्वित्वोत्पत्तिसमकालनिवृत्तिः अपेक्षाबुद्धेर्द्वित्वसा-मान्यज्ञानात् द्वित्वगुणबुद्धिसमसमयं द्वित्वस्यापेक्षाबुद्धिनि-वृत्तेर्द्रव्यबुद्धिसमकालं गुणबुद्धेः, द्रव्यबुद्धितः संस्कारोत्पत्ति-समकालं द्रव्यबुद्धेस्तदनन्तरसंस्कारादिति तथाच संग्रहः“आदावपेक्षाबुद्ध्या हि नश्येदेकत्वजातिधीः द्वित्वोद-यसमं पश्चात् सा तज्जातिबुद्धितः द्वित्वाख्यगुणधी-काले ततो द्वित्व निवर्त्तते अपेक्षाबुद्धिनाशेन द्रव्य-धीजन्मकानतः गुणबुद्धिर्द्रव्यबुद्ध्या संस्कारोत्पत्तिका-लतः द्रव्यबुद्धिश्च संस्कारादिति नाशक्रभो मतः” इति ।बुद्धेर्बुद्ध्यन्तरविनाश्यत्वे संस्कारविनाश्यत्वे प्रमाणंविवादाध्यासितानि ज्ञानानि उत्तरोत्तरकार्य्यविनाश्यानिक्षणिकविभुविशेषगुणत्वात् शब्दवत् द्रव्यारम्भकसंयो-गप्रतिद्वन्द्विविभागजनककर्मसमकालमेकत्वसामान्यचिन्तयाआश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः कर्मसमकालमपेक्षा-बुद्धिचिन्तनादुभाभ्यामिति सक्षेपः अपेक्षावुद्धिर्नामविनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम् ।अथ द्व्यणुकनाशमारभ्य कतिभिः क्षणैः पुनरन्यद् द्व्य-णुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारःकथ्यते नोदनादिक्रमेण द्व्यणुकनाशः नष्टे द्व्यणुकेपरमाणावग्निसंयोगात् श्यामादीनां निवृत्तिः निवृत्तेषुश्यामादिषु पुनरन्यस्मादग्निसंयोगाद्द्रव्यादीनामुत्पत्तिःउत्पन्नेषु रक्तादिषु अदृष्टवदात्मसंयोगात् परमाणौ द्रव्या-रम्भणाय क्रिया तया पूर्व्वदेशाद्विभागः विभागेन पूर्ब्ध-देशसंयोगनिवृत्तिः तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगो-त्पत्तिः संयुक्ताभ्यां परमाणुभ्यां द्व्यणुकारम्भः आरब्धेद्व्यणुके कारणगुणादिभ्यः कार्य्यगुणादीनां रूपादीना-मुत्पत्तिरिति यथाक्रमं नव क्षणाः दशक्षणादिप्रकारान्तरंविस्तरमयान्नेह प्रतन्यते इत्थं पीलुपाकप्रक्रिया पीठ-रपाकप्रक्रिया तु नैयायिकधीसम्मता ।विभागजविभागो द्विविधः कारणमात्रविभागजः कार-णाक रणविभागजश्च तत्र प्रथमः कथ्यते कार्य्यव्याप्तेकारणे कर्मोत्पन्नं यदावयवान्तराद्विभागं विधत्ते तदा-काशादिदेशाद्विभागः यदा त्वाकाशादिदेशाद्विभागः नतदावयवान्तरादिस्थिति नियमः कर्म्मणो गगनविभागाकर्तृत्वस्य दव्यारम्भकसयोगविरोधिविभागारम्भकत्वेन धूमम्यधूमध्वजवर्गेणेव व्यभिचारानुपलम्भात ततश्चावयवकर्म अव-यवान्तरादेव विभागं करोति नाकाशादिदेशात् तस्माद्वि-भागाद्द्रव्यारम्भकसयोगनिवृत्तिः ततः कारणाभावात् का-र्याभाव इति न्यायादवयविनिवृत्तिः निवृत्तेऽवयविनि तत्का-रणयोरवयवयोर्वर्त्तमानो विभागः कार्यविनाशविशिष्टंकालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशदेशाद्विभागमारभते निष्क्रियस्य, कारणाभावात् ।द्वितीयस्तु हस्ते कर्म्मोत्पन्नमवयवान्तराद्विभागं कुर्व्वत्आकाशादिदेशेभ्यो विभागानारभते, ते कारणाकारणवि-भागाः कर्म यां दिशं प्रति कार्य्यारम्भाभिमुखतामपेक्ष्यकार्य्याकार्य्यविभागमारभते यथा हस्ताकाशविभागाच्छरी-राकाशविभागः चासौ शरीरक्रियाकार्य्यस्तदा तस्य नि-ष्क्रियत्वात् नापि हस्तक्रियाकार्य्यः व्यधिकरणस्य कर्मणोविभागकर्तृत्वानुपपत्तेः अतः पारिशेष्यात् कारणाकारण-विभागस्य कारणत्वमङ्गीकरणीयम् ।यदवादि अन्धकारादौ भावत्वं निषिध्यत इति तद-सङ्गतं तत्र चतुर्द्धा विवादसम्भवात् तथाहि द्रव्यं तम इतिभाट्टाः वेदान्तिनश्च भणन्ति, आरोपित नीलरूपमिति श्रीध-राचार्य्याः आलोकज्ञानाभाव इति प्राभाकरैकदेशिनःआलोकाभाव इति नैयायिकादयः इति चेत्तत्र द्रव्यत्वपक्षोन घटते विकल्पानुपपत्तेः द्रव्यं भवदन्धकारं द्रव्याद्यन्यतम-मन्यद्वा नाद्यः यत्रान्तर्भावोऽस्य तस्य यावन्तो गुणास्तावद्गुणकत्वप्रसङ्गात् तमसो द्रव्यवहिर्भाव इति साम्प्रतं निर्गु-णस्य तस्य द्रव्यत्वासम्भवेन द्रव्यान्तरत्वस्य सुतरामसम्मवात् ।ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं निर्गुणं, स्या-दिति, नीलं नभ इतिवत् भ्रान्तिरेवेत्यलं वृद्धबीबधया ।अत एव नारोपितनीलरूपं तमः अधिष्ठानप्रत्ययमन्तरेणा-रोपा योगात् बाह्यालोकसहकारिरहितस्य चक्षुषो रूपारोपेसामर्थ्यानुपलम्भाच्च चायमचाक्षुषः प्रत्ययः तदनु-विधानस्यानन्यथासिद्धत्वात् विधिप्रत्ययवेद्यत्वायोगो भावे इति साम्प्रतं प्रलयविनाशावधानादिषु व्यभि-चारात् अत एव नालोकज्ञानाभावः अभावस्य प्रतियो-गिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात् तस्मा-दालोकाभाव एव तमः चाभावे भावधर्माध्यारोपो दुरु-पपादः दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभाग-त्वाभिमानस्य दृष्ठत्वात् नचालोकाभावस्य घटाद्य-भाववद्रूपवदभावत्वे नालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वंस्यादित्येषितव्यं, यद्ग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपितदपेक्षत इति न्यायेनालोकग्रहे आलोकापेक्षाया अभावेनतदभावग्रहेऽपि तदपेक्षाया अभावात् चाधिकरण-ग्रहणावश्यम्भावः अभावप्रतीतावधिकरणग्रहणावश्यंभावा-नङ्गीकारादपरथा निवृत्तः कोलाहल इति शब्दप्रध्व स-प्रत्यक्षो स्यादिति अप्रामाणिकं तव वचनं परम् ।तत्सर्व्वमभिसन्धाय भगवान् कणादः प्रणिनाय सूत्रं द्र-व्यगुणकर्मनिष्पत्तिवैधर्म्म्यादभावस्तम इति प्रत्ययवेद्य-त्वेनापि निरूपितम् ।अभावस्तु निशेधमुखप्रमाणगम्यः सप्तमो निरूप्यते ।स चासम्बन्धत्वेसत्यसमवायः (अनुयोगित्वप्रतियोगित्वतादा-त्न्यान्यतमसम्बन्धेन समवायशून्यत्वमसमवायत्वम्) संक्षे-पेतो द्विविधः संसर्गाभावान्योन्याभावभेदात् संसर्गाभावोऽपित्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात् तत्रानित्यः अ-नादितमः प्रागभावः, उत्पत्तिमान् विनाशो प्रध्वसः, प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः नन्वन्योन्याभाव ए-वात्यन्ताभाव इति चेत् अहो राजमार्ग एव भ्रमः अन्यो-न्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः यथा घटःपटात्मा भवतीति ससर्गप्रनियोगिकः प्रतिषेधोऽत्यन्ता-भावो यथा वायौ रूपसम्बन्धो नास्तीति चास्यपुरुषार्थौपयिकत्वं नास्तीत्याशङ्कनीयं दुःखात्यन्तो-च्छेदापरपय्यायनिःश्रेयसरूपत्वेन परमपुरुषार्थत्वात्” ।शास्त्रान्ते १० अ० आह्निके “दृष्टानां दिष्ट-प्रयोजनानां दृष्टामावे प्रयोगोऽभ्युदयाय” सू० ।“दृष्टानां प्रमाणत उपलब्धानां यागदानस्नानादीनां दिष्ट-प्रयोजनानां दिष्टमुपदिष्टं प्रयोजनं येषां तेषाम् तथाहि“स्वर्गकामोयजेत” “अग्निहोत्रं जुहुयात् स्वर्गकाम”इत्यादौ विधिसमभिव्याहृतमेव फलम्, क्वचिदार्थवादिकंयथा “यएता रात्रीरधीयोत तस्य पितरोघृतकुल्यामधुकु-ल्याःक्षरन्ति” इत्यादौ, क्वचिच्चौपपादनिकम्, यथा “विश्वजिता यजेत” इत्यादौ, अत्र हि विधिसमभिव्याहृतनाप्यर्थवादोपस्थितमित्यौपपादनिकं काल्पनिकं स्वर्गम्यैवस्वतः सुन्दरस्य फलस्य कल्पनीयत्वात्, तथाचाशुतरविना-शिनामेतेषां कर्म्मणां चिरभाविने फलाय कारणत्वमनु-पपद्यमानमतएषां प्रयोगोऽनुष्ठानमभ्युदयायापूर्व्वायेत्यर्थः ।ननु श्रुतिप्रामाण्ये सति स्यादेवं तदेव तु दुर्लभं नहि मी-मांसाकानामिव नित्यनिर्द्दोषत्वेन श्रुतिप्रामाण्यं त्ववेष्यतेपौरुषेयत्वेनाभ्युपगमात्, पुरुषस्य भ्रमप्रमादविप्रलि-प्सादिसम्भवादत आह दृष्टाभाव इति दृष्टं पुरुषान्तरे-ऽस्मदादो भ्रमप्रसादविप्रलिप्सादिकं पुरुषदूषणं तदभावेसतीत्यर्थः क्षितिकर्तृत्वेन वेदवक्तृत्वेन वाऽनुमितस्यपुरुषधौरेयस्य निर्द्दोषत्वेनैवोपस्थितेः, तथा तद्वचसां ननिरभिधेयता विपरीताभिधेयता तिष्प्रयोजनाभिधे-वता, भूतेन्द्रियमनसां दोषात् भ्रमप्रमादकरणापाटवादि-प्रयुक्ता एव वचसामविशुद्धसः सम्भाव्यन्ते, चेश्वरवचसितासां सम्भवः, तदुक्तम् “रागाज्ञानादिभिर्वक्ता ग्रस्तत्वाद-नृतं वदेत् ते चेश्वरे विद्यन्ते ब्रूयात् कथमन्यथेति” ।ननु तेनेश्वरेण वेदस्य प्रणीत इत्यत्रैव विप्रतिपत्तिरत-आह उप० “तद्वचनादाम्रायस्य प्रामाण्यमिति” १० सू० ।“इति शास्त्रपरिसमाप्तौ तद्वचनात्तेनेश्वरेण वचनात्प्रणयनादाम्नायस्य वेदस्य प्रामाण्यं तथाहि वेदास्ता-वत् पौरुषेया वाक्यत्वादितिसाधितं नचास्मदादयस्तेषांसहस्रशाखावच्छिन्नानां वक्तारः सम्भाव्यन्ते, अतीन्द्रि-यार्थत्वात्, नचातीन्द्रियार्थदर्शिनोऽस्मदादयः किञ्च-प्रोक्तावेदा महाजनपरिगृहीतत्वात् यन्नाप्तोक्तं तन्म-हाजनपरिगृहीतं महाजनपरिगृहीतञ्चेदं तस्मादाप्तो-क्तम् स्वतन्त्रपुरुषप्रणीतत्वञ्चाप्तीक्तत्वम् महा-जनपरिगृहीतत्वञ्च सर्व्वदर्शनान्तःपातिपुरुषानुष्ठी-यमानार्थत्वम्, क्वचित् फलाभावः कर्म्मकर्तृसाधनवै-गुण्यादित्युक्तम् कर्तृस्मरणाभावान्नैवमिति चेन्न कर्तृ-स्मरणस्य पूर्व्वमेव साधितत्वात्, तत्प्रणितत्वञ्च स्वतन्त्र-पुरुषप्रणीतत्वादेव सिद्धस्, त्वस्मदादीनां सहस्रशाख-वेदप्रणयने स्वातन्त्र्यं संभवतीत्युक्तत्वात् किञ्च प्र-माया गुणजन्यत्वेन वैदिकप्रमायाअपि गुणजन्यत्वमाव-श्यकं तत्र गुणोवक्तृयथार्थवाक्यार्थज्ञानमेव वाच्य-स्तया तादृश एव वेदे वक्ता, यः स्वर्गापूर्व्वादिविष-यकसाक्षात्कारवान्, तादृशश्च नेश्वतादन्य इति सुष्ठु”